Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 31
________________ नंदीसूत्र-टीकायाः चैकजीवस्य सङ्ख्येयान्यसङ्ख्येयानि च भवन्ति । तैर्यदवधिज्ञान जीवस्य तत् फट्टकावधि इत्युध्यते । तत्र सकलजीवोपयोगे सत्यपि साक्षादेकदेशेनैव दर्शनादात्मप्रदेशान्तर्गतमुच्यते । सर्वास्मप्रदेशक्षयोपशमभावे सत्यप्यौदारिकशरीरैकदेशेनैव दर्शनादौदारिकशरीरान्तर्गतमुच्यते । २ एकदिगुपालम्भात् ज्ञानोद्योतितक्षेत्रान्तर्वृद्धेरवधिमतमेगदिगुयोतितक्षेत्रान्तमुच्यते । आत्ममध्यगतादिभेदेन मध्यगतत्रिधा । तत्र सर्वात्मोपयोगे सस्यपि मध्य एव सर्वफट्टकविशुद्धिसद्भाबात्साक्षान्मध्यभागेनोपलब्धेरात्ममध्यगतमभिधीयते । २ सर्वात्मनः क्षयोपशमयोगाविशेषेप्यौदारिकशरीरमध्यभागेनोपलब्धेरौदारिकशरीरमध्यगतमुच्यते । २ सर्वदिगुपलम्भादवधिज्ञानप्रकाशितक्षेत्रमध्य एव ज्ञानिनः सद्भावात् । क्षेत्रमध्यगतमभिधीयते ॥ ३ अन्तर्गतं भूयोऽपि पुरतोऽन्तर्गतादि भेदात् त्रिधा । पुरतोऽप्रेतनभागेऽन्तस्थितं प्रागुक्तात्मदेशादीनां मार्गतः पृष्टतः । पोसउत्ति पार्श्वतः । उल्कादीपिकाऋजुलेतियाप्रसिद्धा। मणिं बत्तिप्रदीपशिखा मणिविशेषः । आदिग्रहणादन्योप्येवं जीवो ग्राह्यः । प्रदीपः कलिकारूपः प्रेरयन् २ आकर्षन् २ । नान्यत्रेति पृष्टिपार्श्वयो मार्गतोन्तर्गत सूत्रे उल्कादिकं अणु""ट्टमाणेत्ति । अनुकर्षन् गच्छतपार्श्वतोऽन्तर्गत सूत्रे उल्कादिकं प्रदीपात्तंज्योतिर्वस्तु पार्श्वतः कृत्वा परिकइढेमाणेत्ति परिकर्षन् गच्छेत् । मध्यगतसूत्रे मस्तकस्थेन ज्योतिर्वस्तुना यथा कश्चिद्गच्छेत् । सर्वत्र तत्प्रकाशितमथै पश्येत् एवं मध्यगतावधिज्ञानिन्यपि योज्यं । विशुद्धफडकैरिति विशुद्धक्षयोपशमजन्य फडकानि विशुद्धफडकान्युच्यन्ते । तैरित्यर्थः । दृष्टलेश्योपरंजितमिति । तत्र । . कृष्णादिद्रव्यसाचिव्यात्परिणामोयआत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्चते ॥ साचिव्यं सान्निध्यं । त्रिसमाहारक इति वाक्यं । यद्वा आह ॥ रयतीत्याह । परिकर्षन् गच्छेत् । मध्यगतसूत्रे । मस्तकस्थेन ज्योतिर्वस्तुना यथाः कश्चिगच्छेत । सर्वत्र तत्प्रकाशितमर्थ पश्येत् एवं मध्यगतावधिज्ञानिन्यपियोज्यम् । विशुद्धफडकैरिति । विशुद्धक्षयोपशमजन्यफडकान्युच्यन्तोन्तेरित्यर्थः । द्रव्यलेश्यापरंजितमिति तत्र कृष्णादि द्रव्यसाचिव्यात्परिणामोय आत्मनः । स्फटिकस्येवतत्रायं लेश्याशब्दः प्रवर्तते । साजावइ गाहा ॥ त्रिसमयमाहारक इति वाक्यं ॥ यद्वा आहारयतीत्याहारकः त्रीन् समयानाहारकस्निसमयाहारक इति व्युत्पत्तियोजनेत्याचापदकं । यो मत्स्यो योजनसहस्त्रायामः स्वदेहस्यैवैकदेशे उत्पद्यमानः सप्रथमे समये आयाम संक्षिपति । तं च संक्षिपन् प्रतरं करोति । कथंभूतमित्याह । सङ्ख्यातीताख्याङ्गुलविभागवाहल्यमानां बाहल्येनाङ्गुलासङ्ख्येयभागसूक्ष्ममित्यर्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112