Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नंदीवास्या प्रतिपातिन्यवधिज्ञाने अयं न्याय प्रारंभे यदृष्टं तद् दृष्ट्वा प्रतिपततीति । न चैत्रदश्यं प्रतिपारखेवेति भावः । भावार्थः प्राक् प्रतिपादित एवैति क्षेत्रकालदर्शनमुपचारेपोच्यते ॥
मंचाः क्रोशंतीतिन्याये नयतो मूर्त्तद्रव्यालंबनत्वादवधेरित्ययं भावार्थः । ओहोगाहावन्निड़ एसोत्ति पाठः । पाठांतरे वन्निउ दुविहोत्ति पाठः । नेरइय गाहा
यस्य नैरंतर्येण सर्वतो भाविनोऽवधेस्तद्वान् जीवोऽत्यंतरे वर्तते । सो अत्यंतरावधिः । तथा च चूर्णिः । अब्भंतरावहीनाम जत्थसेवियस्स ओहिनाणं समुप्पन्न । तओ ठाणाओ आरब्भ सो मोहिनाणी निरंतर संबद्धं संखेज्जं वा । असंखेज्जं वा खेत्तं ओहिनाणी जाणइ पासइ एस अभंतरावही अवधिमानाद बहि बर्बाह्योऽवधिः । अयमर्थः । जत्थसेबि (संठि) यस्स ओहिनाणं समु. प्पन्नं । तंमि ठाणे सो ओहिनाणी न किं वि पासइ । तं पुण ठाणं जाहे अंतरियं होइ अंगुल विहत्थमाईहि संखेज्जेहिं असंखेज्जेहिं वा जोयणेहिं ताहे पासइ । एस बाहिरावही एवंअवधेदैविध्ये नारका देवास्तीर्थकराश्चावधिज्ञानस्याबाह्या भवन्ति । अवध्युपलब्धस्य क्षेत्रस्यांतर्वर्त्तन्ते । अभ्यंतरवर्तिन एव भवन्ति । अतएवा(व) बाह्यावधय एवैते प्रतिपाद्यन्तेऽभ्यंतरावधय इत्यर्थः । अवधिप्रकाशितक्षेत्रस्य प्रदीपा इव निजनिजप्रभापटलस्य नैते बहिर्भवन्तीति भावः । तथावधिना पश्यंत्यवलोकयति । खलुशब्दस्यावधारणार्थत्वात्सर्वत एव सर्वास्वैव दिक्षु विदिक्षु बनतदेशत इत्यर्थः । शेषास्तिर्यगमनुष्या देशेनेत्येकदेशेन पश्यति । तत्र वाक्याबधारपविधि रिष्टतः प्रवृत्ते शेषा पुत्र देशतः पश्यति नतु शेषा देशत एलेति द्रष्टव्यं । शेषास्तियन्मनुष्याः सर्वतो देशताच परतीति भावः नत्ववधिरबाह्या भवतीत्यवध्युपलब्धक्षेत्रस्याभ्यन्तरे नारकादयो बर्ततेः (तते) । इत्युक्के सति पश्यति सर्वत इति किमर्थ भण्यते। येयवधिप्रकाशितक्षेत्रस्य मध्ये वर्त्तत्ते(तते)ते सर्वतः पश्यत्ये(न्त्ये)वेति गतार्थत्वादनि(ति)रिच्यतो अत्रोच्यते । योऽन्त्यसंबद्धवलयाकारक्षेत्रप्रकाशकावधि र्भवति । तद्वान्साध्वादिरवध्युपलब्धक्षेत्रस्याऽत्तः (न्तः)स्थितोपि न सर्वतः प्रश्यत्यतरालादर्शनादतः स्तद्वयवच्छेदार्थ कर्त्तव्यं पश्यंति सर्वत इति ॥. ... अथवा पूर्वार्द्धमन्यथा व्याख्यायते । तत्र के(s) नियतावधयः के वा नियतावधय इति प्रश्ने नारादेवीर्थकरा अवधेरवाह्या भव(वंतीति कोऽर्थो अवधिज्ञानवन्त एवामी भवन्ति । अवधिज्ञानं नियमेनैषां भवतीत्यर्थः । तत्रापि किमती(मी)तेतावधिना सर्वतः पश्यति देशतो चेति संशये सत्याह ॥
पासंतीत्याद्युत्तरार्थ अस्य व्याख्या तथैवेति । तत्रैतत्स्याद्भवप्रत्ययो नारकदेवानामित्यादि वचनात्तथा 'तिहिं नाणेहिं समड्ढातित्थ(य) राजाव होंति गिहवासो' इत्यादि वचनात् पारभविका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112