Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 25
________________ नंदीसूत्रज्ञानस्येतिभावः । अत एवाह । 'स्वविषयेति । स्वविषययोरात्मबाह्यार्थयोः संवेदनं रूपं यस्येति विग्रहः । कुवडू इव इत् अनुबन्धो यस्येति विग्रहः । कानुबन्धे डानुबन्धे चेत्यर्थः । अजादिगणश्च भव्व अजाव्वत् । तस्मात् अजादीनां तदन्याकारान्तानां च ‘टापिति स्त्रियामाप्रवर्त्तते ॥ कुव्याख्येति । विध इत्यकासन्तोऽयमिति केचिदाहुः । तदस्य न समतमिति रूपसिद्धिर्दर्शिता ॥ 'अत्थं' गाहा ॥ इहोपचारादर्थप्रत्यायनहेतुत्वाच्छब्द एव खल्वर्थोत्र । ततः शब्दमेवार्थप्रत्यायकमर्हन् भाषते । न तु साक्षादच, तस्याशब्दरूपत्वेनाभिलपितुमशक्यत्वात् । गणभृतो पि च शब्दात्मकमेव श्रुतं प्रथ्नन्ति निपुणाः सूक्ष्म बहुर्थ वा । तद्यु भयोः कः प्रतिविशेष इति चेदुच्यते । स हि भगवान् विशिष्टमतिसम्पन्न गणधरापेक्षया प्रभूतार्थमर्थमात्रं स्वल्पमेवाभिधत्ते बीजमात्रतया । नवितरजनसाधारणं ग्रन्थराशिमिति । प्रभूतार्थस्य तीर्थ करभाषितस्य मगधरै विस्तीर्णतया सूत्रकरणमिति विशेषः इति गाथार्थः । 'तत्रतिज्ञानपञ्चकमध्ये आभिनिबोधिकज्ञानमित्यस्यायमर्थः । अभिमुखो योग्यदेशावस्थितार्थापेक्षी अर्थाभिमुखो अर्थबलायातत्वेन तत्रान्तरीयकोद्भव इत्यर्थः । नियतः स्वस्वविषयापेक्षी तेन श्रोत्रचक्षुरसनाघ्राणस्पर्शनानामिन्द्रियाणां शब्दरूपरसगन्धस्पर्शाः स्वविषया ग्राह्यतया नियताः नत्वितरस्य विषयमितरद्गृह्णाति यो बोधो सोभिनिबोधः । अभिनिबोध एवाभिनिबोधिक विनयादिपाठात् स्वार्थे इकण । यथो विनय एव वैनयिकमिति । यद्वा नात्र स्वार्थिकप्रत्यय एवं किन्तु........यथा घटमानमन्यथा व्युत्पाद्यं । 'अभिनिबुध्यते तदि'त्यादि ॥ ननु कर्तारमन्तरेणकर्म न भवत्यभिनिबुध्यते तदित्यत्र तु मतिज्ञानं कर्मास्ति न तु कर्ता तत्कथमिदं घटत इत्याह । तस्य स्वसंविदितरूपत्वादिति । स्वयमेव ज्ञानं नीलादिग्राहकत्वेनात्मानं व्यवच्छिनत्ति । न बाह्यो ज्ञानपरिच्छेदकः कर्ताऽन्वेषणीय इति भावः । नन्वोदनं पचति देवदत्त इत्यादिषु भेदेनैव कर्मकर्तृव्यवहारो दृष्टो नतु तदेव ज्ञानं परिच्छेदक, तदेव च परिच्छेयमिति भेदाभावात् कथं तद्व्यवहार इत्याशङ्क्याह । 'भेदोपचारादिति तद्धि प्रदीपवत्प्रकाशस्वभावमेवोत्पद्यत इत्यसन्नपि कर्तृकर्मभावेन भेद उपचर्यत इति भावः । यथा ज्ञानं कर्तृ वं रूपमभिनिबुध्यते इत्येकस्यैव कर्तृत्वं स्यात्तदेवमाभिनिबोधिकशब्दवाच्य ज्ञानमुक्तं । अथवा ज्ञानं क्षयोपशम आत्मा वा तदाच्य इति दर्शयति । करणादिसाधनतया । अभिनिबुध्यते घटादिवस्तु आत्माऽनेन प्रस्तुतज्ञानेन तदावरणक्षयोपशमेन वाऽभिनिबोधः । स एवाभिनिबोधिकं ॥ अभिनिबुध्यतेऽस्मात् प्रकृतज्ञानात् क्षयोपशमाद्वा । अभिनिबुध्यते अवगच्छति वस्वात्माऽस्मिन्नधिकृतज्ञाने क्षयोपशमे वा सत्याभिनिबोधिकं, यद्वाऽभिनिबुध्यते वस्ववगच्छति। आत्मैवाभिनिबोधः स एवाभिनिबोधिकं नत्वात्मक्षयोपशमयोराभिनिबोधिकशब्दवाच्यत्वे ज्ञानेन सह कथं समानाधिकरण्यं स्यायेन कर्मधारयो युज्यते । सत्यं, किन्तु ज्ञानस्यात्माश्रयत्वात् । क्षयोपशमस्य च ज्ञानकाण]त्वादुपचारतोऽत्रापि पक्षे आभिनिबोधिकशब्दो ज्ञाने वर्तते । ततश्चाभिनिबोधिकं च तत् ज्ञानं चेति कर्मधारयोऽदुष्टः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112