________________
दुर्गपदव्याख्या
निवृत्तिश्च भवति । देवताराधनमन्त्रादिस्मरणतश्चासौ · भवतीति भावापेक्षाप्यसौ । एवं सक् चन्दनाङ्गनारोग्यत्वादि द्रव्यभावापेक्षः ज्ञानाद्युदयो भवति । तथा निद्रादिपञ्चकोदयो भक्षितमाहिषदधि वृताका(वृन्ताका)दिद्रव्यस्य जीवस्य तत्तद्र्व्यमपेक्ष्य भवन् द्रव्यापेक्षः । सजलादिक्षेत्रं प्राप्य स एवातिशयेन भवतीति क्षेत्रापेक्षः । निद्रोदयस्यैव रजन्यादिकः कालः । विशेषतो ग्रीष्मो वा इति कालापेक्षः । सएवैकेन्द्रियादिक प्राप्यपृथिव्यादि वनस्पतीनां विशेषतो निद्रोदय इति भवापेक्षः। स एवचित्तस्वास्थ्यादि भावमापेक्ष्य भवन् भावापेक्षः । इत्येवं द्रव्यादयः परस्परं सव्यपेक्षाः सन्तः कर्मणामुदयक्षयक्षयोपशमोपशमरूपं क्वचित्कदाचिदवस्थाविशेष जनयन्तीति क्षयोपशमजोप्यवधिदेवनारकयोर्भवप्रत्ययो भवति । अवश्यं तस्यतभावान् तिर्यग् मनुष्याणां नवे सत्यप्यसौ क्षयोपशमजएव क्वचित् कदाचिदेव भावात् । इति प्रकृति अप्रयोगि । अन्यच्च तृणाद्याहारस्तज्जप्रभूत भारोद्वहनसामर्थ्य च तिरश्चां भवप्रत्ययं भवति नारकाणां तादृशमारणान्तिकवेदनादिसामर्थ्य भवप्रत्ययं भवति । एवं वीर्यान्तरायकर्मक्षयोपशमान् केचिन्महासामोपेता मनुष्या अपि दृश्यन्ते । केचित्प्रबलवीर्यान्तरायोदया तृणकुब्जीकरणेप्यसमर्थों इत्येवं सर्वत्रद्रव्याद्यपेक्षया उदयादयः प्रवर्तन्ते। इति गाथार्थः । अवधानमवधिरिन्द्रियाचनपेक्षमात्मनः साक्षादर्थग्रहणं । अवधिरेव ज्ञानमवधिज्ञानं । अथवा अवधिःमर्यादा तेनावधिना रूपि द्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानं । तद्भवप्रत्ययं नारकदेवानां गुणप्रत्ययं मनुष्यतिरश्चां । तद् द्विविधं सत्षोढा । आनुगामुकादिभेदात् । आ अभिविधिना अनुगमनशीलमानुगामुकम् । यत्र उत्पन्नं तत्र देशान्तरगतमपि ज्ञानिनं यदनुगच्छति । लोचनवत्तदानुगामुकं । यत्र क्षेत्रे उत्पन्नं तत्रस्थ एव पश्यति नान्यत्र गत इति यत्तदेश स्थितस्यैव भवति स्थानस्थदीपवत्तत्तदेशनिबन्धनक्षयोपशमजत्वाद्देशान्तरगतस्य तुभ्रंशादिनानानुगामुकं २ वर्द्धमानकं यदंगुलासङ्येयभागादिविषयमुत्पद्य पुनर्वृद्धिविषयविषयविस्तरिणानिकांयाति । यावदलोके लोके लोकप्रमाणान्यसङ्ख्येयानि खण्डादीनि ३ हीयमानक यजघन्येनांगुलसङ्ख्येयभागविषयमुत्कर्षेण सर्वलोकविषयमुत्पद्य पुनः संक्लेशवशात् क्रमेण हानि विषयसङ्कोचात्मिकां याति यावदंगुलासंख्येयभागस्ततोपि प्रतिपतति ४ येनत्वलोकस्य प्रदेशोपि दृष्टस्तस्य न हीयते ॥ प्रतिपाति कियन्तमपि कालं स्थित्वा ततो ध्वंसनस्वभावं यदित्यर्थः ५ ॥ अप्रतिपाति आमरणान्तभावि यदित्यर्थः । ६ अत्र चाप्रतिपातिज्ञानमनुगाम्येव भवति । आनुगामुकं त्वप्रतिपाति प्रतिपाति च भवतीत्युभयोविशेषः । तथा प्रतिपाति प्रतिपतत्येव । पतितमपि च देशान्तरगतस्य कदाचिज्जायते । नचेत्थमनानुगामुकं । यत इदं यत्र देशे तिष्ठतः . समु. त्पन्नं तत्रैव तिष्ठत च्यवते नवा च्युतमपि देशान्तरे पुनरुत्पत्तिप्रदेशे समायातस्य भवतीति प्रतिपात्यनानुगामुकयोभैदः । तच्चफटकावधित्वादिति । अपवरकादिजालकान्तरस्थप्रदीपप्रभा निर्गमस्थानानीवावधिज्ञानावरणक्षयोपशमजन्यान्यवधिज्ञाननिर्गमस्थानानीह फट्टकान्युच्यन्ते । तानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org