Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 27
________________ itter- टीकायाः त्यमतिश्रुतयोरुपन्यासः । नवरमाभिनिवोधिकं ह्यौत्पत्तिक्यादिमति प्रधानत्वान्मतिरप्युच्यते । कालोद्विधा नानाजीवापेक्षया एकजीवापेक्षया च । स चायं द्विविधोप्यनयोस्तुल्य एव । नानाजीवापेक्षया द्वयोरपि सर्वकालमनुच्छेदात् । एकजीवापेक्षया तूभयोरपि निरन्तरः सातिरेक सागरीपमषट्षष्टिस्थिति कृत्वेनात्रैवाभिधास्यमानत्वात् । कारणमपीन्द्रियमनोलक्षणं स्वावरणक्षयोपशमस्वरूपं च द्वयोरपि समानं उभयस्यापि सत्वगयं सम्मत्तमित्यादि सर्वद्रव्यादिविषयत्वाद्विषय तुल्यता | 'तत्रादेशत' इति । आदेशः प्रकारः स च सामान्यतो विशेषतश्च । सामान्यतो द्रव्यजातिं जानीते । विशेषतो धर्मास्तिकायादेरेव देशादिविभागं जानीते । इन्द्रियादिपरनिमित्तत्वादुभयोः परोक्षत्वे समता । ननु यद्यनयोः परस्परमेव तुल्यता तर्ह्येकद्वयोरप्युपन्यासोऽस्तु । आदावेव तु तदुपन्यासः कथमित्युच्यते । मति श्रुत [योः ]न सद्भावे एव शेषावध्यादिज्ञानलाभादादौ तदुपन्यासः । न हि स क प्राणी भूतपूर्वोस्ति भविष्यति वा यो मतिश्रुतज्ञाने अनासाद्य प्रथममेवावध्यादीनिशेषज्ञानानि प्राप्तवान् प्राप्नोति प्राप्स्यति चेति भावः । तदुक्तं ॥ जं सामिकाल कारण विसय परोक्खत्तणेहिं तुल्लाई । तव्वाविसेसाणि य तेणाईए मइ सुयाई ॥ भवतु तर्ह्रादौ मि श्रुतोपादानं । केवलं पूर्व मतिः पश्चात्तु श्रतमित्यत्र किं कारणं ? उच्यते मतिपूर्वकत्वादित्यादि ॥ ‘मइ पूर्वं’ गाहा ॥ व्याख्या ॥ मतिः पूर्वं प्रथममस्येति मतिपूर्वं । येन कारणेन श्रुतज्ञानं तेन श्रतस्यादौ तोर्थ करगणचरैर्मतिरुकेतिशेषः । न ह्यवप्रहादिरूपे मतिज्ञाने पूर्वमप्रवृत्ते क्वाप्यभिलाप प्लावितार्थग्रहणरूपश्रुतप्रवृत्तिरस्तीति भावः । विसिद्धो वा मइभेओचेव सुयंति य दिवा । इन्द्रियानिन्द्रियनिमित्तद्वारेणोपजायमानं सर्वं मतिज्ञानमेव । केवलं परोपदेशादागमवचनाच्च विशिष्टः कश्चिन्मतिभेद एव श्रुतं नान्यत् । यतश्च विशिष्टमत्यंश एव श्रुतं । ततो. मूलभूताया मतेरादौ विन्यासः । तदुद्भेदरूपं तु श्रुतं मतिसमनंतरं भणितमति गाथार्थः । मतिश्रुतानन्तरमवधेरूपन्यासः कालादिचतुष्टमसाधर्म्यात् । नानाजीवापेक्षया एकजीवापेक्षया चमतिश्रुताभ्यां सहावधिः समानस्थितिकालत्वात्कालसाधर्म्य I प्रवाहापेक्षयेति । सर्वजीवानाश्रित्य सर्वाधां । एकजीवापेक्षया सागर ६ ६ साधिकानि स्थितिकालः । यथा च मिथ्यात्वोदये मति श्रुतज्ञाने अज्ञानरूपं[पे]विपर्ययं [ ये] प्रतिपद्यते तथाऽवधिरपीति विपर्ययसाधर्म्यं य एव मतिश्रुतयोः स्वामी स एवाधेरपीति स्वामि[सा] धर्म्य लाभोपि कदाचित्कस्यचिदमीषां त्रयाणामपि ज्ञानानां युगपदेव भवतीति लाभसाधर्म्य, अवध्ययनन्तरं मनः पर्यायस्योपन्यासः च्छद्मस्थादिकारणचतुष्टयात् । तत्र विषयसाधम्य उभयोरपि पुद्गलमात्रविषयतासाधर्म्यं यद्यपि सामान्येन तथाप्यस्य मनो वर्गणा विशेषतो विषयः । सर्वज्ञानानामुपरि केवलस्योपन्यासः । तस्योत्तमत्वात् । सर्वोत्तमं हि केवलज्ञानं । अतीतानागतवत्तमाननिःशेषज्ञेयस्वरूपाव [भा ] सत्वात् । सर्वज्ञानानां लाभेऽवसान एवास्य लाभाद्वान्ते निर्देश: विपर्ययाभावश्च साधर्म्यं । १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112