Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदव्याख्या मर्थ वा दत्वा सूरे ! मा निहोषि त्वमित्थमुक्त आचार्यः किमप्यन्तायन् पुनरप्युक्तः शिष्याभासेन । किं बलीवत्पातित इव चिन्तयसि । भव्यमत्या उपयुज्य उपयुक्तो भूत्वा देहि सूत्रार्थी, व्यत्यानेडितदाने वितथसूत्रार्थप्रदाने केवलं त्वं अहं च क्लेशमनुभवावः । तदिन्थं स्वदोषाप्रतिपत्तौ गुरुदोषोद्भावनेनाभीरमिथुनस्येव गुरुशिष्यकलह एव प्रवर्तते । तथा च सति व्याख्याव्यवच्छित्तिसूत्रार्थहान्यादयो दोषाः । अत्र प्रतिपक्षः स्वयमेव द्रष्टव्यः । तथान्योप्या. भीरः किल सकलत्रस्तत्रैव क्वापि नगरे घृतविक्रयार्थ गतः कलत्रस्य च वारके समर्पिते भग्नेचाहो ! मयाऽनुपयुक्तेन समर्पितोऽयमिति ब्रुवाणो द्रगिति गन्त्र्याः समुत्तीय कपरकैघृतं संवृणोति । भार्यापि धिग्मयाऽनुपयुक्तया दुःपरिगृहीतः कृतोऽसौ तेन भग्न इति वदंती तथैव तत्संवृणोति । ततश्चान्योन्यकलहेऽजाते उभयसंवित्त्या घृतंशीघ्रमेव विक्रीतं सार्थिकैश्च सह क्षेमेण स्वस्थानं जग्मतुः । एवं गुरुशिष्या अपि स्वदोषं प्रतिपद्यमानाः परदोषं तु निहनुवाना येऽन्योन्यं न विवदन्ते त एवसूत्रार्थप्रदानग्रहणयोोग्या भवन्ति निर्जरादिलाभभागिनश्चेति । - तदेवं योग्यान् गुरुन् शिष्यांश्चोपदोपसंहारपूर्वकं तत्फलमाह ||
भणिया जोग्गा जोग्गा सीसा गुरवो य तत्थ दोण्हपि ।
पेयालिय गुणदोसो जोग्गो जोग्गस्स भासेज्जा ॥ भणिता योग्याः, सूत्रार्थी भाषेतेति ॥
अज्जिका। परिज्ञानरहिता । 'पगईमुढे'त्यादि ॥गाथा॥ अज्जिका प्रकृत्या मुग्धा भवति कुतः प्रकृत्या मुग्धा भवति ! 'मियछावए'त्ति ॥ च्छावगशब्दः सर्वत्र सम्बध्यते । ततो मृगसिंह कुक्कुटशावं लघुमृगाद्यपत्यं तदभूता अत्यन्तऋजुत्वसाम्यात्तत्सदृशा येत्यर्थः । सहजरत्नमिवाऽसंस्कृता सुखसंज्ञाप्या सुखप्रज्ञापनीया, गुणे-गुरुबहुमानादिभिः समृद्धा । अन्यच्च । 'जा खलु अभाविय] कुस्सुईहिं । न य सस[म]ए ठिया कुस्सुईहिं । न य ससमएगहियसारा । अकिले. लेसकरा । सो खलु वरं छक्कोडिसुद्धं च' । षट्कोणविशुद्धं वज्रमिव हीरक इव विशुद्धा या खलु ज्ञायकपर्षदिति वाक्यशेषः । पल्लवग्राहित्वादेव च महतेऽनर्थाय । संपूर्णश्रुताभावात् । तदुक्तं । 'पल्लवग्राहि पाण्डित्यं क्रयक्रीतं च मेथुनं ।
भोजनं च पराधीनं तिस्रः पुसां विडम्बना ॥
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापित]नरं न रंजयति । अत्राथपर्षद्वययोग्यं तृतीयात्वयोग्येति ॥
- 'नाणमित्यादि ॥ सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधो ज्ञानं-संविदुच्यते ॥ करणापादानाधिकरणकर्तृसाधनोपि ज्ञानशब्दो व्युत्पाथः । नवरं कर्तृपक्षे ज्ञानज्ञानिनोः कथञ्चिदव्यतिरेकापादानाधिकरणकर्तृसाधनोपि ज्ञानशब्दो व्युत्पाद्यः । नवरं कर्तृपक्षे ज्ञानज्ञानिनोः कथश्चिदव्यतिरेकादात्मैव ज्ञानं जानाति स्वं रूपं बाह्यभावांश्चेतिज्ञानं । प्रदीपवत्स्वपरावभासिस्वात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112