Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदव्याख्या
पुनरपि कथंभूतमित्याह ।।
स्वकेति मत्स्यदेहविस्तीर्ण शरीरान्तःसम्बद्धत्वादूर्वाधस्तिर्यक्कयावान्मत्स्यदेहस्य विस्तरस्तावांस्तज्जीवप्रदेशप्रतरस्यापीत्यर्थः । एवं वायामतो विष्कम्भतश्च मत्स्यशरीरपृथुत्वतुल्याङ्गुला सङ्ख्येयभागबाहल्यश्चायं प्रतरो भवतीत्येष प्रथमसमयव्यापारः प्रतरमेतावन्मात्रं करोति । दैयेणापि कुतः जीवसामर्थ्यात् । ततो द्वितीयसमये तं प्रतरमायामतो विष्कम्भतश्च संक्षिप्यामुलासङ्ख्येयभागबाहल्यां मत्स्यशरीरपृथुत्वायामास्तविं करोति । ततस्तृतीयसमये या निजतनु पृथुत्वेन दीर्घासूचिःतामपि सूचिं संक्षिप्याङ्गुलासङ्ख्येयभागमात्रावगाहनो भूत्वा निजीर्णमत्स्थभवायुश्च विग्रहगत्या मत्स्यशरीरस्यैवैकदेशे पनकः सूक्ष्मवनस्पतिजीवविशेषो भवति । अस्मादुत्पादसमयात् तृतीयसमये यदेहमानमङ्गुलासङ्ख्येयभागमात्रमेतस्य पनकस्य । तज्जघन्यमवधेविषयभूतं क्षेत्रं तज्ज्ञेयद्रव्याधारं । एतेन तत्ज्ञेयद्रव्याधारत्वेनैव क्षेत्रमवधेविषय उच्यते । नतु साक्षात्तस्यामूर्तत्वादवधेस्तु मूर्तविषयत्वादिति । सएवचेत्यादिति । यो हि योजनसहस्रायामो महाकायो मत्स्यस्त्रिभिश्च समयैरात्मानं संक्षिप्यति । स किल प्रयत्नविशेषादतिसूक्ष्मामवगाहनां कुरुते नान्यः । अनेन किमिति मत्स्योऽतिमहान् गृह्यते। तृतीयसमयसंक्षिप्तच्चे. स्येतस्य द्वयस्योत्तरमदायि । दूरे च गत्वान्यत्र यद्युत्पद्यते विग्रहेण च गच्छति तदाजीवप्रदेशाः किञ्चिद्विस्तरं यांतीत्यर्थेवगाहनास्थूलतरास्यादित्यविग्रहगत्या स्वशरीरदेश एवोत्पादित इत्येतत् स्वयमेव द्रष्टव्यमिति । किं त्रिसमयाहारकोगृह्यते । अत्रोत्तरमाह । प्रथमेत्यादि ।
त्रिसमयाहारकत्वविषये केचनाचार्या व्याचक्षते । यदुत द्वौ तावन्मत्स्यस्य सम्बन्धिनौ आधसमयौ गृह्येते आयामसंहरणेन प्रतरकरणमित्येकः । तत्संहरणेन सूचि यत्र करोति स द्वितीयः इत्यायामविष्कम्भयोः संहरणसमयद्वयं । तृतीयसमयस्तु सूचिसंहरणपनकत्वेनोत्पादित. श्चेतित्रयं । ततश्चत्रयः समथा यस्यासौ त्रिसमयः अविग्रहेणोत्पत्तेराहारकश्च एवं च सति प्रत्युतातिसूक्ष्मपनकश्चायं सिद्धो भवति । तथा च सति 'समयाहारगस्स पणगजीवस्से'ति सूत्रकारवचनमाराधितं भवति । किं वेह यथा सूक्ष्मसूक्ष्मतरासौ भवति । तथा कर्त्तव्यमेतच्चास्मिन् व्याख्याने सविशेषार्थ सिद्धयति । उत्पादसमय एव यतो यस्मादसौ पनकजीवोऽस्ति जघन्यावगाहनो भवति । न शेषसमयेषु द्वितीयादिष्वीषन्महत्वाऽजघन्यावगाहनश्चसूत्रे प्रोक्तस्ततो तिसूक्ष्मत्वसिद्धेस्तस्य पनकदेहस्य समानमेव किलावधेर्विषयभूतं जघन्यं क्षेत्रं भवतीति न युक्तमिदं केषाश्चिद् व्याख्यानं त्रिसमयाहारकत्वस्य पनकविशेषणत्वेनौ कृत्वान्मत्स्यसमययस्य च पनकसमयत्वायोगायोपीत्थमपि जघन्यावगाहनालाभलक्षणोगुण उद्भाव्यते सोपि नयुक्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112