Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दीन-टीकायाः
वारणासो भवद्भिर्दोग्धव्येति । अन्येभ्योपि च चतुर्थश्चरणद्विजेभ्यो गौरिका तेन प्रदता । तेपि चतम तथैवोक्ताः । तत्र च प्रथमद्विजानां मध्ये ज्येष्ठब्राह्मणेनैकेन गौः स्वगृहें नीत्वा दुग्धा, ततश्चारीप्रदानवेलायां चिन्तितं तेन किमित्याह ।
अन्नो दोfat कल्लं निरत्ययं किं वहामि से चारी । चउ चरण गवीओ मया अवण्णहाणी य वदुयाणं ॥
तेनैतच्चिन्तितं हन्त चारकः प्राप्तोऽन्यो ब्राह्मणः कल्ये तावदेनां धेनुं धोक्ष्यति । निरर्थकामस्या चारों वहामि । कल्येऽन्येोपि हि तां दास्यतीति विनिश्चित्य न तस्याश्चारी 'प्रदत्ता । ततो द्वितीये दिने द्वितीयेनापि धिग्जातीयेन तथैव कृतं एवं तृतीयदिने तृतीयेनापि चतुर्थ दिने यतुर्थेनापि तथैव चेष्टितमित्थं च चारी विरहिता दुह्यमाना कतिपय दिनमध्ये चतुष्णा चरणानां सम्बन्धिनी सा गौर्मृता ॥ ततश्च तेषां बहूनां गोहत्या समभवज्जने चावर्णवादो जातो हानिश्च तेषां ततो यजमानादन्यस्माद्वा पुनर्गवादि लाभाभावादिति । अन्यैस्तुयैश्चतुर्भिश्चरणैगैर्लब्धा तन्मध्ये प्रथमद्विजस्तां पुष्यं चारीप्रदानवेलायामचिन्तयत् । किमित्याह ।
मा मे होज्ज अवष्णों गोवज्झा वा पुणोवि न दलेज्जा । वयमवि दोज्झामो पुण्णो अणुग्गहो अण्णदुवेवि ॥
माभूज्जनमध्ये मेऽवर्गवादो गोहत्या वा माभूदितोऽस्या चारों प्रयच्छामि । यदि तु न दास्यामि तदा सञ्जातकलङ्केम्योऽस्मभ्यं पुनर्गवादिकं किमपि कोपि न दास्यत्यपरं न चैतस्यै चारीप्रदाने को [sपि ] दोषः प्रत्युत गुण एव यतश्चारीप्रदानपुष्टामेतां पुनरपि वारकेणागतां वयमेव धामो यदि वाऽन्येनापि ब्राह्मणेन दुग्धायामे तस्यामस्माकमेवानुग्रड् इति ।
orataयमाह ।
Jain Education International
सीसो पच्छिगाणं भरोत्ति तेवि य ह सीसग भरोति । न करेति सुत्तहाणी अण्णत्थ वि दुल्लहं तेसिं ॥
गुरोर्विनयकर्म्मणि कर्तव्ये स्वगच्छदीक्षिताः शिष्याश्चिन्तयन्ति । किमित्याह । प्रती कानामुपसम्पन्नानामागन्तुक शिष्याणामयं गुरोर्विनयकरणलक्षणो भर आभार ः किमस्माकं तेषामेव साम्प्रतं बल्लभत्वादिति ॥ तेऽपि प्रतीच्छका एवं संप्रधारयन्ति निजशिष्याणामेवायं मरः किमस्माकमागन्तुकानामद्य समागतानामन्ये बुर्जिगमिषूणामित्येवं प्र उभयेपि गुरोर्न विचिद्विनयवैयावृत्यादिकं कुर्वन्ति । ततश्च गुरुष्ववसीदत्सु तेषां सूत्रार्थहानिरन्यत्रापि च गतानां शेषां दुर्विनीतानां दुर्लभ सूत्रमर्थश्च । उपलक्षणत्वादन्येप्यवर्णवादादयो दोषाः स्वयमेवाऽभ्यूह्याः । अयं च दुर्विनीतशिष्योपनयः कृतः सुविनीतविनेयोपनयस्तूक्तविपर्ययेण स्वयमेव कर्त्तव्य इति ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112