Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नंदीसूत्र-टीकायाः मात्मनश्च तद्ग्राह्यार्थस्य एकान्तेन परोक्षत्वादिति भावः । यत्पुनरित्यादि । लिङ्गमन्तरेणैव यदिन्दिय मनसां वस्तुसाक्षात्कारित्वेन ज्ञानमुपजायते । तत्तेषां प्रत्यक्षत्वाल्लोकव्यवहारमात्रापेक्षया प्रत्यक्षमुध्यते । अलिङ्गत्वादवध्यादिवत् । न त्वात्मनस्तत् प्रत्यक्षमिति शेषः इन्द्रियमनोभवं ज्ञानमात्मनः परोक्षमेवापरनिमित्तत्वात् धूमादग्निज्ञानवत् । यद्येवं यल्लिङ्गमन्तरेणैव साक्षादिन्द्रियमनोनिमित्तं ज्ञानमुत्पद्यते तत्परमार्थतः प्रत्यक्षमस्तु किं तदपि परोक्षत्वेनेष्यते नैवमित्याह । इन्द्रियाणामपीत्यादि । इन्द्रियमनांसि ज्ञानजनकत्वेनात्मनो व्याप्रियन्ते । इति ज्ञाननिमित्तत्वेन साक्षाव्याप्रियमाणत्वादुपचारतोऽक्षमिन्द्रियं प्रतिवर्त्तते । इतीन्द्रियप्रत्यक्षमुच्यते । न तत्त्वतः यतो यदिन्द्रियमनोनिमित्तं ज्ञानमुत्पद्यते तदप्यात्मनो, नन्विन्द्रियाणां तेषामचेतनत्वात् । एतेन ये वैशेषिकादयोऽक्षमिन्द्रियं प्रतिगतं प्रत्यक्षमितीन्द्रियाणां साक्षाद् घटाद्यर्थोपलब्धेर्घटादिज्ञानं प्रत्यक्षमिच्छन्ति तत्र युज्यत इत्यावेदितं इन्द्रियाणामचेतनत्वेन ज्ञानायोगात् । तथाहि-यदि चेतनं तन्न जानाति । यथा घटादि, अचेतनानि चेन्द्रियाणि कुतस्तेषामुपलब्धिप्रत्यक्ष भवेत् । एवं मूर्तिमत्वात् स्पर्शादिमत्त्वाच्च न जानन्ति । न च वाच्यमिन्द्रियाणि न जानन्ति इति प्रत्यक्ष विरोधिनीप्रतिज्ञा तेषां साक्षात्कारेणार्थोपलब्धेरनुभवप्रत्यक्षेण प्रतिप्राणिप्रप्तिद्धत्वाद्यतश्चक्षुरादीन्द्रिये करणतया व्याप्रियमाणे वस्तूनामुपलब्धा आत्मैव नत्विन्द्रियं चक्षुरादीन्द्रियोपरमेपि तदुपलब्धा अर्थानुस्मर्तृत्वात् । इह यो येषूपरतेध्वपि तदुपलब्धानर्थाननुस्मरति स तत्रोपलब्धा । दृष्टो यथागृहगवाक्षोपलब्धानामर्थानां तद्विगमेप्य
र्थानुस्म" देवदत्तादिः। अनुस्मरति चेन्द्रियविगमेपि तदुपलब्धमर्थमात्मा । तस्मात् स एवोपछब्धा यदि पुनरिन्द्रियाण्युपलम्भकानि स्युस्तदातद्विगमे कस्यानुस्मरणं स्यान्नह्यन्येनोपलब्धेर्थेऽन्यस्य स्मरणं युक्तमस्तिवानुस्मरणं । तस्मान्ननु जानन्ति इन्द्रियाणि ततश्चेन्द्रियमनोनिमित्तमात्मनो ज्ञानं परनिमित्तत्वात्परोक्षमिति श्रुतान्तर्भावाच्चानुमानवत्परोक्षं तत्त्वतः । संव्यवहारतस्तु प्रत्यक्षत एवाह अत्र च बहुवक्तव्यमित्यादि । मनोनिमित्तस्यापिज्ञानस्य परनिमित्तत्वाद् अनुमानवत्परोक्षत्वं ज्ञेयं । न च वक्तव्यमागमेऽस्यतत्-परोक्षत्वं न कचिद्विशेषतोऽभिहितं यतो मतिश्रुतयोरागमे परोक्षत्वस्य विशेषतो भणनात् मनोनिमित्तस्यापि च ज्ञानस्य तदन्तःपातित्वादिन्द्रियजज्ञानस्येव परोक्षत्वं सिद्धमेवाह । अत एवाह । इह मनोज्ञा नमपीत्यादियोगक्षेमौ आक्षेपपरिहारौ तुल्यावस्येन्द्रियज्ञानेन सहेति । कायन्ति शब्दयन्ति योग्यतया तद्धेतुकर्मोपादानत इत्यर्थः ।
उदयगाहा ॥ व्याख्या उदयः क्षयः क्षयोपशम उपशम इत्येते चत्वारः कर्मणोऽवस्थाविशेषा यद्यस्माद्भणिताः एते प्रवर्त्तन्ते इत्यर्थः । कथमित्याह ॥ द्रव्यं क्षेत्रं कालं भवं च भावं च सम्प्राप्येति । द्रव्याद्यपेक्षाः सन्तः स्युर्नयतस्तत इत्यर्थः । तत्र पीतमदिरस्य भक्षितद्वपु(धत्त)रकस्य वा ज्ञानान्यथात्वं द्रव्याद्भवतीति प्रवीतमण्डूक बाही कंगुणीतैलादिपानादिना क्वचित्कदाचिदज्ञान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112