________________
नंदीसूत्र-टीकायाः चैकजीवस्य सङ्ख्येयान्यसङ्ख्येयानि च भवन्ति । तैर्यदवधिज्ञान जीवस्य तत् फट्टकावधि इत्युध्यते । तत्र सकलजीवोपयोगे सत्यपि साक्षादेकदेशेनैव दर्शनादात्मप्रदेशान्तर्गतमुच्यते । सर्वास्मप्रदेशक्षयोपशमभावे सत्यप्यौदारिकशरीरैकदेशेनैव दर्शनादौदारिकशरीरान्तर्गतमुच्यते । २ एकदिगुपालम्भात् ज्ञानोद्योतितक्षेत्रान्तर्वृद्धेरवधिमतमेगदिगुयोतितक्षेत्रान्तमुच्यते । आत्ममध्यगतादिभेदेन मध्यगतत्रिधा । तत्र सर्वात्मोपयोगे सस्यपि मध्य एव सर्वफट्टकविशुद्धिसद्भाबात्साक्षान्मध्यभागेनोपलब्धेरात्ममध्यगतमभिधीयते । २ सर्वात्मनः क्षयोपशमयोगाविशेषेप्यौदारिकशरीरमध्यभागेनोपलब्धेरौदारिकशरीरमध्यगतमुच्यते । २ सर्वदिगुपलम्भादवधिज्ञानप्रकाशितक्षेत्रमध्य एव ज्ञानिनः सद्भावात् । क्षेत्रमध्यगतमभिधीयते ॥ ३
अन्तर्गतं भूयोऽपि पुरतोऽन्तर्गतादि भेदात् त्रिधा । पुरतोऽप्रेतनभागेऽन्तस्थितं प्रागुक्तात्मदेशादीनां मार्गतः पृष्टतः । पोसउत्ति पार्श्वतः । उल्कादीपिकाऋजुलेतियाप्रसिद्धा। मणिं बत्तिप्रदीपशिखा मणिविशेषः । आदिग्रहणादन्योप्येवं जीवो ग्राह्यः । प्रदीपः कलिकारूपः प्रेरयन् २ आकर्षन् २ । नान्यत्रेति पृष्टिपार्श्वयो मार्गतोन्तर्गत सूत्रे उल्कादिकं अणु""ट्टमाणेत्ति । अनुकर्षन् गच्छतपार्श्वतोऽन्तर्गत सूत्रे उल्कादिकं प्रदीपात्तंज्योतिर्वस्तु पार्श्वतः कृत्वा परिकइढेमाणेत्ति परिकर्षन् गच्छेत् । मध्यगतसूत्रे मस्तकस्थेन ज्योतिर्वस्तुना यथा कश्चिद्गच्छेत् । सर्वत्र तत्प्रकाशितमथै पश्येत् एवं मध्यगतावधिज्ञानिन्यपि योज्यं । विशुद्धफडकैरिति विशुद्धक्षयोपशमजन्य फडकानि विशुद्धफडकान्युच्यन्ते । तैरित्यर्थः । दृष्टलेश्योपरंजितमिति । तत्र । .
कृष्णादिद्रव्यसाचिव्यात्परिणामोयआत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्चते ॥ साचिव्यं सान्निध्यं । त्रिसमाहारक इति वाक्यं । यद्वा आह ॥
रयतीत्याह । परिकर्षन् गच्छेत् । मध्यगतसूत्रे । मस्तकस्थेन ज्योतिर्वस्तुना यथाः कश्चिगच्छेत । सर्वत्र तत्प्रकाशितमर्थ पश्येत् एवं मध्यगतावधिज्ञानिन्यपियोज्यम् । विशुद्धफडकैरिति । विशुद्धक्षयोपशमजन्यफडकान्युच्यन्तोन्तेरित्यर्थः । द्रव्यलेश्यापरंजितमिति तत्र कृष्णादि द्रव्यसाचिव्यात्परिणामोय आत्मनः । स्फटिकस्येवतत्रायं लेश्याशब्दः प्रवर्तते । साजावइ गाहा ॥
त्रिसमयमाहारक इति वाक्यं ॥
यद्वा आहारयतीत्याहारकः त्रीन् समयानाहारकस्निसमयाहारक इति व्युत्पत्तियोजनेत्याचापदकं । यो मत्स्यो योजनसहस्त्रायामः स्वदेहस्यैवैकदेशे उत्पद्यमानः सप्रथमे समये आयाम संक्षिपति । तं च संक्षिपन् प्रतरं करोति । कथंभूतमित्याह । सङ्ख्यातीताख्याङ्गुलविभागवाहल्यमानां बाहल्येनाङ्गुलासङ्ख्येयभागसूक्ष्ममित्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org