Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदव्याया
अस्तु ते केवलाद्युत्पतौ ज्ञानात्मना सर्वार्थान् व्याप्नोतीति तत्पुण्यादिनिपातनादक्षो लीवः । यद्वाऽश्नाति समस्तत्रिभुवनान्तर्वर्तिनो देवलोक समृद्धयादीनर्थान् पालयति भुङ्क्ते चेति निपातनादक्षो जीव अश्नातेर्भेजनार्थत्वात् । भुजेश्चपालनाभ्यवहारार्थत्वादिति भावः । तमक्षं जीवं प्रति साक्षागतमिन्द्रियनिरपेक्षं वर्त्तते यत् ज्ञानं तत्प्रत्यक्षं अत एवोक्तं अपरनिमित्तमिति । न परमिन्द्रियादिनिमित्तं । यस्योत्पत्तौ अक्षं जीवं विमुच्य तदपरनिमित्तमतोऽतीन्द्रियमेतत् । अवध्यादित्रयस्यैव साक्षादर्थपरिच्छेदकत्वेन जीवं प्रति साक्षाद्वर्त्तमानत्वात्प्रत्यक्षव्यपदेशः विचित्रतां चास्येति । अवध्यादिप्रत्यक्षस्य परेभ्योऽक्षस्य जीवस्य यज्ज्ञानमुत्पाद्यतसत्परोक्षं । यस्माद्द्रव्येन्द्रियाणि द्रव्यमनश्चाक्षस्य जीवस्य पराणि वर्त्तन्ते भिन्नानीत्यर्थः । कुतः परत्वं द्रव्येन्द्रियमनसोः पुद्गलमयत्वादिति । इदमुक्तं भवति । अपौद्गलिकत्वादमूत्तों जीवः पौद्गलिकत्वान्मूर्त्तानि द्रव्येन्द्रियमनांसि । अमूर्ताच्च मूर्तं पृथग्भूतं । ततस्तेभ्यः पौद्गलिकेन्द्रियमनोभ्यो यन्मतिश्रुतलक्षणं ज्ञानमुपजायते । तद्भूमादेरग्न्यादिज्ञानवत् परनिमित्तत्त्वा.... ध्यते । यद्वा परैरिन्द्रियादिभिरुक्षा सम्बन्धं-लिङ्गानुमेये ग्राह्यग्राहकलक्षणं अस्य ज्ञानस्य तत्परोक्षं । द्रव्येन्द्रियमित्यादि ।
अन्तो वहिनिव्वत्ती रवत्तिसरुवगंच उवगरणं । दव्बि लद्भुवओ गेहिं नायव्वं । कर्णपर्पटिकादि वाह्यसंस्थानं बहिर्निवृत्तिः । कदम्बपुष्पगोलकाद्या कृतिश्चान्तर्निवृत्तिस्तच्छक्तिविशेषश्वोपकरणं यथा खड्गोखड्गः तद्धारा तच्छेदनशक्तिश्चेति त्रयं व्याप्रियते । एवं द्रव्येन्द्रियगोचरं निर्वृतिद्वयं तच्छक्तिश्चेति त्रितयं ज्ञानं प्रति व्याप्रियते नोइन्द्रियप्रत्यक्षमिति । यत्रेन्द्रियं । सर्वथैव
प्रवर्तते किंतु जीव एव साक्षादर्थं पश्यति तन्नोइन्द्रियप्रत्यक्षमवध्यादि । उपचारतः प्रत्यक्षमिति । इहेन्द्रियं श्रोत्रादि तदेव निमित्तं सहकारिकारणं । यस्योत्पित्सोस्तदालिङ्गिकं । : शब्दरूप - रसगन्धस्पर्शविषयज्ञानमिन्द्रियं प्रत्यक्षं इदं चेन्द्रियलक्षणं जीवात्परं व्यतिरिक्तं निमित्तमाश्रित्य - स्पयते । इति धूमादग्निज्ञानमिव वस्तुतोर्थसाक्षात्कारित्वाभावात् परोक्षमेव । केवलं लोकेस्य प्रत्यक्षतया रूढत्वात्संव्यवहारतोऽत्रापि प्रत्यक्षत्वमुच्यते । न परमार्थतोऽवध्यादिकमेव प्रत्यक्षं । इन्द्रियाद्यनपेक्षत्वात् । कथं ज्ञायत इत्यादि मुख्यतोपीन्द्रियप्रत्यक्षं किमिति न स्यादिति वितर्कार्थः ।
चेत्यादि ति विमुच्येन्द्रियज्ञानमपरं न किश्चिदस्ति । यत्प्रगुणन्यायेन मुख्यतः प्रत्यक्ष भवेत् । इन्द्रियजज्ञानस्य मंतिश्रुताभ्यां पार्थक्ये षष्ठज्ञानप्रसङ्गस्तस्मादिन्द्रियजज्ञानस्य न मतिश्रुतयो रेवान्तर्भावः । मतिश्रते च परोक्षे अभिहिते । तत्परोक्षत्वे इन्द्रियज्ञानस्यापि परोक्षत्वमेव पारमाकिम् । आहेत्यादि । धूमादग्निज्ञानवत् नत्वक्षजमिति भावः । इह यदित्यादि । हन्त इहापीन्द्रियमनोभिर्गृहीते बाह्ये धूमादौ लिङ्गेग्न्यादिविषयं यत्ज्ञानमुत्पद्यते । तदेकान्तेन परोक्षं । इन्द्रियमनसा
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0f5d8b81afee8a1957e6618370f028e48fde0f327c3c6ecec2e44cd14f23ef70.jpg)
Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112