Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 36
________________ दुर्गपदव्याच्या तथा तृतीयादिष्वादिशब्दाच्चतुर्थीपरिग्रहः । ततश्च एगं नित्ति । एकत्वे वर्त्तमानानां तृतीया चतुर्थी - षष्ठी - सप्तमीनां स्थाने महिलच्छेत्ति स्त्रीलिंगे अभिधेये एकारो भवति । तन्न तृतीयानां यथा सुंदरबुद्धीए कयमित्यादि ॥ चतुर्थ्यां गावीए पुणदिन्नं तणं पि खी रत्तणमुवेति । इत्यादि षष्ठास्थाने यथा ॥ तीए पुण विशुद्धीए कारणं होति पडिमांउ । इत्यादि ॥ सप्तम्याः स्थाने यथा अत्रैव । ननु तृतीयादिष्वत्यादिशन्दात्किमिति न पञ्चमी परिग्रहो मैवं, तत्स्थाने उकारस्य दर्शनात्तद्यथा ॥ इत्थी आविसकमणमित्यादि ॥ अतएवान्न तईयासु छट्ठी सप्तमीण इतिव्यस् निदशा अन्यथा ह्यादिशब्देन चतुर्थ्यादीनां सर्वासामपि विभक्तीनामनुरोधः स्यादेवेति गाथार्थः ॥ १५ ननु वस्तूनां नवपुराणादयः पर्यायाः कालक्रमेणैव भवत्यतस्तेवेदुत्तरोत्तरकालक्रमवृद्धिभाजो वर्द्धते । तदा तद्वद्वो सिद्वैव कालवृद्धिरतः पयार्यवृद्धौ कालो भजनीयइति ॥ यदुक्तं तदसंगतमित्याशंक्याह ॥ अक्रमवर्त्तिनामपि च वृद्धिः संभवादिति । इदमुक्तं भवति । यद्युत्तरोत्तरकालक्रम वृद्धिभाजोंनवपुराणादय एव वस्तूनां पर्याया: स्युस्तदा युज्येत भवद्वचस्तच्च नास्ति रूपरसगंधस्पर्शतारम्यादिपर्यायाणां दक्षयोपशमावस्थानुपलब्ध्या अनाविशिष्ट क्षयोपशमे सति कालक्रमवृध्यभाaft बहूनां युगपदेव वृद्धिसंभवादिति भावनीयं । अत्रेत्यादि ॥ क्षेत्रकालयो रसबंधिनां प्रदेशानां समयानां च संख्यामाश्रित्य यन्मानं तत्परस्परं किं तुल्यं हीनमधिकं च भवेदिति प्रस्तार्थः सर्वत्रेत्यादिना प्रतिविधते ॥ या भासेत्यादि । गुरुलहुय गुरु लहुयंतंपियते वनिद्धा इति उत्तरार्द्धः तैजसं च भाषाच तैजसभाषे तयोर्द्रव्याणि । तेषां तैजसभाषाद्रव्याणामंतरादपांतराले । एच्छति । अत्रान्यदेव तदयोग्यं द्रव्यं ard पश्यति । प्रस्थापको अवधिज्ञानप्रारंभकोऽवधिप्रतिपत्तेति यावत् । किं विशिष्टं तदित्याह ॥ गुरुलघु अगुरुलघुवेवेति । गुरुलघुपर्यायोपेतं गुरुलघु । अगुरुलघुपयार्योपेतं त्वगुरुलघु । तत्र तैजसद्रव्यासन्नं गुरुलघु । भाषाद्रव्यासन्नं त्वगुरुलघु । तदपि वावधिज्ञानं तदावरणोदयात्प्रतिपततेनैवोक्तस्वरूपद्रव्येणोपलब्धेन सता निष्ठां याति । प्रतिपततीत्यर्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112