Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
are
पावाल्या
श्रयतेऽसाविति श्रुत शब्दः । नन्वमिलापप्लावितार्थग्रहणप्रत्ययो लब्धिविशेषः श्रुतं तदेव च ज्ञानं । तत्कथं शब्दः श्रुतं स्यादित्याह || 'भावश्रुते'त्यादि । श्रुतज्ञानकारणं शब्दोपि श्रुतमुच्यते। यद्वा शृणोतीति श्रुतमात्मैवोच्यते । ज्ञानज्ञानिनोः कथश्चिदव्यतिरेकात् श्रुतोपयोगपरिणामयुक्तः श्रुतं भवति तदन्यस्यापि शब्दस्य श्रुतका[ण]त्वात् क्षयोपशमस्य च ज्ञानहेतुत्वादात्मनश्चकथंचित्तदव्यतिरेकादुपचारतः श्रुतं च तत् ज्ञानं चेति समासो युध्यते ॥
अवशब्दोऽधः शब्दार्थः । मर्यादार्थश्च । अवधीयतेऽधोधोविस्तृतं परिच्छिद्यते रूपि वस्त्वनेनेत्यवधिः । अवधीयतेऽस्मात् ज्ञानाज्जीवेन साक्षाद्वस्त्वित्यवधिः, अवधीयते जीवेनास्मिन् सति वस्त्वित्य वधिः । अवधानं वाऽवधिः । साक्षादर्थ परिच्छेदनं पर्ययः न सर्वतः परिच्छेदनं पर्ययः । क्व पुनरसावित्याह । मनसौत्यादि । मनसि ग्राह्ये मनसो वा ग्राह्यस्य सम्बन्धी पर्ययो मनःपर्ययः - वा मनःपर्याय ज्ञानमित्युच्यते । तत्रेण गतौ । अयनं-आयो-लाभः प्राप्तिरिति पर्यायाः, परिसमन्तादायः पर्यायः । मनसः पर्यायास्तेषु ज्ञानं । यहा संज्ञिभिजींवैः काययोगेन गृहीतानि मनःप्रायोग्यवर्गणापुद्गलद्रव्याणि चिन्तनीयवस्तुचिन्तनव्यापृतेन मनोयोगेन मनस्त्वेन. परिणमय्यालब्ध(मन्व) मानानि मनांसोत्युच्यन्ते । ततश्चजीववस्तुने व्यापारितानि मनांसि पर्येति परिच्छिनत्ति मनःपर्याय कर्मण्यण तस्य कथञ्चित् कर्तुरनन्यत्वात् कर्तृत्वविवक्षा । कर्ता च । आ यथोक्तानि मनांसि पर्यत्यनेनेति मनःपर्याय । 'अकर्तरि चे'त्यादिना घञ् तत्पुनस्तदावरणक्षयोपशमजो लब्धिविशेषः । तदुपयोगो विषयग्रहणात्मकः । यद्वाऽयनं गमनं वेदनमित्येवं परिसमन्तादवन पर्यवः । मनसि सनसो वा पर्यवा मनःपर्यवास्तेषां तेषु वा इदमित्थंभूतमनेन चिन्तितमित्येवं रूपं ज्ञानं मनःपर्यवज्ञानं मनःपर्यायज्ञानमिति चेति । 'इदं चेत्यादि । अर्द्ध तृतीयं येषां तेऽर्द्धतृतीया द्वीपास्ते च समुदो चार्द्धतृतीयद्वीपसमुद्रास्तेषामन्तमध्यं तत्तथा । तत्र वर्तन्ते ये तेऽद्धतृतीयद्वीपसमुदान्तर्वत्तिनस्ते च ते संज्ञि[न]श्च तेषां मनोगतानि मनस्त्वेन परिणमय्य मुक्तानि यानि द्रव्याणि तैरेव तान्यालम्बते । आश्रय[तीत्यर्थः । परिच्छेदकतया यत् ज्ञानं तदालम्बनं ॥
'केवल मित्यादि । केवलमेगं सुद्धं सकलमसाधारणं अनन्तं चेति वचनात् । केवलशब्द एकाद्यर्थपंचकवृत्तिरिति । क्रमेण व्याचष्टे । तत्र केवलमिति कोऽर्थः । असहायं इन्द्रियादिसाहाय्यानपेक्षित्वादेकामत्यर्थः , तद्भावे शेषच्छानस्थिकज्ञाननिवृत्तेर्वाऽसहाय । अत एवाह । मत्यादिज्ञाननिरपेक्षं । केवलं शुद्ध निर्मलमित्यर्थः । सकलावरणमलकलङ्कविगमसम्भूतत्वात् । सकलं केवलं परिपूर्णमित्यर्थः । सम्पूर्णद्रव्या. दिशेयसाहित्वात् । तत्प्रथमतयैवेति । यो येन भावेन पूर्व नासोदिदानी च जातः स तेन भावेन तत्प्रथम उच्यते। तेन प्रथमः । साचासौ प्रथमतावेतिचेति विग्रहः, असाधारण तादृशापरज्ञानाभावात् । अनन्यसदृशं । अनन्तं अप्रतिपतित्वेनाविद्यमानपर्यन्तं ज्ञेयानंतत्वाद्वा । अनन्तं केवलमुच्यते । 'माहेत्यादि । एतेषु मध्ये आदौ मतिश्रुतोपन्यासः किमर्थः ? उच्यते, स्वाम्यादिकारणषट्क प्रती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112