Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नंदोसूत्र-टीकायाः
यस्मान्नेहातिसूक्ष्मेणातिमहता वा किञ्चित्प्रयोजनं किं तर्हि योग्येन। योग्यश्च स एव तद्धेतुभिर्टष्टों यः प्रथमं जघन्यावगाहनः संस्तस्मिन्नेव भवे समयत्रयमाहारं गृह्णाति सर्ववद्वहिजीवाः निरंतरं सततं नैरन्तयेणेत्यर्थः । यावदिति यत् प्रमाण क्षेत्रमाकाशं वक्ष्यमाणविशिष्टसूचीरचनयारचिताः सन्तो भृतवन्तो व्याप्तवन्तः । भूतकालनिर्देशश्चाजितस्वामिकाल एव वक्ष्यमाणयुक्त्या प्रायः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसर्पिण्यामित्यस्यार्थस्य ख्यापनार्थः। अनलजीवोस्पतेर्महावृष्ट्यादिव्याघाताभावे समस्तभरतैरावतविदेहलक्षणपञ्चदशसु कर्मभूमिषु सर्वबहवोबादराग्निजीवा भवन्तीति किमविशेषेण । सर्वदैव एतास्वेते भवन्ति ! नैवं । किन्तु अजित जिनेन्द्रकाले अजितजिनेन्द्रस्याप्युपलक्षणत्वादवसर्पिण्यां द्वितीयतीर्थकरकाले अग्निजीवाबहवो भवन्ति । कुतः । तदारम्भकपुरुषबाहुल्यादिति तेषां बादराग्निजीवानां आरम्भका उत्पादकाः । सन्बुक्षणज्वलनाद्यारम्भकरणात्तदारम्भका ये पुरुषास्तेषां बाहुल्यात् । कोऽर्थः सर्वेभ्योप्यतीतानागतेभ्यो बहवः प्रचुरा गर्भजमनुष्यास्तदा भवन्ति । स्वभावादेवेति ॥ आह ॥ किमेतैरेव बादराग्निजीवैः सर्वबह्वग्निजीवपरिमाणं पूर्यते । आहोस्वित् सूक्ष्माग्निभिः सह यदितैः सह तदातेऽवशिष्टा अपि गृह्यन्ते । आहोस्वित् केचिदेव विशिष्टा इत्युच्यते । स्वभावाद्यदासू
माग्निजीवा अप्युत्कृष्टपदिनः स्युः । इदमत्र हृदयं । अनन्तानन्तास्ववसर्पिणीषु मध्ये स एव कश्चित् द्वितीयतीर्थकरकालो गृह्यते । यत्रसूक्ष्माग्निजीवा उत्कृष्टपदिनः प्राप्यन्ते । ततश्चतैर्बादरैः सूक्ष्मैश्चाग्निजीवैरुत्कृष्टपदिभिर्मीलितैः सर्वबहग्निजीवानां परिमाणं ग्राह्यमतएवाह । सूक्ष्माश्चेति । तत्रैवेति तेष्वेव मध्ये गृह्यन्ते- तेषांवावस्थानं बहुतरक्षेत्रपूरकं बुद्धयाषाढा यद्यपि सम्भवति । तथापि पञ्चानादेशाषष्ठस्त्वादेश इति वक्तुमाह । तेषां चेति । अयमर्थः । तैः सर्वैरप्यग्निजीवैः समचतुरस्रो धनो द्विभेदः स्थाप्यते । कथमित्युच्यते । एकैकाकाशप्रदेशे एकैकाग्निजीवरचनया स्वावगाहे वा सङ्ख्येयाकाशप्रदेशलक्षणे एकाग्निजीवरचनयेति अत्रस्थापना :: : एतेषां नवानामग्नि जीवानां प्रत्येकमेकैका काश प्रदेशे व्यवस्थापितानामधस्तादुपरिष्टाच्चान्येपि नव नव जीवा इत्थमेव व्यवस्थाप्यन्ते। एष कल्पनया सप्तविंशत्या सद्भावतस्तु सङ्ख्येयैरग्नि जीवैरेकैकाकाशप्रदेशव्यवस्थापितैर्धनोमन्तव्यः । द्वितीयोपि धन इत्थमेव द्रष्टव्यः केवलमिहासङ्ख्येयोकाशप्रदेशेष्वेष्वेकैकजीवो व्यवस्थाप्यते । एव मेकैकाकाशप्रदेशे एकैकजीवस्थापनया असङ्ख्येयप्रदेशात्मकस्यावगाहस्थापनया च प्रतरोपि द्विविधः ॥
सूचिरपि द्विभेदः । तत्रधनप्रतरपक्षश्चतुर्भेदः पश्चमश्चैकेकाकाशप्रदेशस्थापितैकैकजीवलक्षणसूचिपक्षोपि न ग्राह्यो । दोषद्वयानुषङ्गात्तथाहि पञ्चविधयाप्यनयास्थापनया स्थापिता अग्निजीवाः षट्स्वपि दिक्वधिज्ञानिनो सत्कल्पनया प्रतिप्रदेशावगाहेप्येस्त्विति ह्यन्नैवं कल्पनापि सति सम्भवे विरोधिन्येव कर्त्तव्या किं विरोधिन्येत्यालोच्याह । षष्ठ श्रुतादेश इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112