Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 40
________________ दुर्गपदव्याख्या लोकद्यामानयापत्तेऽधस्तनाः क्षुल्लकप्रतराः ॥ ॥ अहवत्ति । रयणप्पहपुढवीए- इति न योग्यमत्र पक्षे । भणे इत्यादि ॥ सव्व तिरियलोकवत्तिणोत्ति । अष्टादशशतयोजनवत्तिनः । ताणवेवत्ति । नव योजनशतमध्यवर्तिनां । इमंवत्ति । अधोलोकिकग्रामेषु मनःपर्यवज्ञानाबाधात्वतः । यतस्तैर्यग्लोकस्थो मनःपर्यायज्ञानी पश्यतीत्यत्र मते मापन्नं । अन्यच्च । इह लोइय गामेसुं । तित्थयरा केवलीय विभंति जोण विजयाणमन्भो मेरुस्सय पच्छिम दिसाए अपांतरालगतावप्युत्पत्तिस्थानमप्राप्नुवंतोपि संज्ञिनोभिधीयन्ते । तदायुषेति आगामिभवायुष्के देववशात् । तेपि वेति इंद्रियपर्याप्त्या पर्याप्तत्वभावात् । पंचेंद्रिय व्यपदेशं लभंते । परं मनः पर्याप्त्या पर्याप्ता एव पंचेंद्रिया ग्राह्याः । हेतुवादोपदेशेनेति हेतुर्निमित्तं कारणमित्यनातरं । तस्य वदनं वादस्तद्विषयः उपदेशः प्ररूपणं । हेतुवादोपदेशस्तेन विकलेंद्रिया द्वींद्रियादयः सचेष्टकाः संज्ञिनः । पृथिव्यादय एव निश्चेष्टा असंज्ञिनः हेतुवादश्चाय संज्ञिनो द्वींद्रियादयः हेयोपादेयेषु निवृत्तिप्रवृत्तेवदत्तादिवत् ॥ तथा च ॥ तापादिसंतप्ताच्छायासमाश्रयणादि कुर्वति । द्रष्टांते विपुलमति ऋजुमतेः सकाशात् जानाति पश्यति । क्षेत्रमायामविष्कभावाश्रित्याभ्यधिकतरकं बाहल्यमाश्रित्य विपुलतरकं विशुद्धतरं निर्मलतरं वितिमिरतरकं तिमिरकल्पतदावरणस्य विशिष्टतरक्षयोपशमसद्भावात् । विशुद्धतरमित्यत्र द्रष्टांतपुरःसरं विशुद्धतरत्वं भावयति । यथा चन्द्रेत्यादिना । कारणविशेषात्कार्यविशेषः किं न भवन्नुपलभ्यते । यथा चन्द्रकांतादिविमलप्रकाशकद्रव्यविशेषाद्विमलप्रकाशयुक्तोदष्टा विमलं पश्यति । स एव चन्द्रकान्तादि विमलवरप्रकाशकद्रव्यविशेषाद्विमलप्रकाशयुक्त द्रष्टुः सकाशाद्विमलतरं पश्यति । एवं प्रकृतेपि तपश्चरणविनयध्यानादि यः कारण भेदः । स्ततस्तद्वशाद्विष्कंभितोदयं यन्मनःपर्यायज्ञानस्यावरणमावारकं कर्म तस्य मंदमंदतर विशेषभावो भवति । यश्च तपश्चरणाघल्पं तस्य मंदस्तदावरणविष्कंभितोदयविशेषः । यस्याल्पतरं । तस्य सोपि मंदतरः । यस्य तपश्चरणादिभेदः प्रकृष्टः तस्यावरणमावारकं कर्म तस्य मंदमंदतर विशेषभावो भवति । यश्च तपश्चरणाघल्प तस्य मंदस्तदावरणविष्कभितोदयविशेषः । यस्याल्पतरं । तस्य सोपि मंदतरः। यस्य तपश्चरणादिभेदः प्रकृष्टः । तस्य विष्कभितोदयविशेषोपि निर्मलः । यस्य तपश्चरणादि प्रकृष्ट. तरं । तस्य तदावरणविष्कंभितोदयत्वमपि विशिष्टतरमित्यक्षरगमनिका । उपशांतं नाम विष्कभितोदयं यदावरणं तस्य विशेषादपि तदावरणेति तिमिरकल्पं यत्तदावरणं तस्य क्षयेण सह उपशमः। उदीर्णानां कर्मणां क्षयेण वेदनकृतः अनुत्तदावर तस्य क्षयेण सह उपशमः उदीर्णानां कर्मणां क्षयेण वेदनकृतः । अनुदीर्णानां बोपशमेन विकभितोदयत्वेन न क्षयोपशमस्तस्य विशेषात विति. मिरं आवरणतिमिररहितं अथवेति । प्रारबद्धं यत्तदावरणं कर्म तस्य क्षयोपशमः प्रागुक्तस्तस्य प्राधान्यात् विशुद्धतरं । बध्यमानावरणस्य विशेषस्तारतम्येन यत्र तद्वितिमिरतरम् । अन्येतु तदा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112