Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521016/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुर्नन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ नन्दनवनकल्पतरु: १६ 8 सङ्कलनम् 8 कीर्तित्रयी उत्तरायणम् विसं. २०३२ Page #2 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरु: १६ शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ ४सङ्कलनम: कीर्तित्रयी उत्तरायणम् विसं. २०१२ Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः ॥ षोडशी शाखा ॥ (संस्कृतभाषामयं अयन - पत्रम् ॥) सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ वि.सं. २०६२, इ.सं. २००६ मूल्यम् : रू. १००/ प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर १२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद 380007 दूरभाष : 26622465 11 सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः ' C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 55312526 मुद्रण : 'क्रिष्ना ग्राफिक्स', नारणपुरा गाम, अमदावाद ।। दूरभाष : 079-27494393 2 Page #4 -------------------------------------------------------------------------- ________________ - प्रास्ताविकम् स्वधर्माचरणं हि सौख्याय हिताय च भारतदेशोऽयमनन्यायाः संस्कृतेदेशोऽस्ति । अतः कतिचन संस्कारास्त्वाबाल्यादेव सिच्यन्तेऽत्र । पर्वणामेष देशोऽस्ति । प्रत्येकं पर्वणा सह काचित कथा घटना वा सङ्कलिताऽस्ति । तदुत्सवप्रकारा अपि वर्णिताः सन्ति । तत्र च केनापि स्वरूपेणाऽध्यात्मं निहितमेवाऽस्ति आसीद्वा । दीपावलि-नवरात्रि-इत्यादीनां केषाञ्चित्पर्वणां विशेषेणोत्सवः क्रियतेऽत्र । किन्तु कियद्विकृतं कृतं तत्स्वरूपमस्माभिरिति दंदश्यते चित्तम् । अद्य त्वध्यात्मस्य स्थानमाधिभौतिकोत्सवप्रकारैर्गृहीतमस्ति ।। पर्वणां केन्द्रवाशय एवाऽद्य परावृत्तो दृश्यते । येषु दिवसेषु दैव्युपासनाऽऽत्मिकोपासना वा क्रियमाणाऽऽसीत् तत्राऽद्य भौतिकवाद एव परिदृश्यते । विलासस्यैव प्राधान्यं सर्वत्र विलसति । संक्षेपेण तु - संस्कृतेः संस्काराणां वा द्योतकानि पर्वाण्यद्य विकृतेः पोषकाण्युत्तेजकानि च जातानि सन्ति । शारीरिकस्य मानसिकस्य च रञ्जनस्यैवाऽद्य महिमा परिलक्ष्यते । अत्यन्तं खेदजनिकेयं स्थितिः । “वयं पाश्चात्यसंस्कृतेश्छायायां जीवामः, पाश्चात्यानां प्रदानमेतद्”इत्यादिकं बहु विचारितमुक्तं चाऽप्यस्माभिः । अथ मूलं गवेषणीयम् । 'हस्ततालिरेकेनैव हस्तेन न शक्या' - इति काचिदुक्तिरस्ति । तदनुसृत्य च पाश्चात्यानामिवाऽस्माकमप्येतत्स्थितिनिर्माणे भागोऽस्त्येव । स्वकीयामशक्तिं सहायतां विना वा नाऽन्यः कोऽपि कञ्चिदपि पातयितुं प्रभवति । सत्यमेतद् यत्तैर्भारतीयसंस्कृतेर्मूलमुच्छेत्तुं प्रयत्नः कृतः । तदर्थं च ‘अस्याः संस्कृतेर्दा स्य मूलमत्रत्यायां शिक्षणपद्धतावस्ति' इति गवेषयित्वा तत्रैव प्रहृतवन्तस्ते । तैर्जनो न गृहीतः किन्त्वत्रत्येषु जनेषु प्रवहतः सत्त्वस्रोतसो मूलं शिक्षणमेव निगृहीतं तत्रैव च परिवर्तनं कृतम् । किन्तु वयमपि कीदृशा निःसत्त्वा यत् सर्वमस्माकमरमत्संरकाराणां सत्त्वस्य च ह्रासं दृष्टिसमक्षं पश्यन्तोऽप्यनुभूय चाऽपि वयं तत्पद्धतेरद्यपर्यन्तं पुरस्कार एव जाताः स्मः । स्वसंस्कृतेस्तदनुरुपं चाऽध्ययने वयं लघुतामनुभवामः । ० किं न लज्जास्पदमेतद् ? स्वकीयायाः संस्कृतेर्गौरवं यस्य हृदये न विलसति न - Page #5 -------------------------------------------------------------------------- ________________ नाम स कदाऽपि कुत्राऽप्युन्नतमस्तकः सन् स्थातुमलं भवति । एतदेव पारतव्यं नाम । कस्या अपि संस्कृतेः कस्याऽपि दर्शनस्याऽध्ययनं भारतीयसंस्कृतौ न | निषिद्धम् । न तादृशी तुच्छा हीना वैषा संस्कृतिः । केवलं स्वकीयं स्वत्त्वं सम्माऱ्या स्थिरीकृत्य चाऽध्येतव्यम् । अध्ययनं ज्ञानसम्पादनाय न त्वाचारपरिवर्तनाय । आचारे परिवर्तनमेव नाशः संस्कृतेः । ___ अन्यं विनाश्य स्वस्थितिं या सम्पादयति सा संस्कृतिरेव न भवति सा तु विकृतिरेव । संस्कृतिं मुक्त्वाऽस्माभिर्विकृतिरङ्गीकूताऽस्ति - इत्यस्य तात्पर्यं| तु नैतद् यत् पाश्चात्यसंस्कृतौ किमपि शोभनं नास्त्येव । अस्त्येव तत्राऽपि किञ्चित् शोभनं किन्तु यत्किमपि तत्र शोभनमस्ति तत् सर्वमस्ति भारतीयदर्शने । तस्य मूलं विद्यतेऽत्र । ____ सम्माननार्हा यद्यपि सर्वे किन्तु पूजार्हास्तु स्वपितर एव । एवं प्रधर्मोऽध्येतव्यः सम्माननीयश्चाऽपि किन्त्वाचरितव्यस्तु स्वधर्म एव । अन्यथाकरणे बहु सोढव्यं भवति, यच्च वयमनुभवाम एव । बढ्यो विकृतयः प्रविष्टा जाताः । अनेके प्रश्ना अप्यद्योपस्थिता जाताः । वयं तान् समाधातुं प्रयत्नवन्तो यद्यपि स्मः किन्तु तेषां समाधानं निराकरणं च स्वधर्माचरण एवाऽस्ति । तदेव च सौख्याय हिताय च भविष्यति । मृगशिरकृष्णदशमी (श्रीपार्श्वनाथजन्मकल्याणकम्) अहमदावादः कीर्तित्रयी Page #6 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः डॉ. सुरेन्द्रमोहनमिश्रः 61 उपाचार्यः संस्कृतपालिप्राकृतविभागः (भारतीयविद्यासंकायः) 2) कुरुक्षेत्रविश्वविद्यालयः कुरुक्षेत्रम् - १३६११६ (हरियाणा) 16 मान्याः कीर्तितकीर्तयो मुनिवराः ! नन्दनवनकल्पतरोरालक्ष्य पञ्चदशी शाखाम् । तरुणायितो ननु तरुर्मन्येऽहमावर्जितो मुदितः ॥४॥ साहित्यशेवधिसुधां काव्यवसुवसुधां वनभूमिम् । मेघमेदुरनभोवृतामालोक्य शष्पसुममयीं नन्दे । રો विश्वभारती भारती पुनरसौ वर्धते पुरुरूपा । प्रमाणं पुरस्करोत्यप्यभिनवं कल्पतरुः कीर्त्या રી विकासोन्नतिप्रभेदं कीर्तित्रयी विशिनष्टि युक्त्या । स्युर्भारता उन्नता न मात्रं विकसिता इति सूक्तम् ॥४॥ आर्यापञ्चविंशतिका (आचार्य)विजयहेमचन्द्रसूरीणाम् । स्वगतमार्याभिर्विनयं विनिवेदयते प्रभौ भक्त्या ॥५॥ गलज्जलिका त्रिवेणीभूय भूयोऽभिराज(-)ते भव्या । कविकण्ठामृतविहरिणी तदन्यत्वे प्रियतरा साऽऽभात् ॥६॥ मार्गानुसारिणः सेव्याः पञ्चत्रिंशद्गुणा मुनेः । रलकीतः सदा सेव्या मनुष्यभूतिकाक्षिभिः પાછો दैवविलसिताख्या सा कल्याणकीर्तिकीर्तिता । कथा प्रसन्ना मधुराऽऽसादिता प्राकृतादथ ટો किं नाम ज्येष्ठत्वमिति रूपकं शोभनं पुनः । संलापसुन्दरं भाति मञ्चस्थं रञ्जयेज्जनान् s आमर्मनर्म सर्वत्र प्राकृतेऽपि विशेषतः । भाषाविन्यास उदितो मुग्धबोध उदस्तभीः Page #7 -------------------------------------------------------------------------- ________________ जनभाषात्वमाधातुं योग्या संस्कृतभारती । तेनाऽखण्डं भारतं नो विश्वञ्चाऽखण्डतामियात् ॥११॥ विजयशीलशशिसूरीन् श्रीलान्कुरुष्वभिवादयते पथिकः । नन्दनवनकल्पतरोश्छाया सरससाद्धरताद्विपथः सबहुमानविनयं भावत्कः (सुरेन्द्रमोहनमिश्रः) जगन्नाथ-पाठकः ३/१४, एम. आई. जी., आवास विकास कॉलोनी, योजना-३, 9 झूसी, इलाहाबाद-२११०१९ (उत्तर प्रदेश) "नन्दनवनकल्पतरुः" इत्याख्यायाः पत्रिकायाः ‘पञ्चदशीशाखा' समधिगता । पत्रिकेयमाध्यात्मिकस्य जगत उपकारेण सममेव प्रवर्तमानाधुनिक-संस्कृत-साहित्यक्षेत्रमपि भृशमुपकुर्वाणेव परिलक्ष्यते । अस्याः सङ्कलनकर्वी 'कीर्तित्रयी' सर्वथा समेषामस्मादृशां 20 संस्कृतविद्याव्यसनिनामभिनन्दनास्पदम् । यद्यप्यत्र सङ्कलिता सामग्री बाहुल्येन जैनधर्म-16 शास्त्रविषया प्रतिभाति तथाऽपि ‘सङ्कलनकर्त्याः' सर्वधर्मसमभावोऽपि प्रायः परिलक्ष्यत । एव । वस्तुतः, इयमेव भारतीया संस्कृतिः, परम्परा च । यथा चोक्तं भक्तप्रवरेण पुष्पदन्तेन, 2 'रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां, नृणामेको गम्यस्त्वमसि पयसामर्णव इव' इति । 2 पत्रिकायामस्यां काव्यविद्या-वैविध्यमपि सुतरां मनस आकर्षणायाऽलमित्यनुभवामः । अस्यां 16 प्रकाशिता लेखा अपि सामान्येनाऽपि संस्कृतज्ञेन अवगन्तुं शक्याः प्रतीयन्ते । दिनेष्वेषु संस्कृतज्ञेष्वपि प्रायो व्याकरणच्युतिरभिलक्ष्यते, किन्तु पत्रिकायामस्यां शुद्धतया शोभनतया ) च प्रस्तूयमानं संस्कृतमिति प्रमोदावहम् । यथाक्रमं प्रकाश्यमानया पत्रिकयाऽनया सदैव संस्कृतसेवापरायणाः प्रमोदन्तामिति 61 कामयमानः पाठकोपाह्वो जगन्नाथः । Page #8 -------------------------------------------------------------------------- ________________ रूपनाराय एस, २/३३०, राज्यशिक्षा संस्थानकालोनी, एलनगञ्जः, प्रयागः, उ.प्र. २११००२ मान्याः , वाचकाठमां प्रतिभावः । सादरं प्रणामाः । 'नन्दनवनकल्पतरोः' पञ्चदशोऽङ्कोऽधिगतः । अत्र निखिला रचना रम्याः सन्ति । 'किं न | नाम ज्येष्ठत्वम्' इति रूपके युवजनानां शीलसंरक्षणाय गुरुजनानां यच्चरितं प्रस्तुतम्, तत् सर्वथा श्लाघनीयं लोककल्याणकारकं च विद्यते । स्वस्नुषाया गुणसुन्दर्याः कामपीडायाः निवारणाय श्रेष्ठिना यद् मनोवैज्ञानिकं रचनात्मकं संघटनं व्यधायि, तत् स्वस्थसमाजस्य संरचनायै नितरां युज्यते। डॉ. रामकिशोरमिश्रमहाभागस्य 'भामती' इति कथाऽपि हृदयं संस्पृशति । एकस्य सरस्वतीसमुपासकस्य कृते भामत्याः समर्पणं कस्मैचित् सत्प्रेरणां न प्रयच्छति ? तस्याः कृते वाचस्पतिमिश्रस्य कृत्यमपि तथैव मानसं प्रभावयति । किन्तु कथायामस्यां 'भामती' एको गणितग्रन्थोऽस्ति-इति यदुच्यते तत् भ्रान्तिमूलकमस्ति । 'भामती' वस्तुतः भगवत्पादशङ्कराचार्यस्य शारीरकभाष्यस्य (ब्रह्मसूत्रभाष्यस्य) विशदा गम्भीरा व्याख्याऽस्ति । 'प्रास्ताविकम्' अपि यथार्थपरकमस्ति । अस्माभिर्नीति: पाल्येत । जयतु संस्कृतम्, संस्कृतिश्च । । शास्त्री व्रजलालभाई वी. उपाध्यायः जानकी एपार्टमेन्ट, पहेले माळे, लाला मेतानी शेरी, जामनगर-३६१००१ नन्दनवनकल्पतरुवितरणदेवीसम्पदनुबन्धतुष्टिपुष्टिसम्प्रीणितविबुधवदान्या महानुभावा तत्रभवती कीर्तित्रयी, प्रणतिततयः । किं लिखामि ? मम मौनमेवशरणम् । साक्षात्कारं विना नैव स्मरणं नाऽनुमानता । आगमार्थोपदेशाश्च सर्वमेव परोक्षता || दैवीसम्पत्परस्तावद् भावस्वभावविश्वासः । साक्षात्कार इवाऽऽभाति कीर्तित्रयीसुकीर्तनम् ॥ प्रास्ताविकम् - सौहार्देन पठितम् विशिष्टवाचकानाञ्च प्रतिभावा अपि प्रतिभावैभवदर्शनदार्शनिकतां दधति । किं नाम ज्येष्ठत्वं-मनोहरा रचना । धन्यं सारस्वतं धाम, धन्य-धन्या परम्परा । वन्द्यः स्तुत्यश्च भवतां, चिद्विलासो हि साधना । __धन्या यूयं सर्वे वन्दनीयाश्च ।। 7 Page #9 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः आदरणीयां नन्दनवनकल्पतरुसम्पादिकां कीर्तित्रयीं सादरं नमामि । पञ्चदशी शाखा प्राप्ता, तदर्थं धन्यवादाः । अत्र महावीराष्टकं भवत्या प्रकाशितम्, तदर्थम् अहम् आभारं प्रकटयामि । अत्र प्रास्ताविकम् अध्यात्मगुणत्वेन मननीयम् । आचार्य रामकिशोरमिश्रविरचितं पाणिन्यष्टकं मनोहरं पाणिनीयसूत्रप्रयोगेण च सारगर्भितमस्ति । मुनिरत्नकीर्तिविजयदर्शिताः पञ्चत्रिंशद् गुणाः पठनीया मननीयाः पालनीयाश्च सन्ति । श्रीदेवचन्द्रसूरिविरचितप्राकृतभाषामय 'सिरिसंतिनाहचरिय' ग्रन्थाद् मुनिकल्याणकीर्तिविजयेन सङ्कलिता 'दैवविलसितं ' नाम कथा पठनीया वर्तते । स्वपत्नीसेवया प्रसन्नः पञ्चाननवाचस्पतिमिश्रः स्वगणितग्रन्थस्य नाम भामतीम् अकरोत् । सा भामतीकथा रोचिका विद्यते । अस्मिन्नन्दनवनकल्पतरौ प्रकाशित: प्राकृतविभागः प्रशंसनीयविशेषः । अहं नन्दनवनकल्पतरुप्रकाशनं निरन्तरं कामये । भवदीयः - राजेशकुमार मिश्रः अध्यापक:- राजकीय इण्टर कॉलिज, नागराजाधार: (बमुण्ड), पत्रालय: कखबाड़ी, वाया - चम्बा (टिहरी गढ़वाल:) उत्तराञ्चलप्रदेश: - २४९१४५ अर्हम् नमः कर्णावतीं प्रति विद्वद्वर्याचार्य श्रीविजयशीलचन्द्रसूरिमहाराज ! वन्दना स्वीकार्या । भवत्संपादितनन्दनवनकल्पतरुपुस्तकानि अस्माभिः प्राप्तानि । युष्मदीया संस्कृतसाहित्यविषयिणी सेवा सुतराम् अनुमोदनीया अस्ति । एतत्पुस्तकानि संस्कृतस्य अध्यापकानाम् तथा अध्येतॄणाम् कृते उपयोगीनि । मुनिवैराग्यानन्दविजयः C/o. अमृतभाई कुबडीया ११ - २०२, शत्रुञ्जय पार्क तलेटी रोड, जि. जामनगर, पालीताणा 8 Page #10 -------------------------------------------------------------------------- ________________ | अनुक्रमः । कता पृष्ठम् | भक्तामरसमस्यास्तवः मुनिधुरन्धरविजयः | अनूदिताः श्रीशत्रुञ्जयतीर्थचैव्यवन्दन स्तवन-स्तुतयः - मुनिधुरन्धरविजयः श्रीवीरस्तुत्यष्टकषोडशकम् पं. अमृतपटेल: श्रीशारदावन्दनम् SH डॉ. आचार्यरामकिशोरमिश्रः२५५ श्रीमत्पञ्चसूत्रस्य चतुर्थं प्रवज्यापरिपालनासूत्रम् उपाध्यायो भुवनचन्द्रः २७ (पद्यानुवादः) | पाहाया व्यथितम् जगन्नाथ पाठक: Page #11 -------------------------------------------------------------------------- ________________ ★ गुरुवे नमः ॥ कृतिः आस्वाद भारतमातुस्तत् सम्मानम् अनुक्रमः राष्ट्र-रक्षा 7 चिन्तनधारा ॥ मृत्युः ॥ पत्रम् कर्ता डॉ. वासुदेव वि. पाठकः डॉ. वासुदेव वि. पाठकः डॉ. वासुदेव वि. पाठकः 10 मुनिरत्नकीर्तिविजयः डॉ. महेश्वरः रमानाथः द्विवेदी मुनिधर्मकीर्तिविजयः n पृष्ठम ३९ ४१ ४३ ४५ ४७ Page #12 -------------------------------------------------------------------------- ________________ काव्यानवादः प्रभो Dow कृति: अनुवाद: कथा अनुक्रमः ऽहं प्रार्थये चैवम् कर्ता मुनिरत्नकीतिविजयः हमयस्य रक्षणम् मुनिरत्नकीर्तिविजयः कथायां बोध: सूफीकथात्रयम् जनप्रियत्वं सुखाय वा दुःखाय वा ? 11 A आ. विजयशीलचन्द्रसूरिः ५५ आ. विजयशीलचन्द्रसूरिः मुनिधर्मकीर्तिविजय: पृष्ठम् ५१ ५६ ५७ Page #13 -------------------------------------------------------------------------- ________________ (अनुक्रमः । - कर्ता पृष्ठम्। मुनिकल्याणकीर्तिविजयः ६० देवविलसितम् साकन्या मुनिकल्याणकीतिविजयः डॉ. आचार्यरामकिशोरमिश्रः ८ ८२ प्रसङ्गत्रयी म अरविन्दभाई कापडिया ८३ ॥ स्वकार्य स्वयमेव कर्तव्यम्॥ पौरिक वी. शाहः ८५ संवादः मर्म-धर्म मुनिधर्मकीर्तिविजयः कीर्तित्रयी ९३ प्राकृतविभाग: कथा डॉ. आचार्यरामकिशोरमिश्रः ९७ ती सङन्दलाच 12 Page #14 -------------------------------------------------------------------------- ________________ vaidim a nshi भक्तामरसमस्यास्तवः मुनिधुरन्धरविजयः . भक्तामरप्रणतमौलिमणिप्रभाणामाभा विकीर्णबहुवर्णसुमावलीव । यस्मिन् रराज जिनपादयुगं प्रणम्य, सौभाग्यभाग्यकमलानिलयं मुदा तत् ॥१॥ यः संस्तुतः सकलवाङ्मयतत्त्वबोधाद्, ध्येयोऽयमेव जगतीति विनिश्चिताथैः । देवेश्वरैरसुरकिन्नरयोगिमुख्यै स्तं नाभिराजतनयं सनयं स्तविष्ये ॥२॥ बुद्ध्या विनाऽपि विबुधार्चितपादपीठ !, दीनस्तवोरुकरुणामृतबिन्दुकानी । 3 रागप्रचण्डफणिनागविषप्रशान्त्यै, * स्तोतुं भवन्तमथ नाथ ! तनोमि यलम् ॥३॥ वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्, शक्नोति कस्तव जगत्त्रयगौरवान् ि । किं सर्वदेवदनुजातुलरूपाशि स्ते रूपलेशतुलनामपि कर्तुमीशः ? ॥४॥ सोऽहं तथाऽपि तव भक्ति वशान्मुनीश वृन्दान्निषेव्य समवाप्य कवित्वलेशम् । त किञ्चित्करोमि तव संस्तवने प्रयास, * बालो यथा चलति मातूरं गृहीत्वा ॥५॥ Page #15 -------------------------------------------------------------------------- ________________ अल्पश्रुतं श्रुतवतां परिहासधाम, मां देव ! देहि परमां वचनस्य शक्तिम् । * एतादृशीं तव पवित्रगुणव्रजानां, सम्यक् स्तुतौ सबलतां समुपैमि येन ॥६॥ सम्मोहमद्य मदमुद्रितचेतनानामुद्योतकं दलितपापतमोवितानम् । त्वत्स्तोत्रगानमिह सूर्यसमप्रतापं, चित्रं झरत्यमृतचारुरसप्रवाहम् ॥७॥ यत्पोच्छलत्प्रबलभक्तिभरप्रवाहादुद्भुतबुद्धिपटुभिः सुरलोकनाथैः । - दिव्यर्द्धिशक्तिसहितैरपि मानवैस्त्वं, * संस्तूयसे परमचित्रमहो न तत् किम् ? ॥८॥ मूर्खाऽप्यबोध्यममरैर्जिन ! ते चरित्रं, स्तोतुं समुद्यतमतिविंगतत्रपोऽहम् । तत्पङ्गुलेन सदृशोऽस्म्यतिसाहसी य आरोढुमिच्छति समुन्नतमेरुशैलम् ॥९॥ देवाऽनवद्यगुणलेशमपि प्रवक्तुं, कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या । किन्तु त्वदीयकणालहरीप्रभावादज्ञोऽप्यहो तव गुणस्तवनां करोमि ॥१०॥ लोकोत्तरं गुणरसं तव यन्निपीय, कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । व्यक्तीकरोति विजयारसपानकेन, वाचालतां भुवि यथाऽपठितोऽपि लोकः॥११॥ Page #16 -------------------------------------------------------------------------- ________________ - कर्तुं तवाऽल्पमपि गानमहं न शक्त स्त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । * चन्द्रोपलः शरदि पूर्णशशाङ्योगात्, शुष्कोऽप्यहो सवति किं न सुधास्रवन्तीम् ॥१२॥ सम्माय॑ भूमिमभिषिच्य जलेन पुष्पैराच्छाद्य मुग्धहृदयेन युगेन बन्धोः । सम्यक् प्रणम्य जिन ! पादयुगं युगादा वादीश ! ते स्तवनतः समवाप्तमिष्टम् ॥१३॥ * काले कलावतिमदोन्मदिते स्वकीयर श्लाघावचःश्रवणलालसया विलोले । * स्तोत्रैर्जगत्रितयचित्तहरैरुदारै- स्त्वां संस्तुवन्ति भुवनोत्तम ! भूरिभाग्याः ॥१४॥ मीनादिलक्षणसुलक्षितमङ्घियुग्मं, ये संश्रयन्ति तव तेऽनय ! हेलयैव । कल्पान्तकालपवनोद्धतनक्र चक्रं, संक्षुब्धसिन्धुसदृशं भवमुत्तरन्ति ॥१५॥ * दृष्ट्वाऽखिलत्रिभुवनेऽतुलितं स्वपं, देव ! त्वदीयमतिमुग्धमनोनिवेशः । प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्र* तुल्यस्य ते चरणसेवनमाचरामि ॥१६॥ त्वामेव वीक्ष्य विबुधा मुदमावहन्ते, भक्तांस्तु मोदयति बिम्बमपि प्रभो ! ते । बालं विहाय जलसंस्थितमिन्दुबिम्ब, संवीक्ष्य को हृदि प्रमोदभरं बिभर्ति ? ॥१७॥ Page #17 -------------------------------------------------------------------------- ________________ त्वदर्शनं भुवनमोहनमाप्य दिव्यं, मुग्धाप्सरोरचितगीतकलस्वनाग्रे । * यत्कोकिलः किल मधौ मधुरं विरौति, तत्काकरावमिव नीरसतां दधाति ॥१८॥ नो चर्चितौ सुरभिचन्दनलेपनेन, सम्पूजितौ सुमनसां प्ररेण वा न । किन्तु त्वदीयचरणौ हृदि धारितावे वाऽऽलम्बनं भवजले पततां जनानाम् ॥१९॥ यस्तोषितः प्रणतिनाऽपि विमुग्धलोकं, स्वर्गापवर्गसुषमा क्षणतः प्रदत्ते । तं तोषयामि चरणाम्बुजलीनचित्तस्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२०॥ मूर्खः स एव भगवन् ! तव पादपद्मसेवां विधूय भवभोगसुखं स्पृहेद् यः । मवं विनैव फणिनागशिरःस्थरत मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥२१॥ स्वामिन् ! विनैव तव दिव्यकूपालवेन, नाऽऽप्नोति वळ्यपि समीहितकार्यसिद्धिम् । यद्वा विनैव जलतारिणिमूलिकायाः, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥२२॥ कारुण्यपूर्ण ! भगवन् ! तव बालकोऽहं, त्रायस्व मामघसमूहनिहन्यमानम् । श्रुत्वाऽऽर्तनादमिह सत्वरमेव माता, नाऽभ्येति किं निजशिशोः परिपालनार्थम् ॥२३॥ For Private Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ ज्ञातं मया सकलशास्त्रविलोडनेन, त्वद्गक्तिरेव निखिलोन्नतिहेतुरेका । - यन्माधवे मधुपगुञ्जनमाम्रकुले, तच्चारुचूतकलिकानिकरैकहेतुः ॥२४॥ भक्तामरस्तववरादिमकाव्यषट्कसम्पूर्णपादपरिपूर्तिमयस्तवेन । श्रीनाभिनामनरनाथसुतो नुतो मे, बोधिं ददातु वरबोधिधुरन्धरोऽलम् ॥२५॥ समृद्धि एपार्टमेन्ट हाइ वे - नवा डीसा ३८५५३५ लेखकेषु सूचना ॥ १. सुरुचिपूर्ण शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते प्रकाशनार्थम् । २. पत्रस्यैकस्मिन्नेव पार्वे देवनागरीलिप्यां शिरोरेखामण्डितं स्पष्टं च लिखित्वा प्रेषणीयम् । ३. Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते ।) ४. अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् । ५. सर्वमपि साहित्यं सन्धियुतमेव प्रेषणीयं, न तु सन्धिरहितम् । वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे सौकर्य स्यात्। ७. प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः प्रतिभावो भवतु । Page #19 -------------------------------------------------------------------------- ________________ अनूदिताः श्रीशत्रुञ्जयताथचन्यवन्दन-स्तवन-स्ततयः अनु. - मुनिधुरन्धरविजयः (१) चैत्यवंदन otoxxx श्रीशत्रुजय सिद्धक्षेत्र, दीठे दुर्गति वारे; भाव धरीने जे चढे, तेने भव पार ऊतारे ॥१॥ अनंत सिद्धनो एह ठाम, सकल तीर्थनो राय; पूर्व नव्वाणु ऋषभदेव, ज्यां ठविया प्रभु पाय ॥२॥ mrisolirolirohesoris सूरज कुंड सोहामणो, कवड जक्ष अभिराम; नाभिराय कुल मंडणो, जिनवर कुरुं प्रणाम ॥३॥ चैत्यवन्दनम् सिद्धभूमि शत्रुञ्जयो, दृष्टो दुर्गतिवारः । यो भावनाऽऽरोहते, तं भवजलोत्तार: ॥१॥ स्थानमनन्तसिद्धात्मनां, सकलतीर्थमहाराजः । नवनवतिपूर्वाण्यथा-ऽऽययौ ऋषभजिनराजः ॥२॥ सूर्यकुण्ड इह शोभनो, यक्षकपर्दयभिरामः । नाभिराजकुलमण्डनाय, जिनवर ! तेऽस्तु प्रणामः ॥३॥ For Private Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ (२) स्तवन बालडां रे पातिकडां तमे, शुं करशो हवे रहीने रे; श्रीसिद्धाचल नयणे निरख्यो, दूर जाओ हवे वहीने रे..... ॥१॥ काळ अनादि लगे तुम साथे, प्रीत करी निर्वहीने रे; आज थकी प्रभुचरणे रहेयुं, एम शिखवियुं मनने रे... ॥२॥ दुषमकाळे इणे भरते, मुक्ति नहि संघयणने रे; पण तुम भक्ति मुक्तिने खेंचे, चमक-उपल जेम लोहने रे.... ॥३॥ शुद्ध सुवासन चूरण आप्युं, मिथ्यापंक शोधनने रे; तेहथी आतम थयो मुज निर्मळ, आनंदमय तुज भजने रे.... ॥४॥ अक्षयनिधान तुज समकित पामी, कुण वंछे चल धनने रे; शांतसुधारस नयन कचोले, सींचो सेवक तनने रे.... ॥५॥ बाह्य अभ्यंतर शत्रु केरो, भय न होवे मुजने रे; सेवक सुखियो सुजस विलासी, ए महिमा प्रभु तुजने रे... ॥६॥ नाममंत्र तुमारो साध्यो, ए थयो जग मोहनने रे; तुज मुखमुद्रा निरखी हरखुं, जेम चातक जलधरने रे... ॥७॥ तुजविण अवरने देव करीने, नवि चाहुं फरी फरीने रे; ज्ञानविमल कहे भवजल तारो, सेवक बाह्य ग्रहीने रे..... ॥८॥ स्तवनम् अतिदीना अयि पातकपुञ्जाः, किं कुरुथाऽथो वसनं रे; दृष्टः सिद्धगिरिर्मयका तत् कुरुत विदूरे वहनं रे ..... ॥१॥ कालेऽनादौ मया भवद्भिः, कृतं प्रीतिनिर्वहणं रे; अथ प्रभुवरचरणाश्रयणाय हि, शिक्षितमन्तः करणं रे..... ॥२॥ Page #21 -------------------------------------------------------------------------- ________________ दुःषमकालेऽस्मिन् भरते किल, न हि मुक्तेः संहननं रे; चमकोपल इव लोहं भक्तिः , कुरुते मुक्त्यानयनं रे..... ॥३॥ शुद्धसुवासनचूर्णं दत्तं, मिथ्यापविहननं रे; आनन्दमयभजनं तव सृजते, मानसमलापनयनं रे..... ॥४॥ प्राप्तेऽक्षयनिधिसम्यक्त्वे तव, देहे चलधनभरणं रे; शान्तसुधारसझरणैर्नयनैः, सिञ्चय सेवककरणं रे..... ॥५॥ बाह्याभ्यन्तरशत्रूणां किल, नाथ ! नाऽथ भयभवनं रे; दासः सुखितो यशोविलासी, तत्तव महिमोल्लसनं रे..... ॥६॥ नाममत्रमिव साधितमिह तव, सम्मोहयते भुवनं रे; तव मुखमुद्रां दृष्ट्वा प्रमुदे, चातक इव नवसुघनं रे..... ॥७॥ आदृत्याऽपरदेवं स्वामिन् !, नेहेऽथो भवभ्रमणं रे; ज्ञानविमल ! तारय भवजलधिं, कृत्वा मम करग्रहणं रे..... ॥८॥ ___ (३) स्तुति विमलाचलमंडन, ऋषभजिणंद दयाळ, मरुदेवानंदन, वंदन करुं त्रण काळ; ए तीरथ जाणी, पूर्व नब्वाणु वार; आदीश्वर आव्या, जाणी लाभ अपार ॥१॥ स्तुतिः विमलाचलमण्डन ! ऋषभजिनेन्द्र ! दयालं, मरुदेवानन्दन !, वन्दे त्वां त्रयकालम्; इह तीर्थ पूर्वस्यैकोनशतवारं, आगतवानृषभो, ज्ञात्वा लाभमपारम् ॥१॥ For Private Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ श्रीवीरस्तुत्यष्टकषोडशकम् । PRA पं. अमृतपटेलः २०३,-B, एकता एवेन्यू, बेरेज रोड, वासणा, अहमदाबाद-७ श्रीवीर ! सिद्धार्थनरेशवंशक्षीरार्णवोन्मुद्रणपार्वणेन्दुम् । त्वामीशमीडे त्रिशलात्मजातं प्रभुं प्रणष्टान्तरवैरिजातम् ॥१॥ कचिण्डांशुचयप्रतप्तं जातं जगत्यां जिन ! जन्मभाजाम् । क्रमौ त्वदीयौ परिशीतयन्तौ वन्दे मृदू पद्मनिभौ विभातः રો शक्रेशशा जनुषोऽभिषेके विषं विनेशे फणिकौशिकस्य । वज्राच्च भीतिश्चमरासुरस्य तेनेह तेहिं शरणं श्रयेऽहम् ॥३॥ त्वां नौमि नेमिं शमियोगिचक्रे चक्रे त्वया कर्मविनाशयोगः । अन्ये तु देवाः कृतकानुकम्पा दाताऽऽशु भक्ताय शिवाख्यसौख्यम् ॥४॥ स्मरेण सार्धं चतुर: कषायान् जेतेति पञ्चानन ! जन्मकालात् । वीरं श्रितस्त्वं गतमूढभावः पञ्चास्य इत्थं तव नामहेतुः ॥५॥ निवेद्य दुःखं चिजन्मजातं प्रभो ! पुरस्ते भवदुःखभुग्नः । जन्माब्धिमेरो ! विभवं भवन्तं भवान्तमीहे शिवसौख्यकामः ॥६॥ कल्याणकाङ्क्षां न विना भवन्तं धर्तुं विभुर्विश्वविशुद्धबोधाम् ।। श्रद्धा प्रति त्वां प्रतिमाति बोधं 'कल्याणमूर्तिस्त्वमसीह नाथ ! ॥७॥ नेत्राद् हृदः पाणियुगाच्च वाचः कृपामृतं वर्षसि हे जिनेन्दो !। त्वं रागरोषापह ! तोषवाहिन् ! दोषास्तकारी न विना त्वदन्यः ॥८॥ १. 'सुवर्णकाय' इत्यपि ज्ञेयम् । Page #23 -------------------------------------------------------------------------- ________________ (२) वीरो मया नाथित एव नाथो, मित्रं न मे त्वं, त्यज राग ! मेऽन्तः । यत्राऽऽदरो नैव, न तत्र सुज्ञाः, श्रुतं न तत् किं भवता कदाचित् ॥१॥ रे रोष ! रोषं वह मा मुधाऽस्मिन्, जने यतोऽहं तव जेतृसेवी । विश्वस्तमित्थं जिन ! सेवया ते, मां पाहि नित्यं परमेश्वरस्त्वम् ॥२॥ 'द्रोहेण मोहस्य विनष्टमेतत् त्रिविष्टपं' स्पष्टतया त्वयोक्तम् । श्रुतं मया मोहविनिर्जयाय श्रितोऽसि तत् त्वं जिनराजदेव ! ॥३॥ श्रुतो न दृष्टो जिन ! ते समानो मानोन्नतः केवलवर्यलक्ष्म्या । प्राप्या तु सा केवल-संयमेन त्वं संयम संयमिवर्य ! देहि લોકો लोकेश ! लोकेषु न शर्म युग्मै-वरेतरैर्दुःखसुखात्मधर्मः । तान् द्वन्द्वभावान् विजयामि यामि यदैकभावं तव भक्तिभावम् ॥५॥ तवेश ! भक्त्या भवनाशशक्त्या न शक्नुवन्तीन्द्रियवाजिनोऽमी । त्वदेक भक्तिर्भवतीन्द्रियाणां रश्मि सदोच्छचलतां गतानाम् દો यदाऽहमासं जिन ! राग-रोष-मोहादिदोषद्विषतां नु सेवी । तदा ममान्तःकरणं तु नष्टं पापप्रसङ्गः खलु सर्वनाशी ॥७॥ हे ! साई ! सत्त्वेषु तव स्तवो हि प्रोल्लासकासी करुणाविभासी । भवान्तकारिन् ! नरकान्तकारिन् ! संसारभीतोऽहमतः स्तवीमि ॥८॥ o Page #24 -------------------------------------------------------------------------- ________________ (३) सज्ज्ञान-चैतन्य-शमत्वनाशै-र्मूढत्वकृद्भिर्घनतामसौघैः । त्वं त्रायसे मोहमहारिवर्गै - स्त्वमेव तद् देव ! ममाssप्त ! सेव्यः त्वं येन दग्धो विभुना सुयोगै-र्ज्ञानेन दीप्तैस्तपसाऽतितिग्मैः । रे वाम काम ! स्मर तस्य शौर्यं 'दासोऽस्ति तस्येति' न पीडयेर्माम् ॥२॥ दयांशुभिर्व्याप्तमयं दयालो ! ज्ञानोत्कटं धाम किरन् मुखेन्दुः । स्मराग्निना तप्तमिदं ममान्तः शमामृतोर्म्या कुरु शीतलं तत् दोषोदयो भानुविभाविनाशो ध्वान्तप्रसारश्च पथप्रणाशः । उलूकदृष्टेश्च न जृम्भणं तु तेनाऽसि वीर ! त्वमपूर्वचन्द्रः जिनेशवीरोऽतिदिनेशधामा सुप्रेक्षणीयः करुणाभूतो यः । न यान्ति विघ्नं 'जडभावभाजो भावा विभो ! ज्ञानविभाविसारे अपूर्वमेघो जिनवीरदेव ! कृपामृतं वर्षसि नैव पङ्कम् । सदोदितेऽपीह न जाड्यमस्ति घनान्धकारश्च न दिग्विनाशः नेता भवान् ज्ञानिजनेषु वीर ! पात्रं तु चारित्रपवित्रितानाम् । मोक्षाध्वगेषु त्वमसि प्रदेष्टा याचे यतो वीर ! वराशय ! त्वाम् भद्रंकरे वीर ! तवांऽह्रिपद्मे नित्योत्सुकं भृङ्गतु मेऽक्षि रम्यम् । चेतस्तव ध्यानसुधासुलीनं तवैव भक्त्याऽस्तु तवैव भक्ति: 101 १. ड-लयोरैक्यात् जलभावभाज इत्यपि ज्ञेयम् । in ११ n ll ॥५॥ દો " ॥८॥ Page #25 -------------------------------------------------------------------------- ________________ (४) ॥२॥ F MAGARATANAMAal धर्मेतरग्रीष्मसुतप्तसत्त्वैः पापापवारिस्तव धर्मवारि । पेपीयते तारक ! तीर्थमेघे समुन्नते प्राप्य परं प्रबोधम् 11:11 हे नाथ ! दासोऽस्मि तवैव देव ! त्वामेव सेवे बुधसङ्घसेव्य ! । ध्यायामि नित्यं हितदान् गुणौघान् गुणास्तवाऽधीश ! हितेष्वधीशाः तवाउनणीयोमहिमाहिमांशौ भव्येषु कल्याणविधावधीशे । द्रवत्यहो यद् हृदयेन्दुकान्तात् नक्तंदिनं भक्तिजलं तु चित्रम् ॥३॥ स्वातेः समे ते समये सुभक्तेः शुक्तौ श्रुतौ मे तव नाम सिक्तम् ।। मन्नेत्रपात्रात् प्रकटं तु मुक्ता-फलत्वमाप्तं जिन ! चित्रमेतत् ॥४॥ स्मरेण चारित्रवसु प्रलुप्तं ज्ञानप्रदीपः पवनादधैर्यात् । नष्टं कृपाब्धे ! मम सर्वसत्त्वं चित्रं त्वयि त्रातरि हा हतोऽस्मि ॥५॥ 'पीत्वाऽपि ते नाथ ! सुधोपमानं वचो न चित्ते समतावतार: । इत्थं मयोक्ता तव एव कर्णे ज्ञाता कथैषा जगता नु चित्रम् ॥६॥ भूतं न, भाव्यं जिन ! यन्न काव्यं भूते तु वृत्तं मम नृत्तकल्पम् । संसाररङ्गे बहुचित्रवेषश्चित्रे तथा नो तव वेशदाक्ष्यम् ॥७॥ क्दा त्वदाज्ञां कवचीकरिष्ये ज्ञानं च हेतिं करयोर्धरिष्ये । क्रियां च कृत्वा तुरगं सुतुझं निर्वाणसाम्राज्यमहं वरिष्ये લોટો १२ Page #26 -------------------------------------------------------------------------- ________________ - - - ॥१॥ રો રો ॥४॥ बन्धस्य हेतुर्ननु रागभावः संसारभावेष्वतिपेशलोऽपि । तं नाशयिष्ये तव भक्ति रागान्मृदोः पयोजात् दृढचित्तहेतोः संसारचारादतिघोरदुःखात् सत्त्वेषु मुक्तिं कुरुषे त्वमाशु । मुक्ति प्रदातः ! करुणां कुरुष्व ह्युपेक्षसे मां, तव नोचितं तद् रागाद्यमाद्यन्मदमोहमारि-वैरिव्रजाणां मथिताऽसि नाथ ! । रेष्यतो नो तव साम्यमस्ति स्वयं निमग्ना भवसागरे ये कदाऽपि विद्धः खलवाग्विलासै-र्दग्धोऽन्यदोषाज्यविवृद्धरोषात् । कदापि नष्टो निजदुर्विलासै-विडम्बितो नाथ ! मया ममाऽऽत्मा इत्थं विभो ! वीर ! सदा विशुद्ध-संसिद्धसंदर्शन ! शुद्धबोध ! । विबोधितेन्द्रादिमभूतिदात-र्दोषैर्विनष्टं मम रक्ष बोधम् दुर्बोधकाठिन्यवती मतिमें पदे पदे पङ्गुरिव स्खलन्ती । स्वामिन्नसत्त्वस्तव तत्त्वबोधे मामीदृशं बोधय बोधितत्त्वम् त्वां जात्यजाम्बूनददीप्तिगौरं देहप्रभारञ्जितदिग्विभागम् । सुवर्णपद्मोपरि राजमानं ध्यात्वेति मां नाथ ! कृतार्थयिष्ये पद्मासनस्थं स्थिरचित्त-कायं तवाऽऽस्यपकनिमग्ननेत्रम् । आप्यायतु त्वत्करुणासुधा मां नित्यं नितान्तं घनकर्मतप्तम् કો ॥६॥ ॥७॥ l૮ - 0 १३ Page #27 -------------------------------------------------------------------------- ________________ (६) . . . ||SATAMAVAATAMA सक्लेशविश्लेषविशोधिताक्षं तत्त्वावतारे गुरुसत्त्ववृत्ति एकान्ततः सत्त्वहितप्रदातृ ह्याप्त! त्वदीयं वचनं स्तवीमि भीतोऽरिम संसारमरोर्हि वीर ! वचस्तु नित्यं श्रवणातिथि स्तात् ।। सौख्ये च दौःस्थ्ये च ततो हि धैर्य, पयस्यते यत् समतालतासु ॥२॥ घनान्धकारे परिबम्भ्रमीति घोरान्धकूपे परिरारटीति । ममैष जीव: परिहीनतेजास्त्वद्-वाक्प्रदीपो वरधामहेतुः ज्ञानं विना भूरितरं तु जाड्यं जाड्येन नैःस्व्यं नितरां भवेऽस्मिन् । न त्वद् विना ज्ञानभवो जिनेश ! ज्ञान-क्रियाभ्यां विभवा भवन्ति ॥४॥ धर्माणि घोराणि विधुर्विधूय सुधाभिराप्यायति विश्वमेतत् । स स्यात् त्वमेवाऽद्भुतरश्मिराशिः प्रणश्य रागं न विना त्वयाऽन्यः ॥५॥ उदेति भानुरितमिरं तु नश्येद् धात्र्यां प्रकाशः सचराचरायाम् । जातस्य धर्मस्य तु कर्मजातान्नाशोऽन्यतो नो,ऽसि रविरत्वमेव ॥६॥ प्रतारितोऽहं मृदुधीरधीश ! विना भवन्तं शठधीनिधानैः । यत् सन्न 'तत्सद्ध्यतिगूढवाग्भिः स्यादङ्किता वाक् मतिशुद्धिसारा ॥७॥ स्याद्वादचन्द्रो भवतापहारी स्याद्वादभानुर्जडतापहारी स्याद्वादवैद्यो भवरोगनाशे स्याद्वादवादी भवनागपाशे -० - १. “यत् सत्, न तत् सत् हि, अतिगूढ' इति संधिविग्रहः कार्यः For Private sonal Use Only Page #28 -------------------------------------------------------------------------- ________________ ZAVASHASANATANA HERE OFFre नो भारती मे वरभासमाना व्यक्तिमतेर्गौरवकारयित्री । त्वां स्तौमि यतं प्रविधाय नाथ ! भक्तिस्तवैषा सुषमावहा स्यात् ॥१॥ निग्धं च मुग्धं च ततो निरुद्धं स्तब्धं तथा क्षुब्धमतो नु क्रुद्धम् । इत्थं मनो मे क्वथितं तु मत्कै र्हा नाथ ! भक्तिः शरणं तवैव ॥२॥ च्युतोऽथ भक्तेर्जिन ! किं नु शक्तेः श्रद्धाऽथवा नाथ ! ममाऽस्ति नष्टा । नो चेत्तवाऽऽस्यामलपार्वणेन्दौ चेतो न निर्वाणमवैति देव ! ॥३॥ मत्तं तु चित्तं तव भक्ति दीप्तं यथा भवेन्नाथ ! तथा दयस्व । जहाति नो भक्तजनेषु नाथो दयार्द्रमुद्राङ्कितमास्यलारयम् ॥४॥ सर्वत्र सन्तीश ! विडम्बितानि स्वामिन् ! मनोध्वंसपरायणानि । तथा विधेहीश ! ममेश ! चित्तं न स्यात् कदा केन कुतोऽप्यशरतम् ॥५॥ खलीकृतोऽरिम स्मरवैरिणाऽहं नृशंसवृत्या ज्वलता ममाऽन्तः । 'विश्वासबंधुः करुणैकसिंधुराप्तोस्ति वीरः' श्वसितं मयेत्थम् ॥६॥ मनो मदीयं रमतां जिनेश !, गुणेषु रम्येषु सदाशिवेषु । अहर्निशं विश्वहितैकवृत्ते ! वीरेश ! विश्वेश्वर ! वर्यवीर्य ! ॥७॥ ममाऽयमात्मा भवतात् शमायः, निर्माय ! निर्माय तवेश भक्तिम् । नेत!र्न मे मानसमस्तु दीनं मायामलीनं कुविकल्पलीनम् ॥८॥ १५ Page #29 -------------------------------------------------------------------------- ________________ (c) सुधाकरस्ते नयनं नयेश ! सुधाशयस्ते हृदयं दयेश ! । सुधाश्रमस्तेऽभयदांह्रियुग्म-मतस्त्वमब्धिः करुणासुधायाः यतस्त्वमेवाऽसि जनेषु काम्यः शाम्योपलब्धिर्भवतैव देव ! कर्माष्टमूलान् समतामृतेन वैषम्यरोगानपहाय सार्व ! शिवेष्ट ! भव्यानुपदिष्टधर्म ! धर्मस्य तत्त्वं तु सुधोपमानम् । भवाम्बुधौ नाथ ! मया न लब्धमतोऽशिवोऽहं बहुदुः खपात्रम् निदाघकालेऽर्क करैः सुतप्ते जानाति कस्तापकरं न मन्दः । अहं महामूर्खशिरोवतंसः सन्तापकं शीतलमामनामि विनाटितोऽहं भवनाटकेऽत्र मोहेन नेतर्नटनायकेन । जनुर्जरामृत्युभवेऽत्र पात्रे त्वं पालयेत्थं मथिताशयं माम् विनाऽऽ हितस्त्वामहमीश ! बोध-बुद्धावनीशो भवकूपकेऽस्मिन् । प्रपञ्च्य कूटैर्वचनैस्तु धूर्तै- र्बहिर्नयाऽतो नयरज्जुदानात् प्रज्ञाप्रकर्षो नहि वाक् प्रगल्भा न तर्कवार्त्ता प्रतिभाऽवदाता स्वास्त्विदग्रे प्रवदामि यत् त-नोपेक्षणीयं प्रभुणा सुकृत्यम् पुष्णाति विद्या परमं पुमांसमायाति विद्या प्रभुसेवयैव । प्रभुश्व यः पालयति श्रितं तन्नीराग आप्तः प्रभुरेव सार्व: -0 १६ m રો mn કા ॥५॥ દો n ॥८॥ Page #30 -------------------------------------------------------------------------- ________________ Kaml . . सत्त्वादि सर्वं मुषितं तु येषां तेषां प्रदाता वरदर्शनादेः । देवाधिदेवोऽतिसुरद्रुमस्त्वं मोहस्तु यस्मादतिनश्यतीश ! स्वामिन्निदं येन जगन्निरुद्धं कुतर्क-माया-ममतावितानैः । मिथ्यात्वमोहाध्यवसायकायै-ढिं तमो हंसि रविस्त्वमीश ! ॥२॥ समुन्नतेऽज्ञानघने प्रगाढे सत्त्वेषु तत्त्वेषु दधासि भासम् । विस्तीर्णसज्ज्ञानमणिप्रयोगात् त्वं धर्मचक्री भवसीत्थमीश ! ॥३॥ स्पृष्टं त्वयाऽर्हन् ! हृदयाम्बुजं मे सज्ज्ञानभानो ! करुणाकरेण । स्मेरं पुरा नो-हरिणाऽब्धिशेन' हरेण नो वा शशभूद्-धरेण ॥४॥ त्वत्सेहपूर्णो मम चित्तदीपः सद्याऽद्य गन्ता परिपूर्णतेजः । प्राग् ध्वान्तमग्नोऽप्रदैवतेषु स्याद्वादभानो ! त्वयि कौशिकेषु ॥५॥ अपूर्वभावस्तव देव ! सार्व ! स्तवे भवे नाऽवगतोऽस्मि पूर्वम् । जातस्ततोऽभाववतां सुखानां पराभवानां भवनं भवेषु રીદો दोषान्धकारप्रचुरे भवेऽस्मिन् पञ्चेषुवर्षां मदनः करोति । गुणांशुभानो ! स्मरनागसिंह ! मां पाहि विश्वेऽभयदस्त्वमेव ॥७॥ हे ! नाथ ! नेक्षे भवता ममैतद् भवेषु भूरि प्रबलं सुदुःखम् । नेतर् ! न पात्रं करुणासुधायास्तवाऽथवाऽलं पुरतोऽति वाचा ॥८॥ । १. अब्धौ शेरते इति ‘अब्धि + शी + ड = अब्धिशः' इति 'क्वचित्' (५.१.१७१) सिद्धहेमव्याकरणसूत्रेण . साध्यम् - जलधिशायी हरिस्तेन इत्यर्थः । Page #31 -------------------------------------------------------------------------- ________________ (१०) स्वान्तं न मे शान्तमनाथनाथ ! निःशान्तमाप्याऽपि तवाऽऽस्यकान्तम् । नेतर् ! न चित्ते भवतोऽनुरागस्तदा कथं दुःखमपाकरिष्ये स्वामिन् ! न जाने मथितं मदीयं क्व ? केन ? चित्तं कतिधा विधाय । निग्धं च मुग्धं च परेषु सक्तं धीरं शुभं त्वां प्रविहाय नाथम् यत् संसृतौ कामितसौख्यलाभे चित्ते न तोषोऽन्यसुखाशयाऽथ त्वद्गक्तिमन्तः परितोषमाप्ता दृष्ट्वेति भक्तौ प्रयतस्तवेश ! રૂ कुन्देन्दुभासां परिहासकारि यशस्त्वदीयं भुवनैक सौम्य ! मलीमसं में विदधातु शुभ्रं त्वद्भक्तिरेवं जिन ! वीर ! चित्तम् જો कोपादिपापाः प्रसभं रुजन्ति शुकेऽपि सद्यो व्यपदिश्य चित्तम् । शमाब्धिवृद्ध्यै वचनं तवेन्दुः श्रोत्रं च वक्त्रं च पुनातु नेत्रम् ॥५॥ मत्तं तु चित्तं तव भक्तिदीप्तं यथा भवेन्नाथ ! तथा दयस्व । जहाति नो भक्तजनेषु नाथो दयार्द्वमुद्राङ्कितमास्यलास्यम् દો कुतर्कसङ्क्लेशविशेषपाश-बद्धाऽवकाशं मम चित्तसत्त्वम् । विनाशमाप्तं भवता विनाऽऽप्त ! प्राप्तोऽधुना धूनय नाथ ! पाशम् ॥७॥ पुराऽपराद्धं मयका किमीश ! त्वमेव जानासि तदुत्तरं तु । विहाय भीतिं खलकर्मणां वा सेव्यस्त्वमेकोऽखिलकल्पदायिन् ! ॥८॥ Page #32 -------------------------------------------------------------------------- ________________ - . . भवाहवेऽहं बहुधा क्षतोऽस्मि मोहेन कोपस्मरमुख्यवर्गः । त्वन्नामवज्रात्मकपञ्जरेऽथ हे नाथ ! संस्थाय जिगीषुरस्मि भवाश्रवा देव ! तवाऽऽश्रितं मां दुन्वन्ति धुन्वन्ति तवैव मार्गात् । मनोमथस्ते जिननाथ ! मथ्याः क्षमोऽसि तत्र त्वमतः स्तवीमि ॥२॥ यदा कदा नाथ ! कदर्थितं स्यान्मदोद्धतैर्नाथ ! ममेदमन्तः । तप्तं, तदा ते कृपयाऽऽर्द्रमाप्त ! स्तुत्योऽसि नुत्योऽसि तु मादृशैस्तत् ॥३॥ स्वामिन्न जाने जिन ! केन कर्मणा भवेऽत्र भूतः खलगर्हिताऽऽस्थः । कथं पिकाः काकविगर्तिताः स्युः माकन्दलक्ष्मी तु मधौ दधाने ॥४॥ स्वामिन्नहङ्कारविगूढमूलं ममत्वसिक्तं बहुधोपरुढम् । सक्लेशवृत्या परिवृद्धशाखं भवाऽऽख्यवृक्षं मम छेदयाऽऽशु કો विद्धो विना वीर ! तवाउंहिवर्म मर्माविधो बाणगणैः स्मरस्य । भूयोऽपि भूयो भवयुद्धमध्ये शमेन सन्लाहयितुं दयध्वम् मोहादिभिलैर्गहने भवेऽस्मिन् विनाशिता निःशरणा वाकाः । हे सार्व ! सत्त्वैः शरणं श्रितस्तैस्त्वमेव देवोऽभयदो ममाऽस्तु લોકો संसारकान्तारमपारमत्र तवाऽऽस्यमूलं वचनं सुरद्रुः । देवार्य ! वयैर्महनीयतनं नैकान्ततत्त्वं तव नाथ ! नौमि ટો Page #33 -------------------------------------------------------------------------- ________________ Tws ॥२॥ यत् तप्तकातस्वरभास्वरं ते वपुस्तथाऽधीश्वर ! गत्वरं तत् । गुणास्त्वनन्ता न विनश्वरास्तान् ध्यायामि गायामि यतोऽस्मि तेषु नित्यं गुणानां तव नाथ ! धारा धरासु मोदं प्रमदं वहन्ति । तन्मोदनुन्ना मरुतोऽनुकूला गुणिव्रजेषु त्वयि लीनवत्सु गुणांस्तवाऽर्हन् ! शमवत्सु मुख्याः पश्यन्ति नित्यं प्रतिबिम्बितांस्तान् । स्वच्छे स्थिरे शान्ततमे निजात्म-जलेऽखिलेन्दोरिव शीतभासः गङ्गाप्रपातात् प्रविमुक्त वारां-बिन्दूत्कर: प्रोत्किरतीश ! यद्वद् । गुणोऽप्यणुर्नाथ ! तवैव मन्ये सर्वत्र शाम्यादिसमानधारः कूटस्थ एको गदितः प्रसङ्ख्यैर्हे नाथ ! नो भाति मतौ ममेश ! गुणैकमेरौ गुणकूटकाये तवैव नैके सुखिनोऽतिसङ्ख्याः अभ्रायितं जन्ममरौ जिनेश ! तवाऽमुना नैकगुणामूतेन । येनेह सत्त्वेषु गुणाकुरास्तु फलन्ति मुक्तिं क्रमतोऽनुयोगम् स्पर्धा न सार्धं भवता गुणेषु, वक्तुं न शक्तो न तु तेषु भक्तः । ईहे हितान् तान् खलु सङ्ख्ययाऽथ श्रित्वा गुणाँस्ते गुणसागरेश ! गुणांस्त्वदीयान् नतवत्सलेश ! ज्ञात्वेति विज्ञप्तमिदं गुणेन्दो ! । तप्तोऽर्दितो दुःखित-खेदितोऽहं सुधां समाधि वितरेश ! चित्ते ॥६॥ ॥७॥ -0 Page #34 -------------------------------------------------------------------------- ________________ नष्टो न मानो न च वामकामो बोधावरोधौ न च राग-रोषौ ।। तथापि चेतः ! किमु माद्यसि त्वं विधेहि वीरे वरभक्तियोगम् ॥१॥ किं जालकल्पे खलवाविकल्पे त्वं खेलसीत्थं किमु खिद्यसीत्थम् । विमुह्य रागात् कृतकात् तु चित्त ! काके न केकाऽमृतपानतोऽपि ॥२॥ यदग्रमुग्रं सततं नु तृष्णायनं तु लोभाधमदम्भगर्भम् । मनोऽवधानं कुरु मा भ्रम त्वं विनाऽवधानं सुखमाप्यते नो શરૂ निस्सारवाक्कैतववैभवां तां जनस्य नाशे प्रतिबद्धकक्षाम् । मत्वेति मायां, समये तु साचे रमस्व चेतो ! भव निर्भयं त्वम् मुधैव किं धावसि चित्तबाल ! तं विश्वपालं प्रविहाय कुत्र ? । येनोद्धृतं विश्वमनेकदुःखान्मोहान्महामायिकजालतवात् ॥५॥ सेहो न युक्तः स्वजनीभवत्सु स्वार्थे विलीने रिपवन्ति ये तु । भ्रातः शृणु स्वान्त ! हितं मयोक्तं, भजस्व वीरं नितरां परार्थम् દો मुहूर्तमानं भव चित्त ! मित्रं शान्तं तु खिन्नं बहुशोऽन्यभावे । जानाति देवः परिदेवनां ते, चिन्ता किमु ज्ञातरि भावमीशे हेतिर्न, हेतुर्न हि तस्य कृत्यं, रतिर्न खेदः खलु पुद्गलेषु । वीरोक्तिसत्साम्यसुधानिमग्नं भवेऽपि चित्तं भवतालु योगात् દ્રો ॥७॥ २१ Page #35 -------------------------------------------------------------------------- ________________ (१४) 'अयं न योग्यो मम' नेति भाव्यं दासोऽस्मि पाल्यस्तव नाथ ! नित्यम् भक्तेः प्रकर्षो, मयि ते प्रसादः, भक्तिर्हि रम्या प्रभुकृत्यलभ्या तवाऽभिधैवाऽऽप्त ! शमाभिधानं नानाऽऽपदो यान्ति शमं यया मे । ध्येयं तु मे जीवितमात्रसौख्यं त्वत्सेवयैवेश ! हि तत् सुसाध्यम् यदा कदाचित्तव भक्तिभङ्गि - रिङ्गमन्मनो हर्षप्रकर्षमेति । तदा हि संकिलष्टमनोऽभिवृद्धिः, शुद्धिं रुणद्धीश ! ममाऽधिकाधिः न यत्र सत्यं न च वाचि तथ्यं द्वैतं च चित्ते सततं च तृष्णा । धैर्यापहः कैतवकन्दवार्दो लोभः स जेयस्तव भक्तितोषात् कन्दर्पधूर्त्तः प्रमदोन्मदिष्णुर्मनस्तु मथ्नाति विमोह मुग्धम् । कामं तकं नाथ ! कथं धुनामि, तद् देव ! देष्टुं करुणां विधेहि ‘विशेषसंक्लेशविनाशिताशो हतो हताशी मम भक्त एषः ।' किं वेत्सि नेत्थं विकदर्थितं मां भक्तौ लसन्त्यां किमु मोहजालं सुदृष्टकर्माष्टकचेष्टनोत्थ- ज्वालावलीसंज्वलितं मनो मे । तवाऽऽननात् साम्यसुधांशुपूरान्निर्वापयेशाऽऽशु विशीर्णदीर्णम् सुदिग्धसत्त्वं बहुकोपवह्नेः स्फुलिङ्गचर्गैर्बहुधोपतापैः । सत्साम्यचन्द्रो जिन ! वाग्भवस्ते संजीवयत्याशु शमांशुपूरैः 0 २२ n રા રો કો ॥५॥ દા n ॥८॥ Page #36 -------------------------------------------------------------------------- ________________ રો શરૂ . संपद्यमाने च विपद्यमाने चङ्गम्यमाने परिवर्तमाने । संसारभावे मतिरेति कस्य स्थैर्यं श्रितोऽतः स्थिरताधिया त्वाम् उत्पद्य सद्यो विलयं प्रयाति पदार्थसार्थः परिवृत्य नित्यम् । भवस्तु विद्युद्युतिवत् ततोऽहं त्वां मेरुधीरं जिन ! भावयामि बिभेमि मृत्योर्जरसश्च शत्रो-र्मोहान्न रागात् स्मरतो न कोपात् । इतीव मे यो विपरीतभावः शल्यायितं तेन जिनेश ! मेडन्तः । विधाय कृत्यानि निजानि विश्वे विश्वेऽपि सन्तो विरमन्ति तेभ्यः । त्वमेव नित्यं जिन ! राजसेऽन्त-स्तन्नाथ ! धुर्योऽसि हितं धरत्सु चेतोऽर्णवो मे तव पार्वणेन्दौ मुखे प्रभो ! यातु सुभक्तिवेलाम् । कलाविशेषां दिश देव ! दिव्यां यथा जलात् क्षारमपैति वृद्धात् अमर्त्यनुत्यं बुधवारवर्यं सर्वीय ! तेजस्तव योगिगम्यम् । बालारुणं सर्वदिगन्तभानुं तमोपहं व्यस्तसमस्तदोषम् हे सौम्य ! साम्यं श्रय नित्यमेवं यस्योपदेशो जगते हिताय । वीर: स देवो ननु सेवनीयः यद्यात्मसौख्याय तवाऽस्ति यनः तं वीरदेवं श्रय नाथभावात् यद्यस्ति खेदो भ्रमणाद् भवेऽस्मिन् । नते स देवः कुरुते कृपां तां यामीहते योगिजनोऽप्यनीहः કો દો ટા २३ Page #37 -------------------------------------------------------------------------- ________________ (१६) नाऽस्मिन् वने पत्रभरातपत्रा वृक्षाः श्रितानां सुषमावहास्ते । सेवस्व वीरं वरमोक्षवृक्षं छाया नया यस्य फलं तु मुक्ति: श्रीवीर ! नीराग ! सुनम्रनाकि-नृनागनाथैर्लुलिताङ्घ्रिपद्मा । नौ पदाब्जद्युतिरक्त वक्त्रै रक्ताम्बुजक्रान्तिरहो न्यदर्शि प्रसादवैशद्यविसारि शैत्यं नेत्रेऽञ्जनात् तन्वति कृष्णवर्णात् । गुणाञ्जनेनैव जनोऽपि तद्वान्, तद्वन्न कृष्णस्तव वर्ण ईश ! सुतीक्ष्णसूच्योदरभागविद्धा येषु प्रवेशो लघु सूत्रकाणाम् । अहो स्वभाषाविभृताङ्गिभूषा सन्तस्तु हारा इव नायकस्त्वम् तारौघकीर्णं गगनं, तवेश ! गुणौघकीर्णं जगदार्यदेव ! । सरोजसौरभ्यमतीव रम्यं वरं सरोवज्जिन ! ते गुणौघैः રા રા २४ કો ॥५॥ सेहादहं भक्तिमयात् प्रदीपो दुर्वृत्तिवत्तिं परिदाहयामि । साम्यानुभूतिर्वरदीप्रतेजा अयं ममाऽऽत्मा हि धिनोतु विश्वम् आत्मा च कर्माणि तपस्सु योगः पात्रं च वर्त्तिश्च तथा घृतं च । जिनेश ! भक्तिरत्वदीया यदीशा भवेऽपि मुक्तेर्मम योगलब्धि: ॥७॥ દા ૫૫ कृपामृतं नाथ तवाऽऽस्यमेघात् स्वातिर्यदि स्यात् शुचिताऽनुधर्मम् । मार्गस्थचित्तं ननु शुक्तिरेतन्मुक्तात्मता नाथ ! तदा नु शश्वत् दीनोऽस्मि नोऽहं जगदीन ! लीन - स्त्वय्यात्मवेदी जगदेकवेदिन् । निवेद्य सद्योऽद्य ममाऽघजातं चेतस्तु 'चेतः' प्रतिपद्य सेवाम् ॥९॥ Page #38 -------------------------------------------------------------------------- ________________ श्रीशारदावन्दनम् . डॉ. आचार्यरामकिशोरमिश्रः . यां भारती प्रथममत्र हि वेदवाणी, ब्राह्मी गिरां च हृदये मनसा स्मरामि । वन्दे वसन्ततिलकेन सरस्वती यां, तां शारदां भगवतीं शिरसा नमामि ॥१॥ या वीणयाऽत्र कुरुते श्रुतिगायनं वै, वेदस्य पुस्तकमथ स्वकरे च धत्ते । यस्याः कृपा जडमतिं सुमतिं करोति, तां शारदां वचनदां प्रणमामि देवीम् ॥२॥ ज्योतिष्मती त्वमसि चन्द्रमसोज्ज्वलाऽसि, वेदप्रियाऽसि विमलाङ्गिनि ! वेदमाता । त्वं जन्ममृत्युरहिताऽसि जरापहाऽसि, त्वां देवि ! संस्कृतगिरा सततं नमामि ॥३॥ दत्ते समस्तजगते व्यवहारशक्तिं, लेखादिभाषणगिरं विदुषे ददासि । जीवाय या स्वलपितं प्रददाति वाण्या, तां शारदां वचनदां प्रणमामि देवीम् ॥४॥ २५ Page #39 -------------------------------------------------------------------------- ________________ हे हंसवाहिनि सरस्वति वेदगर्भे ! शुभ्राङ्गि पङ्कजकरे ! कमलाननाऽसि । वीणाकराऽसि रचनाकरि ! वेदगम्ये ! हे देवि ! वेदकर ! वेदपरे ! नमस्ते ॥५॥ यस्याः करे लसति गायनतन्त्रवीणा, भाषादिपुस्तक मिह स्फटिकाक्षमाला । हंसेन याति परितो भ्रमतीह विश्वं, आचार्यवर्यक विरामकिशोरमिश्रः, तां शारदां वचनदां प्रणमामि देवीम् ॥ ६ ॥ त्वं ज्ञानदाऽसि जडलोक विवेक दाऽसि, बोधप्रदाऽसि फलदाऽसि सुखप्रदाऽसि । आङ्ग्लादिभाषितविभिन्नगिरासवित्र त्वां देवि ! संस्कृतगिरा सततं नमामि ॥ ७ ॥ द्वन्दनं व्यरचयत्विह शारदाया: । तत्पाठकाय भुवि या प्रददाति बोधं, तां शारदां वचनदां प्रणमामि देवीम् ॥८॥ २६ For Private Personal Use Only २९५/१४, पट्टीरामपुरम्, खेकड़ा - २०११०१ (बागपत) उ. प्र. Page #40 -------------------------------------------------------------------------- ________________ श्रीमत्पञ्चसूत्रस्य चतुर्थं प्रव्रज्यापरिपालनासूत्रम् (पद्यानुवादः) अनुवादकर्ता : उपाध्यायो भुवनचन्द्रः । [छन्दः वसन्ततिलका] रीत्याऽनया गृहविनिर्गत एष सम्यग् विध्याश्रयाद् भवति सत्फलभाक् क्रियायाः । शुद्धक्रियश्च विकसच्छुभसत्त्वशाली । धर्मे विपर्ययमसौ न कदापि याति ॥१॥ एवं विपर्ययविनाकृतशुद्धबुद्धेरिष्टार्थसिद्धिरपि तस्य सुखप्रसाध्या । नैवाऽनुपायरचनाऽस्त्यविमूढभावा नैवाऽप्युपायरचना विफला स्वकार्ये ॥२॥ यत्किंचिदत्र निजकार्यविधावशक्तं तस्य प्रसिध्यति हठादनुपायतैव । कस्यापि किंचिदपि हेतुरिहाऽन्यथा स्याद् धार्या हृदि प्रकटनिश्चयदृष्टिरेषा ॥३॥ साम्यं प्रयाति कनकोपल-शत्रुमित्रादिद्वन्द्वयोगसमये प्रशमोपलब्ध्या । जित्वाऽऽग्रहाऽग्रहकृतं निजचित्तताप मादाति सम्यगथ सद्गुरुदत्तशिक्षाम् ॥४॥ संवेगवान् गुरुकुले निवसन् विनीतो बाढं गुरुप्रतिनिबद्धमना विवेकी । भूतार्थदृग् ‘हिततरं नहि किंचिदस्मा'दित्यं सदा कृतमतिर्मुरुमभ्युपास्ते ॥५॥ २७ Page #41 -------------------------------------------------------------------------- ________________ कर शुश्रूषुतादिगुणयुग दृढतत्त्वनिष्ठो लिप्सादिदोषरहितः प्रतिबद्धलक्ष्यः । सूत्रं ह्यसौ परममत्रमिव प्रगृह्णन्नध्येति सद्गुरुमुखात् स्वहितैकलक्षी ॥६॥ एवं ह्यसौ समधिगच्छति शास्त्रसारं सम्यङ् नियोजयति तच्च रेषु नीत्या । मुक्त्यर्थिनां मतिमतां सुमहाशयाना मेषैव शिष्यजनशासनरीतिरिष्टा ॥७॥ यत्राविधिर्न विनियोगफलं हि तत्र मत्रो यथाऽविधिवशाद्विफलः प्रयोगे । नास्त्यत्र धर्मचरणस्य तु सूत्रपातः सर्वं ह्यधीतमपि तद्विरहे न किञ्चित् ॥८॥ यो धर्मसाधनविधावकृतप्रवेशो दुःखं हि मार्गकथने किल तस्य दृष्टम् । किं वाऽवधीरणमथ प्रतिपत्त्यभाव एवं ह्यधीतमपि शून्यममर्मबोधात् ॥९॥ मार्गस्थितेन विहिता तु विराधना स्यादारम्भकारकतया शुभकृन्न दुष्टा । आरब्धधर्मचरणस्य सुमार्गशिक्षा नो कष्टदाऽनभिनिवेशफला च भाव्या ॥१०॥ RANA कस्याऽपि सम्भवति तत्प्रतिपत्तिमात्र मारम्भयोग इह कस्यचन क्रियायाः । AVOREयद्वै श्रुतं विधियुतं समधीतमेवं को ज्ञेयं त्वधीतमिति तत्किल मर्मबोधात् ॥११॥ " २८ Page #42 -------------------------------------------------------------------------- ________________ प्रारब्धधर्मचरणो नियमात्सबीजो मार्गस्थितः प्रयतते तु सदाशयेन । तस्याऽप्यपायबहुलस्य विराधनायाः स्यात्सम्भवस्तु मतिविभ्रममुख्यदोषैः ॥१२॥ सूत्रानुसारमनुतिष्ठति सोऽप्यपायमुक्ते ऽनुकूलसमये स्वहितप्रवीणः । गुप्तित्रयं समितिपञ्चकमेवमष्ट मातृर्भजेत् प्रवचनस्य सदोद्यतः सन् ॥१३॥ त्यागो यथाऽहितकर: शिशवे जनन्या अव्यक्तभावसहितस्य मुनेस्तथैव ।। आसां परित्यजनमत्र ततो न योग्यं व्यक्तत्वमत्र बत केवलिनो हि पूर्णम् ॥१४॥ आसां च सेवनफलं किल केवलित्वं त्याज्यास्तु मातर इमाः प्रथमं कथं स्युः ? जानात्यसौ द्विविधयाऽपि परिज़यैतज् ज्ञानक्रियोभयविधौ विशदावधानः ॥१५॥ द्वीपं महोदधिनिमज्जनभीतलोका अप्लावितं शरणदं मृगयन्ति बाढम् । दीपं च घोरगहने स्थिरसुप्रकाशमिच्छन्ति मार्गपरिशोधनसत्सहायम् ॥१६॥ A एवं क्षयोपशमजं चरितं च बोधं प्राप्तोऽपि वेत्त्युभययोः प्लवनास्थिरत्वे । तस्मात् स सूत्रविधिना यतते क्षयोत्थचारित्रबोधसमुपार्जनदत्तचित्तः ॥१७॥ AKASH २९ Page #43 -------------------------------------------------------------------------- ________________ S 538 सर्वत्र चाऽन्यतमयोगमबाधमानो मुक्त्वा त्वामथ समुत्सुकतां च धीरः । भ्रान्त्यादिदोषपरिवर्जित एष शक्त्या चारित्रधर्ममनुतिष्ठति भावसारम् ॥१८॥ योगप्रकर्षवशतो वृणुतेऽथ मुक्तिं तत्तद्गुणोद्गमविरोधककर्मराशेः । भावक्रियां सुविशदामधिरोहतीत्थं यावद्भवं परिणतौ परिशुद्ध्यमानः ॥१९॥ नो पीडितः स तु तपश्चरणक्रियाभि। बाधितो बहुपरीषहकष्टजालैः । रोगोपचारसहभाविशरीरकष्टन्यायेन विन्दति परां प्रशमानुभूतिम् ॥२०॥ कश्चिद्रुजा विषमया परिपीडितः सन् तद्वेदनानुभववान् विदितस्वरुपः । निर्विण्णभावमधिगम्य ततश्च सुज्ञ वैद्योपदेशमनुसृत्य करोत्युपायान् ॥२१॥ सर्वं यथेच्छचरणं निरुणद्धि सोऽसावल्पं भुनक्ति हितकूद्विरसं च पथ्यम् । दुर्व्याधिना क्रमश एष विमुच्यमानः पीडानिवृत्तिमपि वेदयति क्रमेण ॥२२॥ आरोग्यलाभपरिवर्तनजाततोषजी स्तज्जन्यनिर्वृतिसुखेन दृढीकृतेच्छः । KATREY3. क्षारोपलेपमथ शल्यचिकित्सितं च A स स्वीकरोति गदशान्तिकरं प्रतीत्य ॥२३॥ 30 For Private Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ - - अव्याकुलो भवति च स्वसमीहिताप्तेः पीडाव्यथाविरहितोऽवहितः क्रियायाम् । लेश्या शुभा प्रतिदिनं किल वर्धतेऽस्य वैद्य तथा हृदयतो बहुमानभावः ॥२४॥ रोगोपचारविषये सहजः क्रमोऽयं मोक्षार्थिसाधुविषयेऽप्ययमेवमेव ।। कर्माणि रुग् जनिजरामरणादि पीडा, वैद्यस्तु सद्गुरुरिति प्रकृतेऽवसेयम् ॥२५॥ विज्ञाय दुःखमयमत्र भवस्वरूप निर्विण्णभावमधिगम्य ततश्च बाढम् । संप्राप्य धर्ममथ सद्गुरुसंगयोगाच्चारित्रमुक्त विधिना प्रतिपद्यतेऽसौ ॥२६॥ स्वेच्छाप्रमादविहितं सकलं रुणद्धि गृह्णाति शुद्धमशनं विरसं च तुच्छम् । मुक्तिं क्रमादयमुपैति हि कर्मरोगात् पीडाऽपि चाऽस्य विनिवर्तत आर्तिरूपा ॥२७॥ नीरोगतां चरणशोधनजां च लब्ध्वा संवर्धमानशुभभावतया विशेषात् । तल्लाभनिर्वृतिबलादधिकानुरक्तो धैर्यं जहाति नहि कष्टपरीषहेषु ॥२८॥ * किन्त्येषु चैव कुशलाशयवृद्धिमेष - तत्त्वानुशीलनबलेन लभेत बाढम् । AA 3 शान्तस्य कार्यकुशलस्य ततोऽस्य तेजो CR लेश्या स्थिराशयवतः परिवर्धते च ॥२९॥ ALEX ३१ Page #45 -------------------------------------------------------------------------- ________________ निर्लालसेन मनसा हि गुरुं प्रपन्नो धत्ते गुरौ सुबहुमानमसौ निसर्गात् । गुर्वी मता मुनिजनैः प्रतिपत्तिरेषा कर्मक्षयोपशमजा किल भावसारा ॥३०॥ अत्राऽऽहितोऽस्ति भगवद्बहुमानभावो 'मां मन्यते स गुरु'मित्यभवद् यदाज्ञा । एतां विना सकलमाचणं तु मिथ्या । स्यात्पुंश्चलीजनसुसेवितसत्क्रियावत् ॥३१॥ तद् गर्हितं हि नितरां परमार्थविद्धिर्यस्मादभीष्टफलतोऽन्यफलं फलं न । तृप्तिर्विषान्नजनिता विदुषामनिष्टा तद्वत् प्रपत्तिरहिता सकला क्रियाऽपि ॥३२॥ एतद्विषं गुरुषु योऽबहुमानभावो धर्मं निहन्ति सकलं तु विराधनैषा । आवर्त एव खलु तत्फलमत्र बोध्यं पापानुबन्धि विदुषां नितरामनिष्टम् ॥३३॥ मोक्षो ह्ययं गुरुषु यो बहुमानभावो मुक्तेरवन्ध्यमयमस्ति यतो निमित्तम् । अस्मात् परेण गुरुणा परमात्मना वै योगो भवेत्तदनु सिद्धिरसंशयं यत् ॥३४॥ A . उच्चैः शुभोदयमयः प्रवरानुबन्धी संसाररोगशमनो बहुमान एषः । 3. नाऽस्त्येव सुन्दरतरं किमपीह तरमाR AN नैवोपमा जगति काऽपि किलाऽस्य दृष्टा ॥३५॥ " ३२ Page #46 -------------------------------------------------------------------------- ________________ प्रज्ञेदृशी भवति तस्य विवेकयोगाद् भावोऽपि तस्य खलु साहजिक स्तथैव । स्यात्तादृशी परिणतिर्गुरुमन्तरेण मार्गात् परिच्यवति नैव ततोऽयमिष्टात् ॥३६॥ लेश्याऽपि वृद्धिमुपयाति हि तेजसोऽस्य" प्रोक्तं यथा किल महामुनिनाऽऽगमेषु । 'अत्येति वै मुनिरिहाऽखिलदेवतेजो लेश्यां तु वत्सरमितश्रमणत्वकाले' ॥३७॥ संप्राप्नुवन् क्रमिकशुक्लतरस्थितिं च शुक्लाभिजातिरयमत्र भवेन्मुनीन्द्रः । प्रायो भवन्त्यशुभकर्मरसानुबन्धाः क्षीणास्तथा आयमुपैति हि लोक संज्ञा ॥३८॥ त्यक्तानुकूलगमनः प्रतिकूलगामी योगीति नाम लभते श्रमणाहयोगैः । श्रामण्यमेष भजते तु यथाप्रतिज्ञं सर्वोपधाविरहितं विधिभावसारम् ॥३९॥ एवं लभेत भवमन्त्यभवस्य हेतुं रूपादिकं विलसिते करणं यथा स्यात् । भोगक्रिया भवति पूर्णपदा किलैतैर्यत्साधनान्यविकलानि हि साधकानि ॥४०॥ भोगक्रिया सकलसाधनसंभूता स्यार दन्योपतापरहिता सशुभानुबन्धा । संक्लेशदोषविगमात्प्रवरा मता सा तत्तत्त्वखण्डनवशादितरा न पूर्णा ॥४१॥ GRX Page #47 -------------------------------------------------------------------------- ________________ - एवं हि सुन्दरभवादिकमाप्यतेऽत्र मोक्षार्थसाधकमनेन शुभानुबन्धम् । जानाति सर्वमिदमेष विशुद्धचेता ज्ञानं प्रयोजकमिदं किल कथ्यतेऽत्र ॥४२॥ ज्ञाने सतीह किल संभवति प्रवृत्तिः सद्धर्मसाधनविधावुचिताधिकारा । भावः प्रवर्तक इहाऽस्ति न मोहभावः प्रायोऽत्र विघ्नविरहः सदुपाययोगात् ॥४३॥ यत्कर्मणामपगता अशुभानुबन्धा यत्स्वीकृताश्विरसुभावितधर्मयोगाः । तस्मात् प्रवर्तत इहाधिकृते स सम्यङ् निष्पादयत्ययमनाकुल इष्टसाध्यम् ॥४४॥ एवं क्रियाऽस्य सकला खलु निष्कलङ्का स्यात्साधिकालमकलङ्कपदोपलब्धेः । सर्वानुबन्धरचनाऽपि सदा शुभा स्या दुच्चोच्वशुद्धतरयोगविधानसिद्ध्या ॥४५॥ अर्थं परात्पमयं च ततः प्रकारैस्तैस्तैस्तु साधयति तत्कुशलः प्रकामम् । संस्थापयत्यपरहृत्सु च धर्मबीजबीजानि मोदनमुखानि महोदयोऽसौ ॥४६॥ A .. सत्कर्तृवीर्यसहितश्च समन्तभद्राVASTRate कारो ह्यवन्ध्यशुभचेष्ट उदारचेताः । 2. हेतुः प्र: प्रणिधिमुख्यशुभाशयानां PUR दीपश्च मोहतिमिरे प्रसरत्प्रकाशः ॥४७॥ ३४ Page #48 -------------------------------------------------------------------------- ________________ रागामयप्रशमने वरवैद्यरूपो द्वेषानलप्रशमने जलधिस्वरूपः । संवेगसिद्धिकर एष भवेदचिन्त्य - चिन्तामणिः सकलजन्तुसुखावहत्वात् ॥४८॥ एवं परार्थवरसाधक एष बाढ नैकेषु जन्मसु कृतप्रतिसेवनातः । संक्षीयमाणकलुषो विकसच्छुभांशः प्राप्नोति जन्म चरमं चरमाप्तिहेतु ॥ ४९ ॥ तस्मिन् भवे त्वविकलस्वपरार्थहेतौ संपाद्य सर्वकरणीयमपास्तकर्मा । सिद्धिं विमुक्तिमथ निर्वृतिमेष याति निःशेषदुःखनिचयस्य करोति चाऽन्तम् ॥५०॥ जैनमन्दिरम् नानीखाखरग्रामः । ३५ कच्छ- गुजरातराज्यम् पीन कोड: ३७०४३५ सैव भूमिस्तदेवाऽम्भः पश्य पात्रविशेषतः । आम्रो मधुरतामेति तिक्ततां निम्बपादपः । (याज्ञवल्क्यस्मृति-पूर्वभागः) Page #49 -------------------------------------------------------------------------- ________________ पाया व्याथितम् विष्णोः पदारविन्दात् परमपवित्रादहं विनिर्गत्य । सम्प्राप्ता सुविशालं शिवस्य पूतं जटाजूटम् विष्णुपदीत्याहुर्मां सुप्रथितां देवनिम्नगेत्याहुः । भूलोकञ्च प्राप्तां बहवो भागीरथीत्याहुः आहिमभूधरशिखरा-दासिन्धोर्भारतस्य भूभागम् । सुबहोः कालात् सन्ततमेषा गङ्गा पुनानाsस्मि वर्षेभ्यो नैकेभ्यो नगराणां तीरवर्तिनां हन्त । रथ्योदकानि नित्यं मय्यतिमलिनानि निपतन्ति मम तीरेषु शवानां शताधिकानां प्रवर्त्यते दाहः । प्रायोर्धदग्धदेहा मदप्सु नित्यं प्रवाह्यन्ते जगन्नाथपाठकः सकलाया वसुधाया सौभाग्यमिति स्तुताऽस्मि कविभिरहम् । मम दर्शनालभन्ते मुक्ति मितो मानवा बहवः કો आसीन्मयि यत्किञ्चित् पूतीकरणक्षमत्वमिह लोके । तदपि समन्तादधुना क्षरतीति तु मामकोऽनुभवः ३६ n રો મો ॥५॥ ॥७॥ Page #50 -------------------------------------------------------------------------- ________________ आर्ता मत्तीरागता नित्यं मामाहवयन्ति विनिपत्य । मामकमार्तत्वमितो न कोऽपि हन्ताऽनुभवतीह રોટો दयनीयां स्थितिमेषा यैरहमेतावतीमिह प्राप्ता । ते मयि सम्प्रति केचन न सातुं हन्त चेष्टन्ते ॥९॥ मयि न हिमाद्रेर्निर्मलजलप्रवाहोऽपि दृश्यते नूनम् । ग्रीष्मेषु काचिदेषा भवाम्यहं काकपेयेव ॥१०॥ याऽहं स्वर्गस्य कृतेऽभवमिह निःश्रेणिरात्मना जगतिः । साऽहमिदानीं स्वजनैर्भग्ना तिष्ठामि शोचन्ती ॥११॥ शुध्यन्ति रम पुरा ये क्षणमप्यवगाहनेन हन्त मयि । अपि सम्प्रति ते विकला मद्विषये सन्ति तिष्ठन्तः ૨૨ मातर्धरित्रि मामपि विधेहि सीतामिवाऽऽत्मनोऽङ्कगताम् । मदवस्था दयनीयां पश्यन्ती दूयसे न कथम् Rારૂ अस्तित्वमेव मामकमतीव सन्धिग्धमेषु दिवसेषु । भीष्मः स मामकीनस्तनयः स्याद् भूय उत्पन्नः ॥१४॥ वस्तुत इतः प्रवाहो मम गङ्गाया न दृश्यते क्वचन । प्रवहन्ति यान्ति तानि तु जलानि मन्नेत्रजातानि કો ३७ Page #51 -------------------------------------------------------------------------- ________________ ઉદ્દો सरितां पतिर्न साम्प्रतमुपस्थितां परिचिनोति गङ्गां माम् । कम्प्रति सम्प्रति दुःखं निवेदयेयं स्वहृदयस्थम् लोकादस्मालोकाः सरस्वती मन्वते विलीनेति । मामपि विलीयमानामवेक्षितार: समे नचिरात् गङ्गा कदाचिदासीत् प्रवहन्ती भारतस्य मेदिन्याम् । मन्ये लोकेऽस्मिन् मां ज्ञातारः केचिदितिहासात् ૧૮ कृष्णद्वैपायन इव विरौम्यहं नित्यमूर्ध्वबाहुरिह । कश्चन जनो मदीयामातिँ विनिवारयेदेत्य । जगदेतन्मम कार्य बधिरीभूतं नु जातमेतर्हि । भारतमपि मद्विषये न सानुकम्पं वीवर्ति ૨૦ भगवन् विष्णो ! मां लघु विधेहि निजपादयोः पुनर्लीनाम् । अथवा भगवशम्भो विनिवेशय मां जटाजूटे - नाऽहं सम्प्रति गङ्गा न च त्रिपथगेति हन्त सम्बोध्या ।। नूनं काचिदिदानीमवद्धा निम्नगाऽस्मीति ૨૨ केवलमहमेवाऽऽर्ता नाऽस्मि परं मामकी सखी यमुना । नित्यं रुदिवः साम्प्रतमुभे प्रयागाङ्गणे मिलिते રરૂ | या सुप्रवृत्तिः प्रथमं प्रवृत्ता पाश्चात्यपापैर्नहि हन्यते सा । । ! शवास्थिकूटैः सततं भूत पि भागीरथी पुण्यतमैव लोके ।। ! For Private P ersonal Use Only Page #52 -------------------------------------------------------------------------- ________________ E गुरुवे नमः ।। वासुदेव वि. पाठकः 'वागर्थ' करुणाकरं शान्तिप्रदं पापादिहं जन-शं-करम् । सद्बुद्धिदं श्रेयस्कर मस्मद्गुरुं प्रणतोऽस्म्यहम् ॥१॥ अस्मद्गुरुं त्रिजगद्गुरुं विज्ञानदं संज्ञानदम् । भक्त्या यदेवाउपेक्षितं तत् सर्वदं प्रणतोऽस्म्यहम् ॥२॥ प्रणवात्मकं परमात्मकं ब्रह्मेन्द्रविष्णुशिवात्मकम् । प्रणतोऽस्म्यहं विश्वात्मकं परमं शरण्यं सद्गुरुम् ॥३॥ गुरोस्सत्प्रसादात् शिवा सन्मतिस्स्यात् । शिवे सद्गतिस्स्यात् सदोर्ध्वं गतिस्स्यात् । कृते सद्भावसम्माने आशीर्वादैरुपकूताः । सह-प्रसादलब्ध्यर्थं प्रीत्या वः प्रार्थयामहे ॥५॥ Page #53 -------------------------------------------------------------------------- ________________ कृपया सर्वदानन्दः कृपया सर्वथा सुखम् । कृपया भद्रताऽवाप्तिं कृपया जीवनं वरम् ॥६॥ स्यादरमाकं विना विघ्नं यात्रा पुण्यप्रदायिनी । पितरो देशिका देवाः शिवं सत्यं दिशन्तु नः ॥७॥ शक्तिं निर्व्याजसेवार्थं सद्भक्तिं त्वत्पदे विभो ! । आसक्तिं च पार्थाय देहि परमवत्सल ! ॥८॥ सर्वं ददासि देवेश !, अतो याचे कृपां कुरु । अनासक्त्यां सदासक्तिं भगवत्पददायिनीम् ॥९॥ सद्गुरो ! पादपद्मे ते कृता नतिततिर । कृपया देशिक स्वामिन्, पुनात्वरमान्प्रसादतः ॥१०॥ ३५४, सरस्वतीनगर, आंबावाडी अहमदाबाद-३८००१५ मनीषिणः सन्ति न ते हितैषिणः हितैषिणः सन्ति न ते मनीषिणः । सुहृच्च विद्वानपि दुर्लभो नृणां यथौषधं स्वादु हितं च दुर्लभम् ।। ४० Page #54 -------------------------------------------------------------------------- ________________ (भारतमातुरतत सम्मानम्) वासुदेव वि. पाठकः 'वागर्थ सेवाकार्ये सदा संस्कृतं मुदा मुदा सन्मङ्गलगानम् । चित्ते चित्ते संस्कृतितानं भारतमातुस्तत् सम्मानम् ॥ सर्वेषां कल्याणचिन्तका ऋषयो मुनयो मार्गदर्शकाः । धन्यमिदं मन्ये वरदानं भारतमातुरतत् सम्मानम् ॥ नीतिमयत्वं प्रीतिमयत्वं कर्मणि कर्मणि धर्ममयत्वम् । सर्वसुखार्थं घरमद्यायं भारतमातुस्तत् सम्मानम् ॥ एक एव सर्वेषां तातः संसारे बान्धव-संघातः । बन्धु-बन्धनेऽस्माकं ध्यानम् भारतमातुस्तत् सम्मानम् ॥ विश्व-विषाद-विदारणवृत्तिभद्राचरणार्थं सद्बुद्धिः । प्रार्थयामहे प्रमात्मानं भारतमातुस्तत् सम्मानम् ॥ Page #55 -------------------------------------------------------------------------- ________________ "" राष्ट्र-रक्षा वासुदेव वि. पाठकः 'वागर्थ' ' कार्या संस्कृत-संस्कृतिरक्षा, तथैवोज्ज्वला राष्ट्र-सुरक्षा ॥ संस्कृतिरेषा संस्कृताधृता ऋषिभिर्मनीषिभिरलता; अस्यास्सर्वोत्कृष्टा कक्षा, कार्या संस्कृत.... ॥ सकले विश्वे भारतीयता उत्कर्षार्थं वराऽधिकृता; सर्वेषां कल्याणे दक्षा, कार्या संस्कृत..... ॥ भारतेऽस्ति शास्त्राणामृद्धिः, संस्काराणामतिसमृद्धिः; स्याम च सर्वहितार्थं दक्षाः, कार्या संस्कृत..... ॥ किं करिष्यति पाण्डित्यमपात्रे प्रतिपादितम् । सपिधानघटान्तःस्थः प्रदीप इव वेश्मनि ।। (जैनपञ्चतन्त्रे) ४२ For Private Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ आस्वादः चिन्तनधारा मुनिरत्नकीर्तिविजयः - रमयन्ति मनः तावद्, भावाः संसारसम्भवाः । यावन्न श्रूयते साश्रु - लोकफुत्कारकाहलः ॥ __ श्रीमदुमास्वातिभगवद्विरचिते श्रीतत्त्वार्थसूत्रे सूत्रमेकमस्ति - "जगत्कायस्वभावौ च संवेगवैराग्यार्थम्" इति । जगतः स्वभावश्चित्ते संवेगं - मोक्षाभिलाषं जनयति, कायस्य स्वभावश्च वैराग्यमुत्पादयति । जगति विद्यमानस्य सर्वस्याऽपि वस्तुनः स्वकीयं किञ्चित् * स्वरूपं यथा. विद्यते तथा तस्य स्वकीयः स्वभावोऽपि कश्चिद् विद्यते । स्वरूपानुगुणः । 3 स्वभावः स्वभावानुगुणं च स्वरूपं न सर्वत्र सर्वदोपलभ्यते । क्वचिदेव स्वरूपस्वभावयोर्मध्ये 1 समानता परिदृश्यते । यो नाम तयोर्भेदं परिलक्षितुं शक्नोति तस्य मतिः स्वरूपदर्शनमात्रेणैव 15 न कदापि मुह्यति । वस्तुनः स्वभावस्य स्पष्टो बोधः स्वरूपानुरागं त्याजयति । र स्वरूपमिन्द्रियैर्ज्ञायते स्वभावबोधश्चाऽनुभवेन तत्त्वदृष्ट्या च जायते । तत्त्वदृष्ट्या हीनो जनः ( स्वरूपानुरागाद् विमुह्यति । स्वरूपमेव स पश्यति, तदेव सततं भावयति, तदनुलक्ष्यैव च । ( विचारयति न किन्तु स्वहितं चिन्तयति । स्वकीयां रुचिमरुचिं स विचारयति किन्तु स्वकीयं A) शारीरिकं मानसिकं वा स्वास्थ्यमुपेक्षते । परं तु तत्त्वदृष्टिरेवाऽस्माकमार्यत्वस्य परिचयोऽस्ति । ( याऽद्याऽस्माभिविनाशिता किल । केवलं बाह्यदृष्टिप्रधान एव व्यवहारः सर्वत्र दरीदृश्यते । कि र तेन जायमानान्यनिष्टान्यपि नित्यमनुभवाम एव । एवं सत्यपि यद् वयं न जागृता र ॐ भवामस्तन्मोहविजृम्भितमेव । __ श्लोकेऽस्मिन् न कोऽपि विशेषोऽस्ति । किन्तु कथनरीतिरत्र विलक्षणाऽस्ति । अत्र ॐ मनुष्यस्य मोहो यथा दर्शितोऽस्ति तथा तन्मुक्त्युपायश्चाऽपि दर्शितोऽस्ति । आद्यचरणद्वयेटर 15 मोहो दर्शितोऽस्ति, शेषचरणद्वये च तन्मुक्त्युपायः । आवश्यकता तु सर्वेषामपि विद्यते एव । तदनुसृत्य च प्राप्तेरधिकारोऽपि सर्वेषामस्त्येव 58 15 किल । किन्तु सैवाऽऽवश्यकता यदा मर्यादामुल्लद्ध्याऽऽसक्तिरूपा जायते तदा यद् घटते 15 ( स एव संसारो नाम यस्याऽसारतां महापुरुषाः सततं प्रतिपादयन्ति । अन्यथा संसारेऽसारत्वं कर ( किमन्यदस्ति ? परिवर्तनं तु तस्य स्वभावोऽस्ति । किन्तु साक्षात् सततं च तस्य परिवर्तनं । ४३ Page #57 -------------------------------------------------------------------------- ________________ क्षणिकत्वं वाऽनुभवन्नपि यत्तत्राऽऽसक्तो भवति मनुष्यस्तदेवाऽसारत्वं नाम तत्र । आसक्तिरेव र मोहः । 'रमयन्ति मनः' इत्यनेन पदेनैतादृशीमासक्तिं सूचयति कविः, तथा तदुपायं है - विवेकदृष्टिं च सूचयति 'श्रूयते' इति पदेन । अर्थगाम्भीर्यं विद्यतेऽस्मिन् 'श्रूयते' इति पदे। ॐ श्रवणमपि कलैव । अत्र श्रवणेन शब्दग्रहणं हि केवलं न सूचितमस्ति किन्तु तत्त्वग्रहणं ॐ सूचितमस्ति । तदेव च वास्तवं श्रवणं नाम । यस्य संवेदनं तीव्र स सर्वं सूक्ष्ममपि ग्रहीतुं 957 र शक्नोति । रुदनं न सर्वदा प्रकटमेव भवति, बहुशो हास्येऽप्यन्तर्हितं भवति । तादृशमन्तर्हितमपि का SEरुदनं यः श्रोतुं प्रभवति स एव शृणोति । तादृशो जागरूको विवेकी च जन एवर (2 मोहविडम्बनाद् मुक्तो भवति । शास्त्रेष्वितिहासे वा श्रूयतेऽपि यद् लघूनि (अस्मादृशां कृते लघूनि) अपि यथाA शिरसि श्वेतकुन्तलं दृष्ट्वा तं च यमदूतं मत्वा, पुष्पपत्रफलादिपल्लवितमपि वृक्षं कदाचिद कि नीरसं दृष्ट्वा, सन्ध्यासमये गगने विविधरागयुक्तं मेघाडम्बरं क्षणेनैव विलुप्तं दृष्ट्वा, TS कस्यचिद् वार्धक्यं दृष्ट्वा वा-इत्यादिनिमित्तानि सम्प्राप्य स्वकीयानि राज्यादिसुखान्यपि तथैव क्षणविनश्वराणि गजकर्णवच्चञ्चलानि सारविहीनानि च विभाव्य नृपादिमहाजनैर्वान प्रस्थमङ्गीकृतमासीत् । यद्यप्येतादृशानि निमित्तसहस्राणि वयं नित्यं प्राप्नुम एव किन्तु है नाऽस्त्यस्माकं तादृशी सूक्ष्मा संवेदना येनैतावन्मात्रेण वयं जागृता भवेम । किन्तु, इतोऽप्यधिकं भयावहां व्यथाजननी च स्थितिं वयमन्यत्र घटमानां शृणुमः पश्यामश्चाऽपि, नैतावदेवाऽपि तु बहुशो वयं तादृशी स्थिति सम्मुखामपि कुर्म एव येनाऽस्माकं हृदयं विवेकस्य वैराग्यस्य र च प्रकाशेन प्रकाशितं स्यात् । विनश्यन् सन्ध्यारागोऽपि यदि वैराग्यमुत्पादयितुमलं तर्हि र भूकम्पाद्याघातेन चक्षुःपुरत एव हतप्रहतो जायमानः स्वसंसारः किं चित्तं वैराग्यप्लावितं न कर्तुमलम् ? कस्यचिद् वृद्धत्वमपि वैराग्यमुद्बोधयति चेत् स्वजनानां समग्रपरिवारजनानां च मृतशरीराणि दृष्टिसमक्षं स्थितान्यपि किं वैराग्यमुद्बोधयितुं नाऽलम् ? अतिवृष्टि-जलप्रलयादिना निर्जनप्राया जाता ग्रामा अपि किं हृदयं प्लावयितुं न प्रभवेयुः? किमस्माकं मोहस्तादृशः प्रबलः ? किं संवेदनशून्या वयम् ? बहु विचारणीयमेतद् ! वानप्रस्थं कदाचिद् वयं न स्वीकुर्याम, नाऽस्त्यापत्तिः काऽपि तत्र । किन्तु घटितं दृष्ट्वाऽनुभूय वा वयं यद्यनासक्तियोगमपि साध्नुयाम, अन्तःसत्त्वं वा स्वकीयं प्रकटेम तदाऽपि वरमलं वा स्यात् । एवमेव च र बहवोऽप्यद्यतनाः प्रश्ना उत्तरिताः स्युः । अनासक्तिरेव संसारस्थानां प्रसन्नताबीजम् । हर तदेवाऽत्र दर्शितमपि । ४४ Page #58 -------------------------------------------------------------------------- ________________ आस्वाद ॥ मृत्युः ॥ नन्दपुरम् यो जायते तस्य मृत्युरवश्यं भवत्येव, नास्ति तत्र संदेहलेशः । प्रक्रियैषाऽ प्रचलति । यथोक्तं गीतायामपि डॉ. महेश्वरः रमानाथ: द्विवेदी ३६११३० " जातस्य हि ध्रुवो मृत्युः " अयं हि नियमः प्रकृतेः । जन्मनो बहुकालपूर्वमपि वयं नाऽऽसम् मृत्योः पश्चाद् बहुकालपर्यन्तमपि वयं न भविष्यामः, मध्ये यद् जीवितं वर्तते, तत्रैवाऽस्माकं स्थितिः । एषा स्थितिस्तु महाकालपरिमाणसापेक्षं सूक्ष्मकालिक्येव । महाकालस्यैकदेशो जीवनकाल:, यदि जीवनकालसापेक्षं चिन्तयामस्तर्हि जीवनेऽवस्थाद्वयं भवति । आतुरावस्था, अनातुरावस्था च । तत्र आतुरावस्था समग्रजीवने न भवति, क्वचिदेवाऽऽतुरावस्थाऽऽयाति, जीवनस्य दीर्घकालस्त्वनातुरत्वेनैव यापितो भवति । तत्राऽऽतुरावस्था या सूक्ष्मकालिकी, सा विकृति: ( abnormal), यथा महाकालसापेक्षं जीवनम् । अनातुरावस्था प्रकृति: ( normal), यथा महाकालसापेक्षं जीवनं विहायाऽन्यः कालः । विकृति:-आतुरावस्था सदैव दुःखप्रदा भवति । प्रकृतिस्तु शान्तिप्रदैव । विकृतितः प्रकृति प्रति गमनं सदैव सौख्यप्रदम् । यदा यदा मनुष्य आतुरत्वादनातुरत्वं - स्वास्थ्यं प्राप्नोति तदा तदा कीदृश आनन्दो भवति ! मृत्युः सा एव घटना, तत्राऽपि विकृतितः - जीवनतः प्रकृति प्रति लयं प्रति गमनम् । तत् कथं कष्टप्रदं भवितुमर्हति ? नैव, सौख्यप्रदमेव भवतीत्यनुमीयते । -- मृत्योर्भयाद् मोचयति तदेव ज्ञानम् । यथोक्तं कालिदासेनाऽपि - "मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः " केनाऽपि हिन्दीकविनाऽप्युक्तम् - [ऽनन्तकालात् ४५ Page #59 -------------------------------------------------------------------------- ________________ जाते नहीं है, कोई दुनियासे दूर चलके मिलते सभी यहीं है, कपड़े बदल-बदलके । आदमी सोया जमीं पर, लोग कहते मर गया वो बेचारा था सफरमें, आज अपने घर गया । न कोऽपि गच्छति दूरं जगतः । सर्वेऽत्रैव मिलन्ति गृहीत्वा नवानि वासांसि । यदा मनुष्यश्चिरनिद्रां प्राप्नोति, सर्वे वदन्ति 'अम्रियत' इति । स तु प्रवासे आसीत्, अद्य स्वगृहमगच्छत् । प्रवासतो गृहं प्रति गमनमपि सौख्यप्रदमेव । प्रवासे नानाविधानि कष्टानि सोढव्यानि भवन्ति । गृहे तु सुखमेव । अत एव कथितं सुभाषितकारेण यत्- 'सुखमप्रवासगमनम्' । ईदृशं मरणं, विकृतितः प्रकृतिं प्रति प्रवासतः गृहं प्रति गमनमिव प्रतिभाति । अतो मृत्योर्भयं विहाय जीवनयापनमेव वरम् । नवे वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ? ।। (श्रीमद्भागवते ९/९/२९) ४६ Page #60 -------------------------------------------------------------------------- ________________ पत्रम् 5 55555 55 55 55 55 नमो नमः श्रीगुरुनेमिसूरये ॥ मुनिधर्मकीर्तिविजयः आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । सगुरुभगवन्तः सर्वेऽपि कुशलाः सन्ति । तव स्वास्थ्यमनुकूलं स्यादिति कामये। बन्धो ! कियत्कालाद् मम श्रुतिपथे 'विकास' इति शब्दः पुनः पुनरटाट्यते । अद्य बालकादारभ्य राजनेतृपर्यन्तं सर्वेषां मुखाद् 'विकासः विकास' इति शब्दः शोश्रूयते । आस्तां संसारिजनाः, संसारत्यागिनः साधवोऽपि 'विकास'शब्दे मुह्यन्ति । अद्य राजसिंहासनस्थितैः सज्जनैः (?) धनोन्मत्त श्रेष्ठिभिः, उपदेशदानरतसाधुजनैश्च पदप्रतिष्ठार्थं स्वनामार्थं च यत् प्रपञ्चादिकं क्रियते तन्निरीक्ष्य 'जीवनस्य सार्थक्यं किम् ? किं च सारः? किं च विकासः? इति प्रश्ना मां निरन्तरं पीडयन्ति । 'जीवनविकास' विषये प्रतिव्यक्ति भिन्न भिन्न मतं प्रदर्श्यते । d) तत्र मुख्यतो द्वे मते स्तः । केचिज्जना 'भौतिकदृष्ट्या जायमानो यो बाह्यलाभः प्रतिष्ठाप्राप्तिश्चैव 16 विकास' इति मन्यन्ते । केचिज्जनास्तु ‘आत्मदृष्ट्या गुणप्रकटनं प्रसिद्धिमोहं विना स्वपरहितकरणं चैव विकास' इति कथयन्ति । अत्र स्वस्वदृष्ट्या तु पक्षद्वयमपि सत्यमस्ति । तथाऽपि वस्तुत: (O "किं नाम विकास' इति चिन्तनीयम्। बन्धो ! जीवनस्य सार्थक्यं साफल्यं चाऽऽत्मिकविकासस्योपर्येवाऽवलम्बते । बाह्यविकासः कियानपि स्यात् किन्तु यद्याभ्यन्तरगुणविकासो नास्ति तर्हि निश्चितं ज्ञेयं यज्जीवनं निष्फलं निरर्थकं चाऽस्ति । कदाचिन्महती प्रतिष्ठा सत्ता विद्वत्ता तथा बहुधनमप्यवाप्यते, एवं जगति प्रभूतोऽपि बाह्यलाभः प्राप्येत, किन्तु यदि जीवने औदार्याद्यात्मिकगुणानामुद्घाटनं विकासश्च न स्यात् तर्हि तया प्रतिष्ठया सत्तया विद्वत्तया च को लाभः ? यदि किञ्चित्पठनेनैव ज्ञानी, किञ्चिद्धनलाभेनैव धनिकः, स्वमतिकल्पनया किञ्चित्सत्कार्यकरणेनैव वा कश्चित् प्रतिष्ठितः कुलीनो वा यधुपलक्ष्येत तर्हि खलीनपर्याणा(Saddle)दिपरिधानमात्रेण गर्दभोऽप्यश्वराजो ऽभिधीयेत तर्हि तस्य पूजनेऽपि का बाधा? अतो बाह्यविकासमात्रेण मनुष्यस्य न शोभा, न च क) तेन शुद्धसत्त्वस्य प्रकटनमपि भवति, किन्त्वात्मिकविकासेनैव तस्य शोभा तथा शुद्धगुणा- (O ४७ Page #61 -------------------------------------------------------------------------- ________________ CCC 55555 55 5 55 55 5 ༨ ༨ ༨ नामाविष्करणं भवति; अर्थात् शुद्धगुणानामाविष्करणमेव 'विकास' इत्युच्यते। स्थूलदृष्टिवद्भिरस्माभिः केवलं बाह्यविकासे एव जीवनस्य सार्थक्यं साफल्यं चेति O) निर्णीतम् । वयं कियत्सु तुच्छवस्तुषु 'जीवनं सफलमि'ति मन्यामहे, तच्चिन्त्यमस्ति। - यथा- "दान (Donation) रूपेण लक्षरूप्यकं धनं दत्त्वाऽपि यदि नगरस्य 16 प्रसिद्धशालायां बालकस्य प्रवेशो निश्चितः स्यात्, परीक्षायां बालकः प्रथमस्थानं प्राप्नुयात्, विविधस्पर्धासु बालकोऽग्रेसरो भवेत्, यौवने प्रतिष्ठितसंस्थायामुच्चपदे नियुक्तिः स्यात्, गुणशून्ययाऽपि रूपवत्या धनिककन्यया सह विवाहो जायेत, समाजे प्रतिष्ठा प्रशंसा प्रभावश्च प्रसरेयुः, वार्धक्ये पुत्रा आज्ञानुसारिणः स्युः, इत्येतैर्जीवनं सफलं सार्थक्यं चे''ति मन्यतेऽस्माभिः । एवं यथा यथा बाह्यविकासस्य प्रामाण्यमधिकं तथा तथा तस्य जीवनस्य साफल्यमपि सुन्दरमधिकं चेति जनप्रवादो प्रवर्तते । अतिदुःखदा घटना त्वेषाऽस्ति यत्, साफल्यस्य विकासस्य चैषैव विभावना यथा संसारिजनेषु तथैव साधुजनेष्वपि दृश्यते मन्यते च। तत एव "यदि प्रवचने सहस्राधिका जना आगच्छेयुः, पञ्चानां दशानां वा शिष्याणां गुरुपदं प्राप्नुयात्, सदुपदेशेन बहवो महोत्सवा जायेरन्, वन्दनार्थं धनिकश्रेष्ठिनो राजनेतारश्चाऽऽगच्छेयुः, भवेन्नाम स साधुरात्मिकदृष्ट्या निकृष्टः स्यात्, तच्चित्तं महत्त्वाकाङ्क्षा-अहङ्कारादिदुर्गुणोपेतं स्यात्, किन्तु लोके तु प्रशंसा स्याद् यद्, अस्य विकासोऽतीव सुन्दरोऽस्ति, एष ज्ञानी महान् व्याख्याता प्रभावकश्चेति, तदा जीवनं सफल''मिति मन्ये । मयैकः साधुर्दृष्टः । तच्चित्ते एकैव महेच्छाऽऽसीद् यद्, अहममुकं ग्रन्थं पठेयम्, अमुकं ग्रन्थमधीयीय, एवं नैकान् ग्रन्थान् पठेयम्, येन जनेषु 'एष ज्ञानी महाज्ञानी चेति प्रशंसा स्यात्, समाजस्थितेषु ज्ञानिसाधुषु ममाऽपि गणना स्यात्, तर्हि मे जीवनं सफलमिति । पश्य, अत्र ज्ञानोपार्जनस्येच्छा सुन्दरा, किन्तु तस्य आशयस्तु न समीचीनोऽस्ति । तदेव ज्ञानं, तदेव पठितं सफलं येन दुर्गुणानां हानिः स्यात्, अन्यथा शास्त्रमपि शस्त्रं भवेत् । अद्य पठितैविद्वज्जनैरेव शास्त्रस्य व्याजेन समाजे धर्मस्थानेषु च विवादः क्लेशश्चोत्पादितः । शास्त्रस्य व्याजेन ते स्वाभीष्टं पूरयन्ति । एतैरेवैकान्ते आसेव्यमाना पापलीला यदा यदा ज्ञायते दृश्यते च तदा मनसि प्रश्न उद्भवति यत्, किं ज्ञानस्य फलमेतदेव? किं एष एव ज्ञानविकासः ? न, न, ज्ञानविकासस्त्वेष एव येन स्वपरचित्तेषु समाधिः संजायेत । सा बाह्यविकासेन न भवति । तथाऽप्यधुना बाह्यविकास एवाऽस्माभिर्दृश्यते। ४८ Page #62 -------------------------------------------------------------------------- ________________ बन्धो ! वस्तुतो विकासस्य विभावनैव परिवर्तिता । ज्ञानी ध्यानी प्रभावकः प्रवक्ताऽधिकारी कोट्यधिपतिः सन्नपि यद्यसंस्कारी स्यात्तर्हि आत्मिकदृष्ट्या तस्य विकास एव नास्ति किन्तु स विकासाभासोऽस्ति इति निःशङ्कं ज्ञेयम् । महावीरो बुद्धो रामः कृष्णश्चैवं ये ये महापुरुषा जाता:, तेषां पश्चाद्भूर्निरीक्ष्यते तर्हि ज्ञायते यद्, एतैरात्मिकविकासार्थं किं किं न कृतम् । ते राजपुत्रा आसन् अतस्ते न पूजिता जनैः किन्त्वतीव तीव्रं तपः तप्तम्, ध्यानं धृतम्, परोपकारः कृतः, एवं चाऽऽत्मिकगुणानां विकासः कृतः तत एव च ते पूजिता जनै: । अतो विकासस्य मूल्याङ्कनं न बाह्यसंपत्त्या, अपि त्वान्तरिकसंपदैव क्रियते । यावत्यात्मिकसंपत्तिरधिका तावान् विकासोऽपि विशेष एव । वस्तुतश्चित्तस्थितानां सारल्यौदार्य-निरभिमानता-करुणानिर्दम्भतादीनां गुणानामुद्बोधनमेव विकासः । 1 अद्य वयं सर्वे सर्वेषु क्षेत्रेषु विकासार्थमुन्मत्ता इव धावामः । अद्य विविधान्यद्यतनसाधनानि नित्यशो निष्पद्यन्ते । यैरत्रस्थितैरस्माभिर्विश्वस्मिन् विश्वे यत्किमपि घटेत तत् सर्वं ज्ञायते श्रूयते च । ततोऽप्यधिकमाश्चर्यकरं त्वेतद् यदन्यत्रैकस्मिन् कोणे यस्मिन् क्षणे यद् भवति तत्क्षणे एव तत् सर्वं वयं द्रष्टुं समर्था अपि भवामः । गणकयन्त्र (Computer) विषये तु किमपि वक्तव्यमेव नास्ति, यतस्तत्तु विदितमेवाऽस्ति । एवं बाह्यविकासदृष्ट्या बौद्धिकविकासदृष्ट्या च सर्वेषु क्षेत्रेष्वकल्पनीयसिद्धिः साधिताऽस्माभिः तत्तु निश्चितमस्ति किन्तु तेन सहैतदपि निश्चितमस्ति यद्, बाह्यविकासेन यावन्तो लाभा भवन्ति तावती ततोऽप्यधिका वा हानिर्भवति । दूरदर्शन (T.V.) दूरवाणी (Mobile) - आन्तरजाल (Internet) इत्यादिभिरद्यतनसाधनैः समाजे लोकमानसेच या विकृतिः प्रविष्टा सा त्वसह्याऽस्ति । अद्य 'लज्जा मर्यादा' इति शब्दस्य तु मूलमेवाऽस्तमिति प्रतिभाति । तत एवाऽद्य मर्यादामुल्लङ्घ्य जनसमक्षमेव दुराचरणं भवद् दृश्यते । चारित्र्यस्य तु दर्शनमेव दुर्लभमस्ति । यतः सर्वेऽपि जना बाह्यविकासार्थमेव प्रयतन्ते, किन्तु गुणविकासं प्रति त्वौदासीन्यमेवाऽऽसेवन्ते । यदि बाह्यसाधनानां विकासेन सह शुभानां दृष्टीनां विचाराणां कल्पनानां मनोवृत्तीनां चाऽपि विकासः स्यात्तर्हि एतान्येव साधनानि महदुपकारीणि (८) भवन्ति, अन्यथैतान्येव साधनानि विनाशकारीणि भवन्ति । अतो येन दुर्गुणानां वृद्धिर्गुणानां च हानिर्भवति स कथं 'विकास' इत्युच्यते । येन बाह्यविकासेन सहाऽऽत्मिकविकासो भवति स एव वस्तुतो विकास:, किन्त्वधुनाऽऽत्मदृष्ट्या तु वयमधोगतिमेव प्राप्तवन्तः । अन्यत्रवर्तिवस्तुदर्शनो वयं स्वचित्तस्थितान् दुर्गुणान् तु द्रष्टुमेव न शक्नुमः । आस्तां दुर्गुणदर्शनम्, 6 6 (6 ४९ Page #63 -------------------------------------------------------------------------- ________________ - किन्तु 'मयि दुर्गुणाः सन्ति' इत्यपि यदि भानं स्यात्तीप्यलम् । चित्तं तु बहुदुर्गुणभृतमस्ति। ।। केषाञ्चित् प्रशंसां श्रुत्वा स्वचित्ते ईर्ष्या जागर्ति, अन्येषामवहेलनं निन्दां च निशम्याऽऽनन्दो जायते । एवमन्येषां दुःखे एवाऽस्माभिः प्रसन्नताऽनुभूयते । स्वापराधे सत्यपि यदि कश्चित् किमपि कथयेत्तर्हि वयं तत् सोढुं न शक्नुमः, तत्क्षणमेव तस्य दुर्गुणान् दर्शयित्वा तेन सह विवादं कर्तुं सन्नद्धा भवामः । एवमनेके दुर्गुणाः सन्ति, किन्तु तान् ज्ञातुमात्मिकविकास एवाऽऽवश्यकः, न तु केवलं बाह्यविकासः । भो ! आत्मिकविकासदृष्ट्या तु वयं नितरां दरिद्राः स्मः । अद्य विदेशे राजकीयौद्योगिकादिषु सर्वेष्वपि क्षेत्रेषु महता वेगेन प्रतिपदं विकासो वृद्धिंगतो दृश्यते, किन्तु तत्र मानवीयानां मूल्यानां तु नितरां हासो दृश्यते । सर्वत्र विकासस्य विभावनायां व्यक्तिप्रभावो धनप्रभाव एव दृश्यते । “आर्थिकोत्पादनमद्यतनसाधनोत्पादनमेव विकास' इति भावनामुपेक्ष्य 'मानवीयानां मूल्यानां गुणानां च विकसनमिति विकास' एवमुदात्तदृष्ट्या विकासस्य विभावना चिन्तनीया । एषैव विभावनाऽऽर्यसंस्कृते रक्षणार्थं श्रेयस्कर्यस्ति। अन्ते, त्वमपि बाह्यविकासेन सहाऽऽत्मिकगुणानां विकासं कुरु, इत्याशासे । 6666666666666 CCCCCCCCCC यैतूलो भवति पुरतः कथ्यमानै जनानां कामप्यन्तर्विदधति रुजं येऽप्यनु वीर्यमाणाः । तेऽभिप्रायाः किमपि हृदये कण्ठलग्नाः स्फुरन्तो यस्याऽऽख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ।। (सुभाषितरत्नभाण्डबगारे) ૨ ૨ ૨ ૨ ૨ ૨ ૨ ५० Page #64 -------------------------------------------------------------------------- ________________ काव्यानुबादः प्रभो ! ऽहं प्रार्थये चैवम् गूर्जरमूलम् करो रक्षा विपदमांही, न एवी प्रार्थना मारी; विपदथी न डरुं को दी, प्रभु ! ए प्रार्थना मारी. मळो दुःख-तापथी शान्ति, न एवी प्रार्थना मारी; सहु दुःखो शकुं जीती, प्रभु ! ए प्रार्थना मारी. सहाये को' चडी आवो, न एवी प्रार्थना मारी; तूटो न आत्मबळ-दोरी, प्रभु ! ए प्रार्थना मारी. मने छल-हानिथी रक्षो, न एवी प्रार्थना मारी; डगुं न आत्मश्रद्धाथी, प्रभु ! ए प्रार्थना मारी. प्रभु तुं पार ऊतारे, न एवी प्रार्थना मारी; तरी जावा चहुं शक्ति, प्रभु ! ए प्रार्थना मारी. तुं ले शिरभार ऊपाडी, न एवी प्रार्थना मारी; उपाडी हुं शकुं रहेजे, प्रभु ए प्रार्थना मारी. सुखी दिने स्मरूं भावे, दु:खी अंधार रात्रिए; न शंका तुं-विशे आवे, प्रभु ! ए प्रार्थना मारी. (“प्रभु ! ए प्रार्थना मारी" AAJaase आश्रम भजनावलि) म ANYCla Page #65 -------------------------------------------------------------------------- ________________ काव्यानुवादः मुनिरत्नकीर्तिविजयः अनुवाद विपत्तौ रक्षणं कुर्यात्, प्रभो! ऽहं प्रार्थये नैवम् । परं न स्याद् भयं तत्र, प्रभो! ऽहं प्रार्थये चैवम् ॥१॥ भवेच्छान्तिर्नु दुःखाना, प्रभो! ऽहं प्रार्थये नैवम् । विसोढुं तानि शक्तः स्यां, प्रभो! ऽहं प्रार्थये चैवम् ॥२॥ सहायं कोऽपि मे कुर्यात्, प्रभो! ऽहं प्रार्थये नैवम् । न नश्येदात्मसामर्थ्य, प्रभो! ऽहं प्रार्थये चैवम् ॥३॥ छलाद् हानेश्च मामवतु, प्रभो! ऽहं प्रार्थये नैवम् । न मे श्रद्धा रखलेत् किन्तु, प्रभो! ऽहं प्रार्थये चैवम् ॥४॥ अहं नेयस्त्वया पारं, प्रभो! ऽहं प्रार्थये नैवम् । तरीतुं किन्तु शक्तः स्यां, प्रभो! ऽहं प्रार्थये चैवम् ॥५॥ मम स्वीकुरु शिरसि भारं, प्रभो! ऽहं प्रार्थये नैवम् । समर्थः स्यां तमुद्दो, प्रभो! ऽहं प्रार्थये चैवम् ॥६॥ सदा सौख्ये स्मरेयं त्वां, तथा दुःखान्धकारेऽपि । तवाऽस्तित्वे न शङ्का स्यात्, प्रभो! ऽहं प्रार्थये चैवम् ॥७॥ ५२ Page #66 -------------------------------------------------------------------------- ________________ ताट, हुमायास्य राणा अलावादः मू. ले. दादाधर्माधिकारी अनु. मुनिरत्नकीर्तिविजयः एकदा 'आदिवासी'जातीयानां ग्रामे वास: करणीय आसीदस्माभिः । यत्र च वासः करणीय आसीत् तत्रैक एवाऽपवरक आसीत् । वातायनमपि तत्र नाऽऽसीत् । तत्रैव चाऽपवरके तत्रत्यैर्भोजनमपि सज्जीक्रियते स्म । ततश्च समग्रमपि गृहं धूमेन व्याप्तमासीत् । कतिचन कुक्कुटा अपि तत्राऽऽसन् ये इतस्ततो भ्रमन्त आसन् । तत्रत्यैर्जनैर्विचारितं यत् तादृशि स्थाने मादृशस्य जनस्य शयनव्यवस्था योग्या नैव भवेत् । अतः समीप एवैक उटज आसीत् तत्र तैः खट्वा स्थापिता । ममाऽवमानस्योपहासस्य वाऽऽशयो गृहस्वामिनो नाऽऽसीदेव किन्तु तेन सरलया मनोवृत्त्या सक्षोभं कथितं यद् - "वयमत्र शूकरान् वासयामः । अस्माकं सविधेऽन्यत् स्थानमेव नाऽस्ति, अतोऽद्याऽस्माभिरेतत् स्थानं सम्यक् सम्मार्जितमस्ति" इति। __मयोक्तम् - 'भवतु, भवतु ! यत् सम्मार्जनकार्यं कृतं तच्छोभनमेव किल' इति । तदनुक्षणमेव मम मनसि विचार उद्गतो यदेष जनोऽत्र शूकरान् वासयति किन्त्वत्र द्वारं तु नास्त्येव । तर्हि यदि रात्रौ कश्चिदन्तः प्रविशेत् तदा किं करणीयमिति । एवं विचार्याऽहं पृष्टवान्- 'भोः ! किमत्र द्वारं नास्ति ?' 'अत्र द्वारस्याऽऽवश्यकतैव नास्ति' - स उवाच । 'किमर्थम् ? किं कोऽपि चौरो नाऽस्त्येवाऽत्र ? किं वा चौर्यं नैव भवत्यत्र ?' 'नैवम्, अत्र चौरा अपि सन्ति चौर्यमपि च भवति ।' 'तर्हि किमर्थं त्वद्गृहे द्वारं नास्ति ?' सोऽजल्पत् - 'क्वाऽस्माकं तादृशं भाग्यं (!) येन चौरा अस्मद्गृहमागच्छेयुः !' । सर्वथाऽशिक्षितस्य जनस्यैते शब्दा आसन् यद् नाऽस्त्यस्माकं तादृशं भाग्यमिति । wroom TNI Page #67 -------------------------------------------------------------------------- ________________ 'कथम् ? किमर्थमेतादृशि कार्ये भाग्यं पुरस्करोति ?' इति पृष्टे स उक्तवान् - 'अस्माकं सविधे एकमेव वस्त्वस्ति- तच्चाऽस्ति दारिद्यम् - तस्य चौर्ये को नामोत्सहेत ?' इति । अहमुक्तवान् - ‘एवं चेदारक्षकाणामपि भवत आवश्यकता नाऽस्ति खलु !' 'काऽऽवश्यकता तेषाम् ?' 'किं कदाऽप्यारक्षकास्त्वद्गृहे नैवाऽऽगच्छन्ति ?' 'नैवं सर्वथा, आगच्छन्त्यपि कदाचित् ।' 'कदाऽऽगच्छन्ति ?' 'भवादृशानां घटिकादिवस्तुनि विलुप्ते सति तच्छुद्ध्यर्थमस्मद्गृहमागच्छन्ति ते । .९ एवं च भवत ऐश्वर्यमस्माकं च दारिद्र्म्, उभयमपि ते रक्षन्ति' इति । सत्यमेव किलैतत् ! २ न्यान्यन्न्प्या यदि भवति समुद्रः सिन्धुतीयेन तृप्रो यदि कथमपि वह्निः काष्ठसाततश्च । अयमपि विषयेषु प्राणिवर्गस्तदा स्यादिति मनसि विदन्तो मा व्यधुस्नेषु यबम् ।। (सुभाषितरबसन्दोहे अमितगतिः) ५४ - Page #68 -------------------------------------------------------------------------- ________________ कथा कथायां बोध: आ. विजयशीलचन्द्रसूरिः ( १ ) भव्यं सञ्जातं, यद् भवता शस्त्रक्रिया त्वरितं कारिता । यदि दिनद्वयं विलम्बः कृतः स्यात्, तदा तु शस्त्रक्रियां विनैव भवान् स्वस्थोऽभविष्यत् !! (२) शिष्यत्वमीहमानेनैकेन जनेन ईजीप्सियन्- गुरुरुक्तः, 'मन्येऽहं यद् अखिले संसारेऽहमेवैको जनः, यः सत्यस्य पथि दीक्षितुं तीव्रतयेहते । कृपया भवान् मां दीक्षयतु ।' गुरुणा प्रत्युक्तम्, 'अस्मत्सार्थस्य सभ्यतया त्वमवश्यं प्रवेष्टुमर्हसि । किन्तु एतद्विकं त्वया हठात् स्वीकर्तव्यं भविष्यति एकं तु यत् कर्तुं तवाऽनिच्छा स्यात् तदवश्यं करणीयम्; अन्यच्च, त्वं यत्किञ्चिदपि कर्तुमेषिष्यसि, तत् कर्तुं त्वं नैव शक्नुयाः, वयं त्वां तत् कर्तुं नाऽनुमंस्यामहे । यदि स्यात् तव मनः, तर्हि स्वागतं ते । (३) जन एकः कफ श्लेष्मग्रस्तः । स विदेशे विश्वविद्यालयेऽधीत्य निष्णातवैद्यपदवीं सम्पाद्य चाऽऽगतस्यैकस्य नूतनवैद्यमहाशयस्य समीपं गतवान्, स्वीयामस्वस्थतां निवेद्य तच्चिकित्साप्रकारं पृष्टवांश्च । वैद्येन सर्वतस्तं परीक्ष्य सनिःश्वासं प्रवेदितं तस्मै, 'न खलु कोऽपि चिकित्साप्रकार एतं शमयितुमस्त्यस्मत्सविधे ।' जनेन पृष्टं, 'तर्येतच्छमनाय मया किं वा कर्तव्यम् ?' वैद्यः सोल्लासमुक्तवान्, ‘एकं कार्यं करोतु भवान् । प्रथममत्युष्णजलधाराया अधः कञ्चित्कालं तिष्ठतु, तदनन्तरमङ्गमप्रमृज्यैवाऽतिशीतजलधाराया अध उपविशतु तावन्तमेव कालम् ।' ' ततः किं भविष्यति ?' जनेन साश्चर्यं पृष्टः सः । तेन सरोमहर्ष गदितं, 'एतावत्कार्यकरणतो भवान् 'न्यूमोनिया' ऽभिधव्याधिग्रस्तो भविष्यति । तस्य चिकित्सां कर्तुं त्वहं जानाम्येव । ततश्च भवान् शीघ्रं स्वस्थतामाप्स्यति !' । * Page #69 -------------------------------------------------------------------------- ________________ सफाकथात्रयम आ. विजयशीलचन्द्रसूरिः 3X2/0/0/800/8/9/2/2/0/0/0/8/8/8/8/8/0/01018/0/8/8/0/0/0/EX साधकाय केनचिद् उक्तम्तात ! लोका भवतः कथनस्य विविधमर्थं घटयन्ति, चिन्ताप्रेरकमेतद् ननु ! साधकेन सस्मितं प्रत्युक्तम्-नन्वेतदेव मदीयवचनस्य सार्थक्यम् । यदि भवत्पार्श्वे स्थाली आगता, तदा तस्या उपयोगं यथेच्छं जलपानाय वा दुग्धपानाय वा खाद्यान्नभक्षणाय वा कर्तुं नाऽर्हन्ति भवन्तः ? किमत्र चिन्तायाः कारणम् ? (२) प्रभुपरायणं साधुमेकं दृष्ट्वा केनाऽपि पृष्टम् भवान् उदरनिर्वाहार्थमपि कथं याचनां न करोति ? यदि याचना क्रियेत तदा किञ्चित् तु लभ्येत एव । मन्दं हसित्वा निगदितं साधुना यद्यहं याचेय, न च कोऽपि किञ्चिदपि दद्यान्मे, तदा तस्याऽदातुर्मन्निमित्तं हानिः स्यादिति सम्भावनयाऽहं न याचे । यतो मया श्रुतमेवं - "महम्मदमहोदयेन कथितमस्ति यद् यस्य जनस्य वस्तुतः काचिदावश्यकता वर्तते, तत्पूर्त्यर्थं सोऽन्यं जनं याचते, तदनन्तरं यदि स जनस्तस्मै किमपि न ददाति, तदा तस्य-अदातुर्हठाद् हानिः प्रजायते ।" XOXGXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXE| ध्याननिमग्नं साधकं निश्चलीभूय स्थितमवलोक्य पश्चात् केनाऽपि जिज्ञासुना पृष्टः सः भवतैतावती निश्चलता कुतः शिक्षिता ? 'मारितः खलु' - साधकेन सपदि गदितम्; ‘स मूषकं प्रतीक्षमाणः प्रेक्षमाणश्चेदृशो ध्याननिश्चल आसीत्, यत् तं दृष्ट्वा मया मदीया ध्यानमग्नता निःसाराऽनुभूता । Page #70 -------------------------------------------------------------------------- ________________ जनप्रियत्वं सुखाय वा दुःखाय वा मुनिधर्मकीर्तिविजयः कस्यचिनगरस्य बहिर्भागे एको विख्यात आश्रमोऽस्ति । तत्र सर्वतो विशालो - जनसमुदाय उपस्थितोऽस्ति । सर्वे जना गृहापणादिकं जलान्नादिकं च सर्वमपि विहायाऽऽदीर्घकालात् तत्रैवाऽऽसीनाः सन्ति । ते सर्वेऽपि शोकाकुला उद्विग्नाश्च दृश्यन्ते । तत्र केचिज्जना रुदन्ति, केचित् प्रभुनामस्मरणं कुर्वन्ति, केचिद् ललाटोपरि हस्तं संस्थाप्य दीनवदनाः शून्यमनस्काश्च स्थिताः सन्ति । केचित् शिक्षिता धनिकाः प्रौढजनाश्च परस्परं चर्चा कुर्वन्ति - "एष साधुर्मेधावी प्रवक्ता प्रभावकश्चाऽस्ति । तेन वाक्कौशलेन कियन्तः पापिनो दुर्जनाश्च दुराचार-दुर्व्यसनादिकुमार्गात् प्रतिनिर्वर्त्य सन्मार्गे स्थापिताः । आर्यसंस्कृते रक्षणार्थं विविधान्यायोजनान्यपि कारितानि । एवं बालकानां संस्कारवृद्ध्यर्थमेकः प्रकल्पोऽपि विहितः । एवमेतेन साधुना समाजोपयोगीनि बहूनि कार्याणि कृतानि सन्ति । अद्याऽकस्मादेव तस्य देहे प्रातिकूल्यं सञ्जातम् । यदि नाम यत्किमप्यघटनीयं भवेत्तर्हि सर्वोऽपि समाजो निराधारो भविष्यति, हा, हा किं भविष्यती"ति । एवं वातावरणे सर्वत्राऽशान्तिराक्रन्दतोद्विग्नता चैव प्रवर्तते । आश्रमे एकस्मिन्नपवरके स साधुः काष्ठफलकोपरि सुप्तोऽस्ति । चिन्ताग्रस्ताः सर्वेऽपि शिष्याः समीपे स्थिताः सन्ति । ते यथायोग्यं शुश्रूषामपि कुर्वन्ति । प्रकोष्ठस्य बहिः तत्साधोः प्रमुखाः कोटिपतयो भक्तजनाः स्थितवन्तः । ते च "अमुक आंग्लचिकित्सकः श्रेष्ठोऽस्ति, अपरः त्वतिनिपुणोऽस्ती" ति परस्परं चर्चा कुर्वन्ति । ____ तावदेव कश्चिद् भक्तजनो नगरस्याऽनुभविनं वैद्यराजमानीयाऽऽगतवान् । विशालं जनवृन्दं श्रेष्ठिनश्च निरीक्ष्य 'एष साधुर्विश्रुतो महाँश्चाऽस्ती'ति निर्णीतवान् स वैद्यराजः । अन्तः प्रविश्य साधोदेहस्य परीक्षणं करोति । तदात्वे 'को रोगः स्यात् ? वैद्यराजः किं KI कथयेद्वा ?' इति ज्ञातुं सर्वेऽपि भक्तजना वैद्यराजं परितः संमीलिताः । तदैवैको भक्तो मिथ्याभिमानेन वदति - वैद्यराज ! यत्किमपि करणीयं तत् कथयतु । धनस्य चिन्तां मा करोतु । X ५७ Page #71 -------------------------------------------------------------------------- ________________ ___अन्यो भक्तोऽवोचत् - रक्तपरीक्षण-क्षकिरणे (X-Ray) त्यादिकं यत्किमपि करणीयं X तत् सर्वमपि करिष्यते । वैद्यराज आह-चिन्ताया न किमपि कारणमस्ति । विश्राम एवौषधमस्ति । तथाऽपि • वायुप्रकोपशान्त्यर्थं गुलिकाद्वयं ददामि, तेन तस्य स्वास्थ्यं समीचीनं भविष्यति । एतच्छ्रुत्वैव ते भक्तजनाः परस्परं कथयन्ति यद्, एष वैद्यराजो न समीचीनोऽस्ति । इयत्यां पीडायां सत्यामपि किमपि नास्तीति वदति । झटितीदानीमेव हृदयरोगचिकित्सकः कश्चिन्निपुण आंग्लचिकित्सक आकारणीयः । . तावता नगरश्रेष्ठिना सह प्रविशन्तमांग्लचिकित्सकं सर्वः पश्यति । मार्गे एव श्रेष्ठिनः X सकाशात् सर्वमपि वृत्तान्तं ज्ञातवानासीदांग्लचिकित्सकः । तथाऽप्यत्रोपस्थितं धनाढ्यभक्तवर्ग X दृष्ट्वाऽनुमितं तेन यद्, अत्र धनस्यैव माहात्म्यमस्ति । स साधोर्देहस्य पादादारभ्योत्तमाङ्गपर्यन्तं प्रत्यङ्गं सूक्ष्मदृष्ट्या निरीक्षते । सी चिन्तितवान्-"अत्र न कोऽपि रोगोऽस्ति । केवलं वायुप्रकोपात्तथाऽतीवपरिश्रमवशाच्चैव र देहे प्रतिकूलता वर्तते । तथाऽप्यस्य साधोभक्ता धनाढ्याः श्रेष्ठिनश्च सन्ति । ततो यदि 'किमपि नास्ति' इति कथयेयमहं तद्देते तन्न स्वीकरिष्यन्ति" । अतः स पञ्चदशक्षणपर्यन्तं विविधरीत्या देहस्य परीक्षणं करोति । परीक्षणकाले स पुनः पुनः स्वमुखं ग्लानं करोति, कदाचिनेत्रे विस्फारिते करोति । ललाटोपरि हस्तं संस्थाप्य सर्वतो दृष्टिं प्रसारयति । यावत् स किञ्चिद् वक्तुमुद्युक्तः तावदेव..... "हृदयाघातोऽ (Heart Attack) स्ति, ततः सर्वे सावधाना भवन्तु । अत्र लघौ X नगरे आंग्लचिकित्सका न समीचीनाः सन्ति । न कान्यप्यद्यतनसाधनान्युपलब्धानि सन्ति । अतः साम्प्रतमेव 'मुम्बई'नगरस्थिते 'जसलोक'रुग्णालये वायुयानद्वारेण गुरुदेवं नयामि" इत्युच्चैर्वदनेको धनाढ्यो भक्तो भुवि पादौ आस्फाल्य प्रविशति । तस्य मुखोपरि प्रतिपदं च धनोन्मादोऽहङ्कारश्च दरीदृश्यते । स पट्टशिष्यं नमस्यति । तदा तं श्रेष्ठिनं स शिष्यः कथयति- भो ! मा त्वरिष्ठाः । पश्यतु, एष आंग्लवैद्यः समीचीनोऽस्ति । एतन्निशम्य काञ्चिद् ग्लानिमनुभवन् स श्रेष्ठी आंग्लचिकित्सकं प्रति दृष्ट्वा नमस्कृत्य 2 च वदति- भो ! एष साधुरस्माकं गुरुदेवोऽस्ति । निखिलभारतदेशस्योपकार्यस्ति । तेन 2 Page #72 -------------------------------------------------------------------------- ________________ गुरुदेवेनाऽऽर्यसंस्कृतिरक्षणार्थमेव स्वकीयं समस्तमपि जीवनं समर्पितमस्ति । अतो धनचिन्तां विहाय यत् करणीयं तद् वदतु । आंग्लचिकित्सक उवाच - लघुर्हृदयाघातोऽस्ति । अत इदानीमेव शस्त्रचिकित्सा करणीया । एतदाकर्ण्य सर्वेऽपि शिष्या भक्तजनाश्च दीनमनस्का भवन्ति । तथाऽपि ' भवतु ' इत्युक्त्वैको भक्तजन: स्वकीयं वातानुकूलितं (A.C.) कारयानमानीयाऽऽगच्छति । शीघ्रमेव रुग्णालये गुरुदेवं नीतवान् । तदा "लक्षद्वयरूप्यकप्रमाणं धनमावश्यकमस्ति" इत्युक्तवानांग्लचिकित्सकः । I क्षणमात्रेण श्रेष्ठिनाऽऽवश्यकं धनं दत्तम् । यद्यधिकं धनमावश्यकं तर्हि कथनीयम्, किन्तु धनस्य चिन्ता न करणीया, इत्याह श्रेष्ठी । आंग्लचिकित्सको वदति नैवं नैवं, एतत्तु पर्याप्तमस्ति । पश्चाद् गुरुदेवं शस्त्रक्रियाखण्डे नयति । आवश्यकं कर्म समाप्यैकस्मिन् पल्यङ्के स्वापयति । निद्रायाः सूच्यौषधं दत्त्वा वायुप्रकोपशान्त्यर्थं च गुलिकाद्वयमपि ददाति । तथा त्वचः किञ्चिद् विदारणं कृत्वा तस्मिन्नैव क्षणे तत्रैव पुनः सीवनं कृतम् । इतः स आंग्लचिकित्सकोऽपि सेवकाय सूचनं दत्त्वा स्वखण्डे शान्त्या स्वपिति । सूचनानुगुणं घण्टाद्वयस्य पश्चात् सेवको बहिर्गत्वोपस्थितेभ्यः शिष्यवृन्देभ्यो भक्तजनेभ्यश्च 'शस्त्रकर्म सफलं गतम्' इत्युक्त्वाऽन्तर्गतवान् । बहिः स्थिताः सर्वेऽपि साधवो जनाश्चाऽतीवऽऽनन्दमनुभवन्ति । - इतश्चेतत् सर्वं विलोकयन् प्रथममागतः स वैद्यराजश्चिन्तयति- "एतत् सर्वं महत्ताया अतिप्रसिद्धेर्जनप्रियतायाश्च दुःखमस्ति । अस्मिन् युगे यावती महती जनप्रियता यावाँश्च भक्तवर्गो विशालोऽस्ति तावदधिकं दुःखमस्ति अधिका च पीडाऽस्ति । अतोऽद्य निश्चिनोमि - प्रियजना विना कारणं मां मारयेयुः, तावान् महान्न भविष्यामीति । स्थाणुर्वा पुरुषो वाऽयं दृष्ट्वति तर्कयन्ति यम् । स मानी दूरतस्त्याज्यो नम्रादिगुणवर्जनात् ।। (हिङ्गुलप्रकरणे) ५९ Page #73 -------------------------------------------------------------------------- ________________ दैवविलसितम् मुनिकल्याणकीर्तिविजयः [एतावत्पर्यन्तम्...... क्षितिप्रतिष्ठितं नगरं... वीरसेनो राजा... धारिणी राज्ञी... देवराज-वत्सराजपुत्रौ... वीरसेने रोगाकान्ते देवराजस्य राज्यग्रहणं... वत्सराजनिष्कासनं... जनन्या सह उज्जयिनीगमनं... श्रेष्ठिगृहवासः... गोचारणं... कुमारैः सह शस्त्राभ्यासः... मातुरुपालम्भेनाऽटवीगमनं... विद्याधरीवस्त्रग्रहणं... श्रीचन्दनकाष्ठानयनं... राजास्थाने शस्त्रविद्याप्रदर्शनं... परिचयदानं...राजप्रासादवासः... राजाङ्गरक्षकत्वं... रात्रौ स्त्रीरोदनशब्दाकर्णनं... राजादेशेन तदन्वेषणार्थं निर्गमनम् । ततः....] अथ च राजभवनमध्यानिःसृतः कुमारो रोदनशब्दमनुसरन् प्राकारसमीपं प्राप्तः । 56 द्वाराणि तु रात्रौ पिहितानि भवन्त्यतः स विद्युर्दुत्क्षिप्ताभिधेन करणेन कूदित्वा प्राकार* मुल्लङ्घ्योत्कटसत्त्वशालितया स्मशानदेशं प्राप्तः । यच्च परिदह्यमानानां नैकशवानामति दुस्सहगन्धप्रसरेण व्याप्तत्वात् प्रत्यक्षं नरकमिव संलक्ष्यते स्म, यत्र च मांसभक्षणलुब्धाभिः शिवाभिरर्धदग्धानि कलेवरानि चिताभ्य आकृष्य खित्कारं कुर्वतीभिर्भक्ष्यन्ते, यत्र च शुनक* शृगालादयो यत्र तत्र पतिताननाथमृतकसङ्घातान् सकटकटारावं खादन्ति, यत्र च बहुभूतपिशाचसमुदायाः किलकिलायन्तो नरीनृत्यन्ते, वेताला बिभीषिकां कुर्वन्ति, डाकिन्यो निर्निवसना अटन्ति, शितकर्तरीहस्ता राक्षसाः विकराला दृश्यन्ते, अतिघोररूपाश्च राक्षसीगणा सनिघृणमटाट्यन्ते । * किन्त्वयं कुमारो निर्भीक एव रोदनशब्दमनुसरन् यावन्मध्यभागं प्राप्तस्तावदेकदेशे वस्त्रालङ्कारभूषितदेहाऽतीवसुरूपा नारी सदुःखं रुदती करुणं च विलपन्ती दृष्टा । अतः स - तत्समीपं गत्वा पृष्टवान् – 'काऽस्ति भवती ? किमर्थं चाऽत्र भीषणे स्मशानेऽतिकरुणतया 35रोदिति ? कथयतु मां यदि नास्त्यकथनीयम् ।' | तयोक्तं - 'भो मुग्ध ! किं तवैतया मम चिन्तया ? यत्र कुत्राऽपि प्रचलितोऽसि* तत्रैव व्रज ।' 'भद्रे ! किमितीदृशं भणति ? किं दुःखितसत्त्वानां दुःखगवेषणमप्ययुक्तं वा? १. विद्युदिव त्वरया कूदित्वेत्यर्थः ॥ ६० Page #74 -------------------------------------------------------------------------- ________________ सत्पुरुषाणां त्विदमेव महाव्रतं यत्ते निजसर्वसामर्थ्येन दुःखार्त्तसत्त्वानामुपकारमेव कुर्वन्ति' इति वत्सराज उक्तवान् । ___ सा भणति स्म - 'यदि सत्पुरुषाणामेतत्, तदा तव किं समागतम् ? यदि किल घृतं सुगन्धं, तर्हि गोमयस्य किमागतम् ? यदि च कल्पद्रुमः फलितस्तदा किमायातkh मेरण्डद्रुमस्य?' वत्सराजेन कथितं - 'कथं भवत्याऽहं कुपुरुषो ज्ञातः ?' 'येनाऽतिबालो दृश्यसेऽतः ।' 'सुन्दरि ! किं लघुकोऽपि चिन्तामणिः समीहितं न दत्ते ? अतः सुतनो ! यत्किमपि का स्यान्नाम, कथयतु तत् ।' 'भो बाल ! यद्येतावता निर्बन्धेन पृच्छसि तदा कथयामि, शृणु तावत् । अत्रैव नगरे उत्तमपुरुषस्य पत्नी अहमस्मि । स पुनर्निष्कारणवैरिणाऽनेन नरपतिना विनाऽपराधमेव | मृत्युदण्डं दत्त्वाऽस्मिन् वृक्षे उल्लम्बितः । अथ तस्मिन् ममाऽतीव स्नेहोऽस्ति । अतोऽद्याऽपि * | तन्मुखेऽहं घृतपूर्णान् प्रक्षेप्तुमिच्छामि । अत्युच्चैरुल्लम्बितत्वाच्च तत् कर्तुं न शक्नोमीत्यत में एव रोदिमि।' 'यद्येवं तर्हि मम स्कन्धयोरारुह्य निजाभिलषितं कुरु ।' * एतच्छ्रुत्वा साऽपि पटलकं गृहीत्वा तत्स्कन्धयोरारूढा । पञ्चषक्षणानन्तरं सहसैको मांसखण्डः कुमारोपरि पतितः । 'हन्त ? किमेतत् ?' इति चिन्तयित्वा यावत् तेनोपरिष्टाद र दृष्टं तावत् सा स्त्री तन्मृतकशरीरात् मांसखण्डान् कर्तयन्ती दृष्टा । अनेन रुष्टः स सहसा में 5 कोशात् खड्गं निष्कासितवान् । साऽपि तद् दृष्ट्वा नभस्तले उत्पतितुमारब्धा । तदा * कुमारेण तस्याः कटित्रं वस्त्रं गृहीत्वाऽऽकृष्टा सा वस्त्रं त्यक्त्वैवोत्पत्य गता कुत्राऽपि । ** ___ कुमारोऽपि च विस्मयकरं वृत्तमेतद् विलोक्य चमत्कृतचित्तो वस्त्रं गृहीत्वा निजगृहं - गतवान् । प्रातःकाले च राजास्थानं गत्वा राज्ञा रजनीवृत्तान्तं पृष्टोऽसौ सर्वमपि वृत्तान्तं 5 यथातथं कथितवान् तद् देवतावस्त्रं च नृपकरतलयोः समर्पितवान् । वररत्नमण्डितं तद् वस्त्रं * दृष्ट्वा सर्वेऽपि विस्मिताः सञ्जाताः । ततो राज्ञाऽपि तत् पट्टमहिष्यै समर्पितम् । साऽपि * म स्वीयप्रासादं गत्वा यावन्निरीक्षते तावत् तत्समः कोऽपि कञ्चको न मिलितः । अतो राजानं कथितवती सा, यद् ‘देव ! अस्योपरि कोऽपि कञ्चको न मिलति ।' राज्ञाऽप्युक्तं, 'देवि ! | Page #75 -------------------------------------------------------------------------- ________________ 55 ननु देवतावस्त्रमेतत् । मर्त्यवस्त्रेण समं कथं मिलेत् ?' एतच्छ्रुत्वाऽपि देवी विशेषतोऽधृतिमती सञ्जाता । म तदा कुमारः पूर्वकथितवृत्तं कथयित्वा कञ्चुकं चाऽऽनीय राज्ञे समर्पितवान् । तेनाऽपि च देव्यै दत्तः सः । साऽपि तद्वयमपि परिधाय यावदुत्तरीयं मृगयते तावन्न किमपि । * मिलितम् । अतोऽधृतिवशादधिकतरं चित्तसन्तापं वहन्ती सा राजे कोपेन कथितवती यद्, यावत् तद् वस्त्रं न प्राप्स्यते तावदहं भोजनं न करिष्यामि', कोपगृहं च प्रविष्टा। र तां प्रसादयितुं महामतयो मन्त्रिणः सादरं विज्ञपयन्ति स्म किन्त्वेषा कथमपि न * प्रसीदति स्म । एतेन राजाऽपि चिन्ताकुलो भूत्वा शुचं वहति स्म । तदा कुमारोऽपि * स्वमातुःष्वसारं विज्ञपयति स्म यद्, 'मातः ! मैवमत्राऽर्थेऽतिगुरुमाग्रहं कार्षीत् । यतो - मानुषलोके नैताद्वंशि दुर्लभानि वस्त्राणि सन्ति, तथा मन्दपुण्यानां त्वेकमप्येतन्महता प्राणसंशयेनाऽपि प्राप्यते कदाचिदेव, भवत्या तु तद्वयं प्राप्तम् । अतो वयं सर्वेऽपि भवत्याः । अ पादयोः पतित्वा विज्ञपयामो यद् - मा करोतु खेदं, मुञ्चतु चाऽऽग्रहमस्य ।' एवं कुमारेण सादरं विज्ञप्ताऽपि सा स्त्रीस्वभावतः कथमपि स्वाग्रहं न मुञ्चति स्म। जी तदा कुमारोऽपि तस्या निर्बन्धं राज्ञश्च दुःखं विज्ञाय सुरगिरिसमां महतीं प्रतिज्ञां सर्वसमक्षं में गृहीतवान् यद् 'यदि किल षण्मासान्ते भवत्या मनोरथं न पूरयेयं तदा ज्वलितेन्धनज्वालामालिते ज्वलने प्रवेक्ष्यामि ।' तदा नरेन्द्रस्तं वारयितुमवदत्, ‘मा मा वत्स ! मैवं वद । यतो न ज्ञायते कदा किं में भविष्यति, दैवं चाऽतीव निर्दयमस्ति ।' 'देव ! भवत्पादपङ्कजप्रसादमाहात्म्यादेनदपि भविष्यति, किन्तु त्वरितमेव मे आज्ञादानेनाऽनुगृह्णातु येन सर्वत्र गवेषयिष्ये' इत्युक्तवते तस्मै राजाऽपि निजकरगृहीतं बीटकं दत्त्वा विसृष्टवान् । एषोऽपि च निजगृहं गत्वा जननी वन्दित्वा च तस्याः करकमलं स्वमस्तके * स्थापितवान्, उक्तवांश्च सर्वमपि वृत्तम् । ततो विज्ञपयति स्म यत् 'अम्ब ! मम सर्वमपि र दुश्चरितं क्षन्तव्यं, यतोऽहं तस्य वस्त्रस्य गवेषणाय व्रजामि, षण्मासान्ते च भवत्याः । पादवन्दनं करिष्ये । यदि पुनर्नाऽऽगच्छेयं कथमपि तदा मे जलाञ्जलिर्दातव्यः ।' ६२ Page #76 -------------------------------------------------------------------------- ________________ एतन्निशम्य हृदयेऽनिच्छन्त्यपि सा वचसा 'भवतु तव विजयः पुत्र !' इति कथितवती । भवत्या वचः प्रमाण मिति भणित्वा सोऽपि करालकरवालसहायो झटिति नगर्या में निर्गत्याऽनवरतप्रयाणैर्महीमुल्लङ्घमानो दक्षिणदिशं प्रति प्रस्थितः । कतिपयदिनानि बहुदेशग्राम-नगरादिभूषितां वसुमती विलोकयन् सोऽन्यदैकं महामहदटवीमुखं प्राविशत् । अथ तत्रैकं तुङ्गप्रवरप्राकारवेष्टितं लघुपत्तनं दृष्ट्वा विस्मितः स चिन्तितवान् - * 'हन्त ! किमेतल्लघुपत्तनम् ? किं भूतानां यक्षाणां राक्षसानां वा नगरं स्यादेतत् ? अथवा नहि नहि, चतुष्पदा दृश्यन्तेऽत्र, अतो विकल्पैरलं, यद् भविष्यति तद् द्रक्ष्यत एव ।' एवं विचिन्त्य स तस्य द्वारं प्रविष्टः सन् तुङ्गप्रासादमेकं लक्षितवान् । तत्पार्वे च नैकानि 4 लघुगृहाण्यासन् । स कौतुकेन प्रासादं प्रविष्टः । * प्रासादमध्ये एकं प्रवरनरं निजपरिवारसमन्वितं सभायामुपविष्टं दृष्ट्वा तेन कश्चित् पृष्टः ‘भोः ! किंनाम पुरमेतत् ? कश्चैष नृपतिरत्र ?' । तेनाऽपि कथितं, 'सुन्दर ! नास्त्येतत् र पुरं किञ्चित् । किन्तु इतो नाऽतिदूरे भूतिलकं नाम पत्तनमस्ति, तत्र वैरिसिंहो राजाऽस्ति, तस्य चाऽतीववल्लभोऽयं नगर श्रेष्ठी बहुऋद्धिभरसमृद्धो दत्तो नामाऽस्ति । अस्य च श्रेष्ठिनः श्रीदेवीभार्यया श्रीदत्ता नाम दुहितोत्पन्ना । सा यदा यौवनं प्राप्ता * तदा कस्यचित् पूर्वकृतकर्मणो वशात् रात्रौ यः कोऽपि तस्याः प्राहरिको (रक्षको) भूत्वा स्वपिति स्म स म्रियते स्म । यदि च रक्षको न स्वपिति स्म तदा सप्त पुरुषा नियन्ते स्म। 4 एतेन स राज्ञाऽऽदिष्टो यत्, 'श्रेष्ठिन् ! भवान् निजपरिजनं गृहीत्वाऽचिरादेवाऽटवीं गच्छतु येन * भवतो दुहितुर्दोषाद् नगरे जनक्षयो मा भूत् ।' ततः श्रेष्ठ्यपि निजसर्वपरिजनसहितो नगरं त्यक्त्वाऽत्राऽटव्यां सम्प्राप्तः, धवलगृहं कारयित्वा तत्पाद्यं च परिजनगृहाणि रचयित्वाऽत्रोषितः । चौराणां भयेन स उत्तुङ्गं * प्राकारमपि कारितवान् । अतो भोः पथिक ! अयमेव स श्रेष्ठी, सन्निवेशश्चाऽयं दत्तपुरनाम्ना सुप्रसिद्धः' इति । 'अत्र चाऽस्य श्रेष्ठिनः परिजनं विहाय नाऽन्यो लोको निवसति । क्रयविक्रयिकजना अपि रात्रेः पूर्वमेव इतो निर्गच्छन्ति । श्रेष्ठ्ययं सर्वेभ्योऽपि सेवकेभ्यः प्रभूतं , धनं प्रदत्तेऽतस्ते धनलोभेनैवाऽत्र वसन्ति । ततोऽनेन निजसेवकानां नामानि पत्रेषु लिखित्वा । तानि पत्राणि गोलके निक्षिप्तानि सन्ति । प्रत्यहमेकैकं पत्रं निष्कास्यते, यस्य च नाम तत्र Page #77 -------------------------------------------------------------------------- ________________ र बस भवति, स प्राहरिको भूत्वा श्रीदत्ताया अपवरके स्वपिति, म्रियते च । यदि त्वमत्रोषितुं बिभेषि तदाऽन्यत्र गत्वा वस ।' एतच्छ्रुत्वा ईषद् विहस्य कुमारो दत्तस्याऽऽस्थानं प्रविष्टः । दत्तोऽपि तं दृष्ट्वा A ससंभ्रमं सादरं चाऽऽसने उपवेशितवान् । ततस्ताम्बूलादिना तत्प्रतिपत्तिं कृत्वा तं पृष्टवान् 'कुतस्त्यो भवान् ?' तेनाऽपि 'उज्जयिनीतो निर्गतोऽहं कारणवशतोऽत्र प्राप्तोऽस्मि' इत्युत्तरितम्। * एतावतैकः कृतस्फारशृङ्गारः पुरुषस्तत्राऽऽगतः । तन्मुखमत्यन्तमुदासं व्याकुलं चाऽऽसीत् । * अतो वत्सराजः श्रेष्ठिनं पृच्छति स्म- 'तात ! किमित्ययं पुरुषः कृतशृङ्गारोऽपि दुर्मना लक्ष्यते ?' । तदा श्रेष्ठी दीर्घ निःश्वस्य तं कथितवान् – 'अत्यन्तमकथनीयोऽप्ययं वृत्तान्तस्ते * कथयामि यन्मे दुहितुः पार्वे योऽपि प्राहरिकः स्वपिति स जीवितव्यान्मुच्यते एव । अद्य तु प्राहरिकत्वेनाऽस्य वारकोऽस्ति । अतोऽयमतीव विमना अस्ति । कस्य वा मरणाद्भयं न भवेत् ?' * ___ एतच्छ्रुत्वा वत्सराजेनोक्तं - 'यद्येवं, तर्हि तिष्ठत्वयं तात ! अद्याऽहमेव भवद्दुहितुः में प्राहरिको भूत्वा स्वप्स्यामि ।' श्रेष्ठ्युक्तवान् - 'मैवं वद वत्स ! त्वं तु प्राघूर्णकोऽसि, तथाऽद्याऽपि त्वया मद्रव्यं न भुक्तम् । तत्कथं त्वं प्राहरिको भूत्वा मृत्युमुखं प्रविविक्षसि ?' । कुमारेण भणितं - 'तात ! एष एवाऽतीवमरणभयद्रुतस्तिष्ठतु । अहमेवाऽद्य प्राहरिको र भविष्यामि ।' तस्याऽत्याग्रहं ज्ञात्वा श्रेष्ठी द्विगुणदुःखसन्तप्तस्तं विसृज्य चिन्तितवान्, 'नूनं सत्पुरुषाणां परोपकार एव मतिर्भवति । अहं पुनरेवंविधपुरुषरत्नानां नाशको दुहितृमिषेण सञ्जातोऽस्मि । र धिङ् माम् ॥" तावता कुमारस्तं पुरुषं निवर्त्य हृष्टमना उपरिमतले आरूढः सन् श्रीदत्ताया अपवरकं प्रविष्टः । साऽपि तं दृष्ट्वा 'अहो ! अतिरूपम् !! अहह ! ईदृशी लवणिमा !! अहो ! शौण्डीर्यम् !! अहह ! पुरुषरत्नमयमुपलक्ष्यते । धिगस्तु ममाऽनर्थबहुलस्य पापप्रचुरस्य जीवितस्य यदेवंविधानां पुरुषरत्नानां विनाशकरं वर्तते ।' । अथैषोऽपि तस्याः सम्मुखमेव निजशय्यायामुपविष्टः सन् तया सह संलापं करोति स्म । तत्राऽप्यसौ सुविदग्धत्वात् सर्वकुशलत्वाच्च नानाविधदेशीभिर्नेकविधकाव्योक्ति + ६४ Page #78 -------------------------------------------------------------------------- ________________ र रसविशेषैश्च तां बाला सर्वतो रञ्जितवान् । अतः सा चिन्तितवती यद् 'नन्वात्मानं मारयित्वाऽप्येनं + रक्षेयम् ।' एवमर्दवित विचिन्तयन्ती सा क्षणाभ्यन्तर एव प्रसुप्ता । असावपि तां सुप्तां वीक्ष्य पराक्रमित्वादलिन्दद्वारेणाऽधः कूदित्वा एकं महाकाष्ठखण्डं गृहीत्वा च पुनरपि विधुदुत्क्षिप्त56 करणेन गवाक्षमारूढः । ततः स्वशय्यायां तं काष्ठखण्डं क्षिप्त्वा तदुपरि च वस्त्रमाच्छादितवान् । * स्वयं च करालकरवालहस्तो दीपकच्छायायां निभृताङ्गतयाऽतितारतरलदृष्टिकः, प्रमादमें परिवर्जितश्च सर्वा अपि दिशः प्रलोकयन् स्थितः । मुहूर्तान्तर एव वातायनद्वारेण प्रविशद् एकं मुखकमलं दृष्टवान् सः । 'एतदेव तत्र 7. किमपि कार्यं स्यात्' इति चिन्तयन् स विशेषतोऽप्रमत्तो जातः । तदपि मुखकमलं भवनं । * सर्वतो निरीक्ष्य बहिर्निर्गतम् । तत एको वरमुद्रालङ्कृतः कोमललिताङ्गलिसनाथ ओषधि-5 * वलयद्वयमण्डितश्च हस्तोऽन्तः प्रविष्टः । अथैकस्मादोषधिवलयाद् अतिबहुलधूमपटला निर्गता - यैः समग्रमपि भवनं धूममयं सञ्जातम् । एतद् दृष्ट्वा कुमारोऽपि द्वारसमीपेऽतिष्ठत् । इतो यावद् हस्तः कुमारशय्यायां काष्ठखण्डं स्पृशति तावदेव कुमारेणाऽतीवदक्षतया है 56 खड्गघातः कृतः । देवताहस्त इतिकृत्वा धरायां न निपतितः, किन्तु तदोषधियुगलं वेदनातः से * पतितमेव । तच्च कुमारेण शीघ्रमेव गृहीतम् । करस्तु 'हा वञ्चिता ! हा वञ्चिता !' इति शब्दसनाथं निःसृतः । कुमारोऽपि 'हा दासि ! कुत्र गच्छसि ?' इति भणन् गुरुपराक्रमत्वात् 1 तस्या घातार्थं गवाक्षान्निःसृतः । साऽपि तं रौद्रस्वरूपं पुण्याढ्यं चेति ज्ञात्वा झटिति प्रणष्टा । एषोऽपि प्रत्यागत्य काष्ठखण्डमपसार्य च शय्यायामुपविष्टः । प्रातःकाले च सञ्जाते * श्रीदत्ता जागृता सती तमक्षतानघशरीरं दृष्ट्वा परितुष्टा व्यचिन्तयत् - 'नूनमस्य पुरुषरत्नस्य । कोऽपि प्रभावः स्यात् तथा मम पुण्यान्यपि बलवन्ति स्युर्येनैष नैव विनष्टः । अतो यदि * परिणेष्यामि तदैनमेव नाऽन्यम् ।' ततो मधुरस्वरेण तं पृष्टवती सा 'स्वामिन् ! कथं भवान् व्यसनादुद्धृतः ?' कुमारेणाऽपि सर्वोऽपि रजनीवृत्तान्तस्तस्यै कथितः । तन्निशम्य साऽपि हृष्टा जाता । तावता दासी कुमारीमुखक्षालनार्थं जलादिकमानीतवती सती कुमारं जीवितमक्षतं च प्रेक्षते स्म । * तयाऽपि झटिति श्रेष्ठिने गत्वा निवेदितम् । सोऽपि ससम्भ्रमः सबाष्पनेत्रश्च तत्र प्राप्तः । । म कुमार्या दत्तासनश्च स सुखमासीनः कुमारं कुशलपृच्छादि कृतवान् । कुमारेण सर्वमपि । ६५ Page #79 -------------------------------------------------------------------------- ________________ ब रात्रिवृत्तं वणितं तत्पुरतः । तत्सर्वं श्रुत्वा रोमाञ्चकण्टकितवपुः श्रेष्ठी चित्त एव कञ्चिन्निर्णय कृत्वा कुमारं भणितवान्- 'पुत्र ! त्वयैवैषा मम प्राणवल्लभा दुहिता रक्षिताऽस्ति, ** अतस्त्वमेवाऽस्या भर्ता भूयाः । एषा मया तुभ्यमेव प्रदत्ताऽस्ति ।' कुमार उक्तवान् ‘अज्ञातकुलशीलाय मह्यं कथमेनां ददाति भवान् ?' तदा 'भद्र ! 5 तव गुणैरैव तव पूर्णपरिचयः प्राप्तोऽस्ति । अतो मा मे प्रार्थनामवमन्येथाः' इति श्रेष्ठी * कथयति स्म । कुमारेणोक्तं - ‘भवतु तात ! किन्तु मयेतोऽपि बहुदूरं गन्तव्यमतः प्रतिनिवर्तमानो भवदुक्तं सर्वं करिष्ये ।' श्रेष्ठिना भणितं, 'मैवं वोचः । प्रथमं परिणयैनां स पश्चादेवाऽग्रतो गच्छ ।' श्रेष्ठिनोऽत्याग्रहं ज्ञात्वा कुमारेणाऽपि प्रतिपन्नं तत् । अथ श्रेष्ठिनाऽन्तरायभयेन तस्मिन्नेव दिने श्रीदत्तया सह तस्य पाणिग्रहणं कारितम् । में द्वितीयदिने प्रभाते वत्सराजेन श्रीदत्तायै कथितं 'प्रियतमे ! अनिवार्यकार्यवशान्मयाऽद्याऽपि दूरं गन्तव्यम् । स्तोकैदिनैरेव प्रतिनिवत्स्यें, अत उद्वेगं मा कार्षीः ।' एतत्छ्रुत्वा बाष्पजला* पूर्यमाणनेत्रयुगा सा कथितवती 'स्वामिन् ! किमद्यैव मां परित्यज्य व्रजिष्यति ?' तेनाऽप्युक्तं . 'हरिणाक्षि ! यद्यदैव न गमिष्यामि तर्हि ज्वलन एव गतिः । नाऽस्त्यत्र सन्देहः ।' तया * सगद्गदं कथितं 'यद्येवं तर्हि गच्छतु स्वामिन् ! किन्तु अतिविरहानलदह्यमानां मां शीघ्रमेव * ॐ भवद्दर्शनज़लेन निर्वापयतु । अन्यच्चाऽयं वेणीदण्ड इदं च कुङ्कम-कज्जल-कुसुमादि सर्वं, तथा विरहभयभीतं मम हृदयमपि भवता सहैव यास्यति । अतः स्वामिन् ! एतेषां संरक्षणं * भवतैव कर्तव्यम्।' ततः कुमारोऽपि श्रेष्ठिनमापृच्छ्य प्रचलितः । अटव्योऽरण्यानि भिल्लपल्लीः पर्वतान् गिरिसरितश्चोल्लङ्घयन् सोऽन्यदैकां निर्मानुषामटवीं प्राप्तः । किन्तु सत्त्वैकधनः स नितान्तं निर्भीकतयैव स्वकार्यसिद्ध्यर्थं तामपि प्रविष्टः । अग्रे व्रजन् स एकत्र सुरम्ये स्थाने में 5. गगनाग्रविलग्नवरसालं विशालं नगरं प्रेक्षते स्म । तद् दृष्ट्वा चिन्तितवानसौ 'किं नगरमेतत् * स्यात् ? नन्वत्र चतुष्पदा अपि न दृश्यते ! अथवा किं चिन्तितेन ? करनिहितकङ्कणे वा * दर्पणेन किम् ? अन्तः प्रविश्य स्वयमेव ज्ञास्यामि ।' . ततो झटिति स नगरं प्रविश्य निकटस्थे वरतटाके पादौ प्रक्षाल्य तरोरधस्तादुपविष्टः । । 1 तावता प्रवरनारीणां समुदायस्तत्राऽऽगत्य बहु नीरं वहस्तेन दृष्टः । ताश्च नार्यस्तं दृष्ट्वा ६६ Page #80 -------------------------------------------------------------------------- ________________ बल परस्परमेवं जल्पन्ति 'हले हले ! प्रेक्षस्वाऽत्र सुरूपयौवनमण्डितः प्रत्यक्षं कामदेव इव कोऽपि मनुष्ययुवा कुतोऽपि समागतोऽस्ति । पूर्वं तु कोऽपि मनुष्य इह नैवाऽऽगतः ।' तावता कुमारेणाऽपि तासामेका पृष्टा 'भद्रे ! कैषा वरनगरी ? को वाऽत्र नृपतिरस्ति ?' तयोक्तं 'भो ! नैवाऽस्त्यत्र कश्चिन्नराधिपः । एषा नगरी तु व्यन्तरजातिभिर्देवताभिः क्रीडा) विनिर्मिताऽस्ति । इह ताः स्वेच्छया रमन्ते विविधाभिः क्रीडाभिः ।' 'यद्येवं, तर्हि किमित्येतावान् जलपूर उह्यते ?' कुमारः पृच्छति स्म । तयोत्तरितं 'महाभाग ! अस्माकं किल या स्वामिनी वर्तते सा क्रीडा) क्वचिद् गता सती केनचिद् र भुजे प्रहृताऽस्ति । तेन च तस्या दारुणा पीडा वर्तते । अतस्तच्छमनार्थमेष जलसेकः * क्रियमाणोऽस्ति । किन्तु कथमपि सा वेदना नोपशाम्यति ।' 'ननु देव्यपि सा निजपीडो-* में पशमनायाऽशक्ता वा ?' कुमारेण पृष्टम् । तयोक्तं 'प्रहारकर्तृ रक्षकदेवताया प्रतीकारं 74 कर्तुमसमर्था नः स्वामिनी, अतस्तस्या वेदना नोपशाम्यति । किञ्च, स्वामिन्याः करे * महाप्रभावकमोषधिवलयद्विकमासीद्, यच्च तुष्टेन व्यन्तरेन्द्रेण तस्यै दत्तमासीत्, ययोश्चैकं 35 धूमेन परं मोहयति द्वितीयं च महाप्रहारेऽपि वेदनामुपशमयति, तदपि तत्रैव पतितमस्ति । अतोऽपि सा निजवेदनामुपशमयितुमसमर्था ।' वत्सराजेनोक्तं 'भद्रे ! अहं मानुषो वैद्योऽस्मि । यदि कथमपि तस्या वेदनामपनयेयं तदा सा मे किं दास्यति ?' तयोदितं - 'यदिच्छेत् तन्निःशङ्कं लप्स्यते भवान् ।' 'यद्येवं, * तर्हि चलतु पश्यामि तावत्' इति कुमारेण भणितम् । साऽकथयत् - 'वैद्यवर्य ! स्वामिनी * पृष्ट्वाऽऽगताऽहमेषा । प्रतीक्षतां तावत् ।' तेन गदितम् – 'अस्त्वेवमपि, यदि भवतीच्छति । ) 55 किन्त्वहं बहु विलम्बं न सहिष्ये ।' . साऽपि तत्स्वामिनीपार्श्व गत्वा विज्ञपयति स्म 'देवि ! अस्त्येका विज्ञप्तियद - ** ॐ मानुषो वैद्यः कश्चिन्नगरीद्वारे तिष्ठति कथयति च यदहं सर्वामपि वेदनामपनेतुं शक्तोऽस्मि। - तत् किं तमानयेयमत्र ?' 'शीघ्रमानय' इति च स्वामिन्योक्ते साऽपि पुनः कुमारान्तिकमागत्य तमुक्तवती 'भोः ! शीघ्रमागच्छतु, मा विलम्बताम् ।' तदा सोऽपि नगरी प्रलोकयन् तया 4 सह प्रस्थितः । तदा तयोक्तं - 'भद्र ! यदि नः स्वामिनी कथमपि तुष्येत् तदा तत्सकाशाद्र र भवान् उपरिस्थितं कन्यायुगलं सर्वकामदं पल्यत यक्षं चाऽश्वरूपधरं मार्गयताम् । एतेन भवतः सर्वाण्यपि कार्याणि सेत्स्यन्ति ।' 'अस्तु' इति प्रतिपद्य सोऽपि तया सह प्रासादं ६७ Page #81 -------------------------------------------------------------------------- ________________ बल प्रविष्टः । अथ देवी तं दृष्ट्व पृष्टवती 'सुन्दर ! किं त्वं वैद्यशास्त्रं जानासि वा ?' 'आम्' 4 इति तेनोक्ते च कथितमनया 'तमुपनय मे पीडाम् ।' असौ तु मायया वैद्यवत् सर्वामपि क्रियां कृत्वा धूमौषध्या धूमं विकुळऽन्ययौषध्या - ix तस्याः पीडामपहृतवान् । एतेन तस्या भुजोऽपि नवीभूत इव सञ्जातः । तदा सा भणति स्म 5 'पुत्र ! त्वयैव घातिताऽहं खलु ?' एष ‘एवम्' इति स्वीकृतवान् । तोषनिर्भरा सा कथितवती 'तव सत्त्वसाहसेनाऽतीव सन्तुष्टाऽहमस्मि । अतो यदिच्छसि तन्मार्गयस्व ।' अनेनोक्तं 'यद्यम्ब ! मयि तुष्टा भवती, तदा मे भवनोपरिस्थितं कन्यायुगलं हयरूपधरं यक्षं सर्वकामितदं पल्यङ्कं च प्रददातु ।' एतन्निशम्य सोक्तवती 'ननु गृहभेदोऽयं सञ्जातः । भवतु, कथमेते मया प्राप्ता इति तु प्रथमं कथयामि । इह भारते क्षेत्रे वैताढ्यो नाम गिरिवरोऽस्ति यत्र विद्याधराणां र निवासोऽस्ति । तत्र चैका चमरचञ्चा नाम सुप्रसिद्धा सुविशाला सुरम्या च नगरी अस्ति यां गन्धवाहगतिर्नाम विद्याधरनृपतिः प्रशास्ति स्म । तस्य सुवेगा मदनवेगा चेति द्वे * पट्टमहिष्यावास्ताम् । तयोश्च द्वयोरपि रत्नचूला कनकचूला चेति द्वे सुरूप-गुणशालिन्यौ कन्ये जाते । यौवनस्थे च ते द्वे लावण्यपूर्णे कान्तिपूर्णे वरविद्यासम्पूर्णे कलाकौशलपरिपूर्णे च र सञ्जाते। अन्यदा ते सर्वालङ्कारविभूषिताङ्ग्यौ पितृपादवन्दनार्थं गते, वन्दित्वा च पितरं * तच्चरणान्तिकं निषण्णे । नृपेणाऽपि सवात्सल्यमाशीर्वादेन सम्भाविते विसृष्टे च स्वीसादं ॐ गते । अथ च तयो रूप-गुणादि विलोक्य नृपमनसि वरगवेषणचिन्ता जाता । एतावता नृपास्थाने कश्चनाऽष्टाङ्गनिमित्तज्ञो वर्यदैवज्ञः समायातः । तस्मै उत्तममासनं दत्त्वा वस्त्रालङ्कारैश्च मे KA सत्कृत्य राजा विनयेन तं पृष्टवान् - 'भद्र ! कस्मै मदीये एते कन्ये दातव्ये ? को वा भविष्यत्यनयोर्भर्ता ? स्वज्ञानमुपयुज्य कृपया समादिशतु माम् ।' विविधगणनां कृत्वा तेनोक्तं 'देव ! एते द्वे अपि भवदीये कन्ये अत्यद्भुतचरित उत्तमबलवीर्यसाहसयुतश्च भूगोचरो ८ वत्सराजनामा राजपुत्रः परिणेष्यति ।' राज्ञोक्तं - "किन्तु कथं तस्मै एते दातव्ये ?' अनेनाऽऽदिष्टं 'देव ! न भवत्पावें 4 एतयोस्तेन पाणिग्रहणं भविता, यतो भवदायुष्यमतीव स्तोकमस्ति, केवलं मासावशिष्ट| मेवाऽस्ति ।' 'तर्हि कथमत्र कार्य कर्तव्यम् ? कृपया कथयतु' इति राज्ञा विज्ञप्तम् । * ६८ Page #82 -------------------------------------------------------------------------- ________________ नैमित्तिकेनोक्तं ‘राजन् ! भवत एका भगिनी आसीत् या भूमिगोचरेण शूरनरेन्द्रेण परिणायिता तस्य चाऽत्यन्तं वल्लभाऽऽसीत् । अथाऽन्यदाऽन्यस्यां राजपुत्र्यामासक्तः स राजा तस्या विरक्तो जातस्तन्नामाऽपि श्रोतुं नोत्सहते स्म । एतेन साऽपि तव भगिनी तस्यां स्वसपत्न्यां विद्विष्टा बालतपः कृत्वा मृत्वा च सुप्रचण्डव्यन्तरदेवीतया समुत्पन्ना । साऽपि च तत्सपत्नी दानादिपुण्यं कृत्वा मृत्वा च दत्तश्रेष्ठिनो दुहितृत्वेनोत्पन्ना । अस्या व्यन्तरदेव्यास्तस्या उपरि अनन्यसमो द्वेषो विद्यतेऽतः सा " यः कोऽपि नरोऽस्याः प्राहरिकत्वेनाऽपि शयेत तमपि यमालयं प्रेषयिष्येऽहम्” इति विचिन्त्य प्रतिरात्रमेकैकं जनं कोपवशेन निहन्त्यद्ययावत् । अथ च तस्या व्यन्तरदेव्याः पार्श्वेऽस्या भावी भर्ता आयास्यति एते च भवत्कन्ये परिणेष्यति तथा तत्पूर्वमेव देव्याः सकाशात् पुरुषविनाशं रक्षित्वा तां दत्तश्रेष्ठिदुहितरमपि परिणेष्यति; नाऽत्र सन्देहः ।' एतन्निशम्य स मम पूर्वभवीयो भ्राता विद्याधरनृपः स्वीये द्वे अपि कन्ये मत्सकाशे आनीय स्वयं च किञ्चित् तपः कृत्वा कालगतः सन् व्यन्तराणामिन्द्रः सञ्जातः । तस्य च मयि महान् स्नेहो वर्ततेऽतस्तेनैषोऽश्वरूपधरो यक्षो मे किङ्करत्वेन दत्तस्तथा सर्वकामितदः पल्यङ्क ओषधिवलयद्विकमपि मे दत्तमस्ति । तदेतत् सर्वमपि कन्याद्विकेन सह तेऽद्य तुष्टाऽहं ददामि, स्वीकुरु सर्वमप्येतत् कुमार ! ।' तदा वत्सराजोऽपि हर्षनिर्भरो भूत्वा तत् सर्वं स्वीकृतवान् कन्ये च ते परिणीतवान् । ततः स तत्रैवोषित्वा शुभरसानुगतं सुखमनुभवन् कालं गमयति स्म । अथाऽन्यदा कदाचिद्रात्रौ सुप्तविबुद्धोऽसौ चिन्तयति स्म, 'अहो ! तादृशीं प्रतिज्ञां गृहीत्वाऽपि विषयमूढमना अहमत्र कालं व्ययीकरोमि ! कीदृशो मूढोऽहमस्मि ! नूनं मया सा प्रतिज्ञा पूरणीया ।' अतस्तेन स्वीये दयिते उक्ते- 'प्रिये ! मयेदृशी प्रतिज्ञा गृहीताऽस्ति, एतावता च कालेन पूरणीयाऽतोऽम्बां विज्ञप्य दिव्यं वस्त्रमेकं गमनाज्ञां च गृह्णीतं, येन वयं शीघ्रं गन्तुं शक्नुमः ।' ताभ्यामपि देवी विज्ञप्ता ‘अम्ब! कृपयाऽस्मद्भर्त्रे दिव्यं वस्त्रमेकं दत्त्वा गन्तुमनुमन्यतां येन स स्वीयगुरुप्रतिज्ञार्णवं तरीतुं शक्नुयात् । तदा सा सर्वामपि सामग्री सम्मेल्य ताभ्यां सह कुमारं शोकपूर्णहृदयेन विसृजति स्म । कुमारोऽपि तस्याः पादयोः पतित्वा स्वीयापराधं ६९ ܕܐܪܐ ܐܪܐܠ ܬܐ ܐܐ ܡܐ ܐܪܕܐ ܕܠ ܡܐ ܕܕܐܠ ܪܐ ܪܐ ܕܕ ܕܐ ܕܐ ܡܐ ܐܪܕ ܕܐ ܕܐ ܕ ܐ ܕܐ ܕܐ ܕܐ ܕܐ ܕܐ ܕܐ ܕܡܐ ܕ ܪ ܕܕܐ ܕ ܕܕ ܕ ܐ ܐ ܝ ܕܕ ܕܕ ܕ Page #83 -------------------------------------------------------------------------- ________________ पराधं क्षमयति स्म, यथा 'मातः ! क्षमतां मां यन्मया तदा भवत्याः पीडा कृता । तथा + तामपि मम गृहिणीभावमुपगतां श्रीदत्तां नितरां क्षमताम् ।' । देव्योक्तं 'पुत्र ! त्वं प्रभूतकालं जीव, यतस्त्वयाऽहं घोरं पुरुषवधं कुर्वाणा रक्षिता तथा साऽपि खलु श्रीदत्ता मम पुत्र्येवाऽस्त्यतः परम् । किञ्च त्वमनयोः कुलगृहरहितयोः मे पुत्र्योरुपरि स्नेहभावं कुर्याः, यतो मे जीवादपि प्रियतमे एते ।' तदा ते द्वे अपि रत्नचूला-कनकचूले देव्याः पादौ विलग्य मुक्तकण्ठं रुदतः स्म जल्पतश्च यद् ‘अम्ब ! आवयोः सर्वमपि बालापराधं क्षमताम् ।' तयाऽपि च र साश्रुनयनयाऽऽशिषं ददत्या कथितं 'वत्से ! श्वश्र्वौ भूयास्ताम् ।' ततस्तैस्त्रिभिरपि पल्यत समारुह्याऽऽदिष्टं 'याहि पल्यङ्क ! साम्प्रतं दत्तगृहे ।' सहसैव पल्यङ्क उत्पत्य तुरगयुतः श्रीदत्तावासगृहमवतीर्णः । अत्राऽन्तरे सूर्य उद्गतो जागृता * च श्रीदत्ता । सैनं तुरगसहितं पल्यवं दृष्ट्वा विस्मयचकिता जाता – 'किमेतदपूर्वं दृश्यम् ? - कथमेष पल्यत इह प्राप्तः ? कथं वैष तुरङ्गः प्रासादस्य सप्तमतलमारूढः ? किमेष मम मतिमोह: ? किं वा मम स्वप्न एषः ? अथवा देवताविलसितमेतत् ? इन्द्रजालं वेदम् ? * अथवा किं विकल्पितेन ? स्वयमेव निरूपयामि तावत् ।' ततस्तयोत्थायाऽऽच्छादनवस्त्रं किञ्चिदपावृतं तावत् तयैकत्र द्वे रमणीये रमणीमुखे म अन्यत्र च स्वभर्तृमुखं विलोकितम् । एतेन रभसपूरिता सा शीघ्रमेव निजजनकपाश्र्वं गत्वा निवेदयति स्म 'पितः ! भवज्जामातोपरि समागतोऽस्ति ।' तच्छ्रुत्वा तोषभरापूर्यमाणहृदयः प्र * श्रेष्ठी पृष्टवान् ‘पुत्रि ! कथं तव भर्ता गृहोपरिभागे प्राप्तः ?' तयाऽपि सर्वं वृत्तं कथितम्। - एतन्निशम्य श्रेष्ठी ससम्भ्रममुपरि गतवान् । तदा ते त्रयोऽपि जागृता आसन्, अत उत्थाय श्रेष्ठिनं नमन्ति स्म । श्रेष्ठिना चिन्तितं 'नूनमस्य पार्वे काऽप्यमानुषी शक्तिरस्ति, अन्यथा कथमेतत् 56 सम्भवेत् ?', पृष्टं चाऽऽतिथ्यादि कृत्वा यत् 'कोऽयमाश्चर्यकरो वृत्तान्तः ?' तदा कुमारोऽपि + निरहङ्कारचित्तेन सर्वमपि स्ववृत्तान्तं यथातथं कथितवान् । तेन सर्वथा चमत्कृतचित्तो* न दत्तश्रेष्ठी शिरो धूनयन् 'अहह ! अहो ! आश्चर्यकरं चरितमिदं जामातुः । तद् धन्या मे दुहिता येनेदृशो भर्ता स्वपुण्यैः प्राप्तः ।। - रे ७० Page #84 -------------------------------------------------------------------------- ________________ __ तावता वत्सराजेन विज्ञप्तं 'तात ! कृपया गमनाज्ञां प्रददातु येन मे जनन्यो तिं 57 समुत्पादयामि ।' तदा श्रेष्ठिनाऽपि ससत्कारं विसृष्टः स रात्रेः प्रथमे प्रहरे सह कान्तात्रयेण से पल्यङ्कमारूढः, आदिशति स्म च 'याहि सम्प्रति उज्जयिनीपुर्यां मम गृहे पल्यङ्क !' तावता अ क्षणार्धेनैव पल्यङ्कस्तत्र सम्प्राप्तः । अथ च सञ्जाते प्रभातसमये कुमारजननी तन्मातुःष्वसा च कुमारशय्यापार्श्वे के - प्रतिदिनमिवाऽऽरात्रिकं कर्तुमुपस्थिते तावत् ताभ्यां ते चत्वारोऽपि तत्र सुप्ता दृष्टाः । तदा ते * उल्लसितहदये शनैः शनैरपसर्प्य बहिर्गते । ततः क्षणान्तरेण पुनरपि तत्र गते तावत् कुमारोऽपि र सभार्यस्तयोः पादेषु पतितो भणितवांश्च, 'मातरौ ! एता युवयोर्वध्वः सन्ति ।' ताभ्यामपि * साशिषं ता अभिनन्दिताः । ततः कुमारो नृपास्थानं गत्वा नरपति-देव्योः सविनयं नत्वा तद् वस्त्रं समर्पितवान् । * तद् दृष्ट्वा देवी बहु हृष्टा भणितवती 'पुत्र ! मज्जीवितेनाऽपि त्वं चिरायुष्को भूयाः ।' * राज्ञाऽपि च वस्त्रालङ्कारादिभिः सत्कृत्य स तस्येतिवृत्तं पृष्टः । तदा तेनाऽपि स्ववृत्तान्तः 5 कथितः, यथा च कन्यात्रयं परिणीतं तदपि कथितम् । एवं तेन पल्यङ्क-तुरगप्राप्ति विना * सर्वोऽपि वृत्तान्तो राज्ञे विनिवेदितः । एतच्छ्रुत्वा ससभासदौ नृप-देव्यौ आश्चर्यचकितौ जातौ । ततः कुमारोऽपि राजानमापृच्छ्य स्वप्रासादं विनिवृत्तः सन् सुखमग्नोऽभवत् । अथाऽन्यदा कनकश्रीदेवी सहसा पञ्चत्वं प्राप्ता । तस्या विरहे राजाऽऽत्मानं शून्यमिव में 4 मन्वानो नितरामुन्मत्त इव सञ्जातः । ततश्च न किञ्चित् कार्यं कर्तुमुत्सहते स्म नाऽपि स्वशरीरस्थितिं निभालयति स्म । तदा वत्सराजकुमारेण तद्बोधनाय कथितं- 'देव ! भवादृशामेतादृशं शोचनं न सर्वथा युक्तम् । यतोऽसारस्वरूपे संसारे तु-पाण्डूभूतं तरोः पत्रमिव, विद्युद्गात्रमिव, दर्भाग्रलग्नजलबिन्दुवत्, जलमध्येन्दुवत्, मेघमध्यस्थेन्द्रचापवत्, 5 कपटिजापवत्, गजस्य कर्ण इव ध्वजस्य चाऽग्रमिव जीवितं सर्वथा चञ्चलमस्ति । किञ्चैतत् * सुरैर्वाऽसुरैर्वा दानवैर्वा मानवैर्वा राक्षसैर्वा भेक्षसैर्वा शस्त्रैर्वाऽस्त्रैर्वा बान्धवैर्वा धवैर्वा नैव म रक्षितुं शक्यम् । अतोऽस्य पारावारस्य संसारस्य स्वरूपं संबुध्य तदुत्तारणपोतकल्पं धर्मकल्पतरूं - भजताम् ।' ईद्वंशि बोधवचनानि श्रुत्वा नराधिपः किञ्चित् स्वस्थ इव जातः । सर्वकार्येषु र For Privat७१ersonal use Only Page #85 -------------------------------------------------------------------------- ________________ 5 व्यवहारेषु च प्रवृत्तिं कर्तुं प्रारभत । ___ अथाऽन्यदा वत्सराजकुमारः सह स्वभार्याभिरुपविष्टश्चर्चा कुर्वाणोऽवदत् ‘प्रियतमाः! यदि युष्माकमुचितं प्रतिभाति तदा नृपतिमस्माकं गृहे आमन्त्र्य भोजनादिकं कारयितुमिच्छामि।' तदा ताभिरुक्तं 'स्वामिन् ! नृपस्य गृहानयनं न युक्तम् । यदि भवत एषेच्छा तदा राजभवने पर 56 एव भोजयतु ।' कुमारेणोक्तं ‘एवं कुर्वता तु न किञ्चिद् गौरवं स्यात् कान्ते !, अतोऽत्राऽऽनीयैव । राजगौरवं कर्तव्यम् ।' तदा दयिताभिः कथितं 'प्रिय ! यद्येष एव भवतो निश्चयस्तर्हि * राजानमानयतु गृहे, किन्तु तस्य न दर्शयितव्या वयम् ।' एवं भवतु' इति स्वीकृत्य कुमारोऽपि नृपमामन्त्रयितुं गतवान् । तदीयां भावनां 5. ज्ञात्वा नृपेणोक्तं 'ननु कोऽपि कदाचिदपि राजानं न निमन्त्रयति, यत एवंकरणे महान् र * संरम्भः कर्तव्यो भवेत् । अतः सन्तोषं विधेहि भोः !' अनेनोक्तं 'देव ! मम तु एवंकृत + एव सन्तोषो भवेत् ।' तदा राजा वदति स्म 'यदि तवैवंकृते एव धृतिः स्यात् तर्हि - अहमल्पपरिवारयुत आगमिष्यामि।' अनेन भणितं 'मैवं स्वामिन् ! भवता तु सकलसामन्त5 मन्त्र्यादिपरिवारयुतेनैवाऽऽगन्तव्यमन्यथा मे सन्तोषो नैव भवेत् ।' तदा तदसन्तोषभयेन र * नरेन्द्रेण महता कष्टेन तत् प्रतिपन्नम् । अयमपि च 'महाप्रसाद' इति भणित्वा निजगृहं * गतवान् । गृहं गत्वा स उपरितने प्रासादतले स्वप्रियाभिः सह शारिद्यूतेन क्रीडति स्म । इह में सच राज्ञा स्वप्रतिहार आदिष्टो यत् ‘पश्यतु तस्य गृहं यत् कियान् पाकोपस्कारः प्रगुणीकृतोऽस्ति में तेन, यथा तदनुसारमेव गच्छेयम् ।' प्रतिहारोऽपि 'आदेश' इति कथयित्वा तद्गृहं गत्वा च यावनिरीक्षते स्म तावन्न किमपि पाकसामग्र्यादि दृश्यते स्म । अतस्तेन कुमारमात्रे पृष्टं - 'अम्ब ! कुमारः क्व गतः ?' तयोक्तं 'शारिभिः क्रीडति ।' I ततो राजान्तिकं गत्वा प्रतिहारस्तत् सर्वं विनिवेद्य कथयति स्म 'देव ! तद्गृहे तु " 4 धूमोऽपि न दृश्यते खलु ! सम्प्रति देव एव प्रमाणम् ।' तदा राज्ञा मन्त्रिमुखं विलोकितम् । - तेनोक्तं 'देव ! तस्य वचनं तु न कदाऽप्यन्यथा स्यात् ।' अतो राज्ञा द्वितीयः प्रतीहारोऽन्यद गृहं द्रष्टुं प्रेषितः । तेनाऽप्यागत्य तदेव कथितम् । तदा विस्मितचित्तो राजा स्वसेवकान् सर्वत्र नगर्यां गवेषयितुं प्रेषितवान् । तेऽपि तथैव गत्वा निरीक्ष्य च प्रत्यागता यावत् कथयन्ति राजानं For Private & Sonal Use Only Page #86 -------------------------------------------------------------------------- ________________ बतावतैव कुमारस्तत्राऽऽगत्य विज्ञपयति स्म 'प्रभो ! इदानीं समयो जातः, कृपया मद्नेहे सपरिवारः समागच्छतु ।' राज्ञोक्तं 'किं भोः ! वयमेव ते विप्रतारणास्पदं वा? येन प्रत्यक्षं विप्रतारयसि ?' कुमार उक्तवान् ‘स्वामिन् ! कदा वा मयाऽलीकं भाषितम् ?' राजा कथितवान् 'तव गेहे न काऽपि सामग्री विद्यते ननु !' वत्सराजेनोक्तं 'प्रभो ! अस्ति नास्ति * वेति तु तत्रैव प्रत्यक्षं भविष्यति । कृपयैकवारं मद्गृहमागच्छतु ।' तदा हृदये कोपं वहन् राजा सपरिवार उत्थितः । यावत् स कुमारगृहद्वारं प्राप्तस्तावत् गगनाग्रलग्नध्वजपटमालाभिर्विराजमानमुत्तुङ्गं मण्डपं विलोकितवान् । तत्र च शतशो हेममयाः । र स्तम्भाः सुरम्याश्च तोरणमालाः शोभमानाः आसन् । एतद् दृष्ट्वा राजा प्रतीहारं भत्सितवान्KA 'किं रे पाप ! इयानुत्तुङ्गोऽपि मण्डपस्त्वया न निरीक्षितः ?' तेनोक्तं 'प्रभो ! अत्र तु निश्चयेनैष मण्डपो नैवाऽऽसीत् ।' राज्ञोक्तं 'भोः ! एष तु मासेन निर्मीयते । तत्कथं नाऽऽसीत् ?' एवं ते यावत् परस्परं वदन्तो मण्डपद्वारं प्रविष्टास्तावत् तत्र शतशो दासी-दासाः * कार्यव्यग्रा भ्रमन्तो दृष्टाः । मण्डपान्तश्च दिव्यवस्त्रानामुल्लोचाः सुबद्धा आसन्, येषां प्रान्तानि 55 मणि-रत्नमयस्तम्भाग्रेषु बद्धान्यासन् । कुत्रचिद् मुक्तामया स्वस्तिका विरचिताः, कुत्रचिच्च र * पञ्चवर्णकुसुमग्रथितानि विविधचित्राणि विरचितान्यासन् । मध्येमण्डपं च भोजनायोपवेशनार्थं ** में सुप्रशस्ता आसनपङ्क्तयः प्रस्तारिता आसन् यन्मध्ये नृपोपविष्ट्यै उत्तममेकं सिंहासनं र संस्थापितमासीत् । सर्वेषामपि तेषामासनानां पुरतः कनक-रजतमया स्थाल-कच्चोलकचपकादयः स्थापिता आसन् । कुमारेणाऽग्रे आगत्य सपरिजनो भूपतिः साग्रहं सादरं ससम्मानं चाऽसनेषूपवेशितः । ततः सर्वेषां हस्ता भाजनेषु क्षालयित्वा सेवकैर्भोजनपरिवेषणमारब्धवान् सः । तस्य षड्रसमयस्य भोजनस्य सुगन्धेनैव सर्वेऽपि विस्मिता जाताः । यदा च विविधाः खाद्यपदार्थाः 5 स्थालेषु परिवेषितास्तदा तु तान् दृष्ट्वैव सर्वे चिन्तयन्ति स्म यद्ननु ईदृशं भोजनं तु न * कदाऽपि दृष्टं भुक्तं वा । नूनमेतन्न मर्त्यलोकसमुद्भवम् ।' यावच्च ते भोक्तुमारब्धा तावत् तु 'अहो ! इयत् स्वादु ? इयन्मधुरम् ? कुत आनीतम् ? केन वा पक्तम् ? कथं वा - लब्धम् ?....' इत्यादय उद्गाराः सर्वेषां मुखेभ्यः श्रूयन्ते स्म । तावता कुमारेण चिन्तितं यद् 'ननु सर्वोऽप्ययं संरम्भो निरर्थक एव यावन्मेऽन्तः ७३ Page #87 -------------------------------------------------------------------------- ________________ 7 पुरमेतेषां पुरतः प्रकटं न भवेत् !' । अतस्तेन तिस्रोऽपि स्वभार्या उक्ता 'भोः ! यूयं स्वयमेव परिवेषणं कुर्वन्त्यो यदि मम स्वामिनो गौरवं कुर्युस्तदा वरम् ।' एतन्निशम्य ताभिर्वमृष्टं परस्परं यद् 'अहो ! नेदमुचितं कृतं प्रियेण । तथाऽपि पत्युराज्ञाऽनुल्लङ्घनीयैव । ' इति विचिन्त्य ता अपि विविधानि द्रव्याणि परिवेषयितुमारब्धाः । किन्तु यथा यथा राज्ञा तासां रूपं निर्वणितं तथा तथा स व्याकुलो जातः । पञ्चेषुस्तमतीव तीक्ष्णैरिषुभिः सर्वेष्वङ्गेषु तथा विध्यति स्म यथा स सर्वमपि भोजनादिकं विस्मृत्य तदेकचित्तः सञ्जातः । ततो यथाकथमपि स आचमनजलमानाय्य महता कष्टेनाऽऽचान्तस्ताम्बूलं च गृहीत्वा द्रुतमेव ततो निर्गतवान् स्वप्रासादं प्राप्तस्याऽपि तस्य मनस्तु तासां तिसृणां रूपसम्पद्येव लुब्धमासीत् । अतः 'केनाऽप्युपायेन ताः स्वाधीनाः कर्तव्या' इति विचिन्त्य स स्वमन्त्रिमण्डलमाहूतवान्, कथितवांश्च स्वमनोगतम् । तैरपि परस्परं मन्त्रयित्वा कथितं 'देव ! यावत् स वत्सराजो जीवितोऽस्ति तावन्न भवन्मनोरथः सेत्स्यति ।' 'तर्हि तस्य कीनाशगृहप्रेषणोपायं विचिन्तयन्तु भोः !' इति राज्ञोक्ते एकेन मन्त्रिणा कथितं 'श्वो यदाऽयमास्थाने आयास्यति तदा सिंहनृपासने उपवेशनीयोऽयं, येन क्रुद्धः सिंहराजाऽतिबलवत्त्वान्मारयिष्यत्येनम् ।' 'शोभनोऽयमुपायः ' इति कथयित्वा राज्ञा द्वितीयदिने आस्थाने तदेव कृतम् । སz ܕ ܕ ܐ ܕ ܐ ܕ ܐ ܕ ܐ ܕ ܕ ܕܐ ܕ ܕ ܕ ܕ ܕ ܕ ܕ ܕܕ ܕ ܐ **** XXXXX यदा च कुमारः सभाया निर्गन्तुमुद्यतस्तदा सिंहनृपोऽपि रे ! रे ! किं मदासनेऽप्युपविश्य जीवितुमिच्छसि ? आगच्छ मत्सम्मुखं, पुरुषो भव सम्प्रति' इत्यादिवचोभिस्तं भर्त्सयितुमारब्धः । तदा कुमारोऽपि प्रतिनिवृत्य यावत् पश्यति तावत् सकलमपि सैन्यं तस्योपरि निपतितम् । अयं तु तन्मध्ये गत्वा सिंहराजमेव हस्ताभ्यामुत्पाटितवान् शिरस उपरि भ्रामयित्वा च तथा प्रक्षिप्तवान् यथा स नगराद् बहिः पतितः सन् प्राणैर्वियुक्तो जात: । एतद् दृष्ट्वा हतनायकं सैन्यं राज्ञः पार्श्वे प्रतिनिवृत्तम् । कुमारोऽपि गृहं गत्वा स्वपत्नीभ्यो यावत् सर्वं कथयति तावता ताभिरेवोक्तम् 'किमद्य सिंहेन सह युद्धं जातं वा ? यदा भवता स प्रक्षिप्तस्तदाऽस्माभिरेव तथा विहितं यथा स प्राणैर्वियुक्तः । किन्त्वेतत् सर्वमपि भवद्विलसितस्यैव फलमस्ति । तथा एतत् तु प्रथममेव, यत इतोऽप्यग्रे भवता बहव्य आपदोऽत्र सम्मुखीकर्तव्या: । ' इतश्च नृपामात्यादयः सिंहे हते पुनरपि मन्त्रणार्थं मिलिताः परस्परं वदन्ति स्म यत् ७४ ܐ ܕܐ ܕܐ ܕܐ ܕܐ ܕ ܕܕܐܪ ܕܕ ܕܐ ܐ ܕܕ ܐ ܐܕܐ ܐܐ ܐ ܕ ܕ ܕ ܕ ܕ zzzzz༡z Page #88 -------------------------------------------------------------------------- ________________ 5 'नन्वनेन तु सिंहोऽपि हतः । ततो बली तु नाऽन्यः कोऽपि विद्यतेऽत्र । अतोऽन्यमेव कञ्चिदुपायं गवेषयामो येन नृपकार्य सिध्येत् ।' एतावताऽन्यो मन्त्री कथितवान् ‘भोः ! तं व्याघ्रीदुग्धानयनार्थं प्रेषयामो, येन व्याघ्रयैव तां हन्यात् ।' एतच्छ्रुत्वा सर्वैः ‘साधूपायोऽन्विष्टो भवता' इति स प्रशंसितः । ततश्च द्वितीयदिने राजाऽऽस्थानमध्ये उद्घोषितवान् 'अस्माकं व्याघ्रीदुग्धेन प्रयोजनमस्ति, अतो वनं गत्वा कस्तदानेष्यति ?' एतच्छ्रुत्वा सर्वेऽपि सुभटा मरणहै भीरुतयाऽधोमुखाः संस्थिताः । तदैकेन मन्त्रिणा 'प्रभो ! एतत्कार्यस्य सामर्थ्य वत्सराजाद र म ऋते नाऽस्त्यन्यस्य कस्यचिद्' इति कथिते राज्ञा यावत् कुमारमुखं विलोकितं तावत् 2 * कुमारोऽपि समुत्थाय 'आदेशः' इति भणित्वा राजभवनान्निर्गतः ।। 4 विमनाः स यावन्निजगृहं प्राप्तस्तावत्तस्य प्रियाभिरागत्योक्तं "किं नाथ ! अद्याऽतीव * व्याकुलो दृश्यते ? किं जातम् ?' अनेनोक्तं 'न किञ्चिदपि ।' तदा ताभिरुक्तं 'किमद्याऽपि ? सह राजादेशपालनं न विहितम् ?' अयमुक्तवान् ‘प्रिये ! केनेदमभिहितं शीघ्रमेव युष्माकम् ?' * ताभिरुक्तं - 'स्वामिन् ! अस्माभिरेव श्रुतमेतत् । यतो भोजनदिनादारभ्य भवद्रक्षार्थं वयमदृश्यतया नित्यं भवत्सन्निहिता एव भवामः । तथा स दुष्टः सिंहराजोऽप्यस्माभिरेव हत TA आसीत् । अनेनैव कारणेनेदमस्माभिमा॑तम् ।' अथ यदि राज्ञा भवान् व्याघ्रीदुग्धायाऽऽदिष्टस्तहि । शीघ्रमेव दिव्याश्वमारुह्य भीमाटवीं गच्छतु । तत्क्षेत्रदेवी हि नो जननीदेव्याः सखीभूता तत्रैव 5 * व्याघ्रीरूपेण वसति । सैनमश्वमुपलक्षयिष्यति । तामेव कर्णेन धृत्वाऽत्राऽऽनीय राज्ञे समर्पयतु ।' एवं भणितो वत्सराजः सत्वरमेवाऽश्वरूपधरं यक्षमारुह्य क्षणार्धेनैवाऽटवीं प्राप्तो अ दृष्टश्च व्याघ्रीरूपया देव्या । साऽपि देवी तं दृष्ट्वा तत्पार्श्वमागता कथितवती च 'स्वागत* मिहाऽस्ति तव पुत्र !, कथय किं मेऽस्ति कार्यं तव ?' तदा कुमारेण राजाज्ञादिप्रयोजनं 56 कथितम् । तया गदितं 'नय मां तत्र येन दुष्टानां यथोचितं करिष्ये ।' - ततः कुमारोऽपि तां गृहीत्वा नगरी प्राप्तः सन् जनान् भापयति स्म । जना अपि में स तां दृष्ट्वा भीताः सर्वदिक्षु प्रणष्टाः । अयमपि च व्याघ्रीं गृहीत्वा नृपास्थानं प्राप्तो भणति स्म च 'देव ! गृह्णात्वेनां नवप्रसूतां महाव्याघ्री यथेच्छं च दुग्धं दुहन्तु ।' भणित्वा च व्याघ्रीं मुञ्चति स्म । तदा सा व्याघ्री परामर्शस्याऽस्य दायकं मन्त्रिणं गृहीत्वा हतवती । एतदृष्ट्वा A भीतेन राज्ञा कथितं 'भो ! वत्सराज ! मा कार्षीरीदृशं कर्म । कृपया गृहाणैतां व्याघ्रीं येन ** ७५ Page #89 -------------------------------------------------------------------------- ________________ - बम सर्वेऽपि क्षयं मा प्राप्नुयुः ।' अतः कुमारेणाऽपि झटिति सा कर्णेन गृहीता । 4 ततो राज्ञोक्तं 'भद्र ! नाऽस्माकमनया किञ्चित् कार्यम् । यत आनीता तत्रैव तां नय।' तथा जनैरपि तां नेतुमेव प्रार्थितमतः कुमारस्तां स्वगृहं नीतवान् । तत्र तद्भार्याभिस्तस्याः । सत्कारादिप्रतिपत्तिः कृत्वा क्षमा याचिता । ततः साऽपि शीघ्रं स्वस्थानं गता । कुमारस्तु सानन्दं ससुखं च स्वभार्याभिः कालं यापयति स्म । अथाऽन्यदा राज्ञः स्मृतिपथे पुनरपि तास्तिस्रोऽवतीर्णाः । एतेन राजा नितरां वैकल्यं * प्राप्य विमनस्को जातः । तं च तदवस्थं दृष्ट्वा पुनरपि मन्त्रिभिर्विमर्शं कृत्वा निर्णीतं यद में 55 'इदानीं स यमलगिरिनीरानयनार्थं प्रेषणीयः' इति । ततः सभायां राज्ञा स आदिष्टः ‘भोज * वत्सराज ! यमलगिरिं गत्वा तत्रत्यं जलमानीय च मे देहि येन मम देहः सर्वथा नीरोगो * म दृढश्च जायेत ।' कुमारेणोक्तं 'भवदादेशः प्रमाणं प्रभो !, अवश्यं तदानेष्यामि । किन्तु स गिरिः कुत्र विद्यते ? कृपया कथयन्तु माम् ।' मन्त्रिभिरुक्तं यथा - "विन्ध्याटव्या मध्ये में यमलनामानौ द्वौ पर्वतौ स्तः, तयोर्मध्ये चैकः कूपोऽस्ति । तौ द्वावपि पर्वतौ वियुज्यते संयुक्तौ । * च भवतः । वियोजनसमये यदि तन्मध्ये प्रविश्यते तदा जलं लभ्यते ।' एतन्निशम्य कुमारो नृपाज्ञां गृहीत्वा गृहं च गत्वा स्वप्रियाः पृष्टवान् ‘कथं तत्र 4 गन्तव्यम्' इति । ताभिरुक्तं 'तुरगमेनं समारुह्य तत्र गच्छतु । जनन्या अपरैका सखी तत्र * शकुनिकारूपेण वसति । सैव भवत्कार्यं साधयिष्यति ।' अयमपि तथैव तत्र गत्वा यावत् पश्यति स्म तावत् शकुनिकैकाऽऽगता तं प्रत्यभिज्ञाय च तत्कथनानुसारं यमलगिरिकूपाद - जलभृतामेकां तुम्बिकामानीय तस्मै दत्तवती । ततः सोऽपि तां वन्दित्वा जलं च गृहीत्वा 5 नरेन्द्रपार्वे आगतस्तज्जलं च नृपाय समर्पितवान् । मन्त्रिभिरपि तत् परीक्ष्य कथितं यत् * 'सत्यमिदम्' इति । ततो राज्ञा विसृष्टः स निजगृहं गतः । इतो राजा मन्त्रिणश्च पुनरपि चिन्तानिमग्ना जाता यद् 'अयं केनाऽप्युपायेन न र से म्रियते, तत् कथमसौ निग्रहीतव्यः ? यद् दुष्करतममपि कार्यं स्यात् तदसौ लीलयैव र 5 साधयति ।' राज्ञा कथितं 'यद्यप्येवमस्ति तथाऽपि भवद्भिपाय: कश्चिदन्वेष्टव्य एव, यदि * युष्माकं मम जीवितं प्रियम्; अन्यथाऽहमेवमेव कन्दर्पदर्पमसहिष्णुर्मरिष्यामि ।' एतन्निशम्य में मन्त्रिणो गभीरचिन्तनं कृत्वा परस्परं चाऽऽलोच्य नृपपुरत एवमूचुः 'अथाऽत्रैक एवोपायो| ऽनन्यसदृशो विद्यते । प्रथमं तु भवत्पुत्र्याः सुरसुन्दर्या विवाहसामग्री प्रगुणीकृत्य सर्वेभ्योऽपि | (Maraikikikikikatarian ७६ Page #90 -------------------------------------------------------------------------- ________________ नृप-नृपपुत्रादिभ्यो निमन्त्रणानि प्रेषयतु । इतश्च नगर्या दक्षिणे भागे एकमत्यन्तविशालं प्रत्यक्षं * यमगृहमिव यमगृहं निर्मापयतु । ततो वत्सराजं यमराजनिमन्त्रणार्थं तत एव प्रेषयतु । एवं र कृतेऽसौ निश्चप्रचं यमराजप्राघूर्णको भविष्यति ।' निशम्यैतद् राज्ञा सहर्ष कथितं 'नूनं युष्माकं बुद्धिरतीव शोभनाऽस्ति । निःसन्देहसमयमेवोत्तम उपायः । निर्विलम्बमयं क्रियताम्' इति ततस्तैरपि नगरान्तर्विवाहसामग्री * प्रगुणीकृता । नगराद् बहिश्च यमगृहस्य सामग्रीरपि सञ्चिताः । तथा हि - प्रथमं त्वेका महती गर्ता खनित्वा तदन्तः खदिरवृक्षकाष्ठानि पूरितानि, तथाऽन्यान्यपि विशिष्टेन्धनानि प्रक्षिप्तानि । ततस्तिलस्य बहवः स्यूतास्तस्मिन् विकीर्णास्तदुपरि च तुषनिकरः कोद्रवादिक्षुद्रधान्यानां 56 राशयश्च क्षिप्ताः । तदनन्तरं तस्मिन् तैलादिस्नेहं परिषिच्याऽग्निः प्रज्वालितः । क्षणार्धेनैव स से तथा प्रज्वलितो यथा कृतान्त एवाट्टहासं कुर्वन् प्रतिभाति स्म । अयं चाऽग्निः षण्मासैरपि विध्यातुं दुःशक एवाऽऽसीत् । एवंविधं यमगृहं विधाय मन्त्रिभिनुपाय विज्ञप्तं 'प्रभो ! अधुना है विविधदूतैः सर्वनृपादिभ्यो निमन्त्रणं दत्त्वा यमराजं निमन्त्रयितुमयमेव प्रेष्यताम् ।' एतच्छ्रुत्वा तुष्टेन राज्ञा दुष्टाशयेनाऽऽस्थानमध्ये उद्घोषितं यद् 'मदीयकन्याया परिणयावसरेऽहं यमराजमपि निमन्त्रयितुमिच्छामि । कस्तत्र गत्वा तस्मै मम निमन्त्रणं दास्यति ? सर्वेऽपि यूयं स्वामिभक्ता ननु !!' श्रुत्वेदं भयभीताः सर्वे न किञ्चिद् वदन्ति स्म। तदा नृपेण वत्सराजाय कथितं 'त्वमेव वत्स ! अत्राऽर्थे शक्तिमान् खलु ! तद् याहि । यमराजनिमन्त्रणार्थं भोः !' कुमारोऽपि 'यथादेशः प्रभोः' इति तत् प्रतिपद्य ततो निर्गतः । * राजा त्वेतेनाऽतीव हृष्ट आशामोदकानास्वादयितुं प्रवृत्तो यथा 'अतः परं मे सर्वाण्यपि समीहितानि निष्प्रत्यूह सेत्स्यन्ति ।' अथ कुमारोऽपि स्वगृहं प्राप्तो भार्याभिर्भणित उपालब्धश्च 'प्रियतम ! इयतो वारान् र निवारितोऽपि भवान् ततो न निवर्तते । अतीव प्रभुभक्तोऽस्ति भवान् । तत् किमिति प्रभुवचनं न करोति ?, भवतः स एव प्रभुः सुन्दरः प्रतिभाति यो भवन्तं यमपार्वे प्रेषयति । * अस्मादृशां हितैषिणां वचनानि तु भवते नैव रोचन्ते । तथाऽपि भवतेदमतिदुष्टं प्रेषणं सर्वथा न कर्तव्यम् ।' तदाऽनेन भणितं 'प्रियाः ! मेदृशानि वचनानि भाणिष्ट । यन्मया प्रतिपन्न - तत् प्रलयेऽप्यन्यथा न भवेत् ।' ७७ Page #91 -------------------------------------------------------------------------- ________________ एतन्निशम्य रत्नचूलया हसित्वा भणितं 'स्वामिन् ! यद्येष एव भवतो निश्चयस्तदाऽयं * यक्ष एव भवत्प्रतिरूपं कृत्वा गमिष्यति । भवता तु नैव गन्तव्यं प्रत्युताऽत्र भवने उपरितने तले गुप्ततया वसितव्यम् । अत्र यत्कर्तव्यमस्ति तत् सर्वं वयमेव विधाय सुस्थं करिष्यामः ।' मा कुमारस्तत् प्रतिपन्नवान् । ततः स किङ्करयक्षो वत्सराजरूपं धृत्वा विशेषेण स्फारशृङ्गारादि कृत्वा च राजपाबें में गतः कथितवांश्च ‘देव ! अहं गन्तुं सिद्धोऽस्मि किन्तु कतिदिवसैर्मया प्रतिनिवर्तितव्यम् ?' राज्ञोक्तं 'मासेन' इति । 'यद्येवं प्रत्यक्षमेव तत्राऽऽगत्य मम सत्त्वं पश्यन्तु' इत्ययमुक्तवान् । तदा राजाऽपि मन्त्रिभिः सह गान्तिकं गतः । तेषु अन्येषु च बहुषु नगरजनेषु पश्यत्स्वेवाऽयं * यमगृहं प्रविश्य निमेषमात्रेणैवाऽदर्शनीभूतः । एतद् दृष्ट्वा हृष्टचित्तो राजा मन्त्रियुतो निजप्रासादं प्राप्तः । शेषा जना अपि खिन्नमानसा निजनिजस्थानं गताः परस्परं भणन्ति स्म । 'अहह ! अहो ! रागान्धेन राज्ञेदं नृशंसं कार्यं कृतम् । हा वत्सराज ! दीनवत्सल ! त्वां में * विनाऽद्य नगरमेतत् स्मशानवच्छून्यं सञ्जातम् । हा ! गुणनिधे ! कदा पुनरपि त्वामत्र विलसमानं द्रक्ष्यामो वयम् ?' इतो राज्ञा स्वमन्त्रिजनाः प्रोक्ता 'भोः ! अद्यैव तास्तिस्रोऽप्यत्राऽऽनयत येन मे चित्तसन्तापो निर्वापितः स्यात् ।' तैः कथितं 'स्वामिन् ! मैवमत्युत्सुको भूत् । यतोऽन्यथाऽपि । * भवद्विषयेऽद्याऽतिदारुणो लोकवाद उच्छलितोऽस्ति । एवंकृते तु सर्वोऽपि जनपदो भवतो विरक्ष्यते । अतो मासमात्रं प्रतीक्षतां प्रभो ! ।' राज्ञाऽपि तत् प्रतिपद्याऽतिकृच्छ्रेण कथमपि र मासो यापितः । पूर्णे च मासे स मन्त्रिणो भणति स्म 'भोः ! मासस्तु पूर्णो जातोऽद्याऽपि x किमिति चिरयत ?' मन्त्रिभिरुक्तं 'अद्यैव देवादेशः करिष्यते ।' ततस्ते चत्वारोऽपि वत्सराजगृहगमनार्थं सनद्धा जाताः । अत्राऽन्तरे रत्नचूलादिभिस्तिसृभिरपि वत्सराजकुमारः प्रवरमज्जनविधिना स्नपयित्वोत्तमं शृङ्गारं च कारयित्वा राजास्थानगमनार्थं सन्नहितः । तथैव यक्षद्वारा निजजनकं , व्यन्तरेन्द्रमाकार्य सर्वं वृत्तान्तं च कथयित्वा ततस्तदीयान्याभरणानि गृहीतानि । तानि च । सर्वाण्यप्याभरणानि कुमारेण परिधापितानि । ततः कुमारं यक्षतुरङ्गे समारोप्य तत्पुरतश्च में सदण्डं व्यन्तरेन्द्रं संस्थाप्य ते नगरमध्यात् पार्थिवसभायां प्रेषिताः । तं दृष्ट्वा सर्वोऽपि नगरलोकः प्रमोदरोमाञ्चकण्टकितो जातो भणति स्म च ७८ Page #92 -------------------------------------------------------------------------- ________________ 5 'अहो ! अयमेष वत्सराजकुमार आगच्छति । नूनमद्याऽपि नगर्या जनपदस्य च पुण्यानि 4 जागर्ति यदेष महासत्त्वोऽक्षतदेहतयाऽत्र प्राप्तः ।' न कुमारोऽपि च तादृशि शुभवचांसि शृण्वन् नृपभवनसिंहद्वारं प्राप्तः । तं दृष्ट्वैव हृष्टः में प्रतीहारो धावित्वा राजसमीपं गतो विज्ञपयति स्म च 'देव ! द्वारदेशे वर्यकुमारो वत्सराजः । * प्रतिरुद्धः सन्तिष्ठति ।' तच्छ्रुत्वा विस्मय-कोप-नैराश्यादिभावान् सहैवाऽनुभवन् राजाऽऽदिष्टवान् सकष्टं 'प्रवेशय तमन्तः ।' प्रतीहारस्तु द्वारं प्राप्य कुमारमुक्तवान् 'प्रविशतु भोः !, भवान् * राज्ञाऽनुज्ञातोऽस्ति ।' सोऽपि च स्मितस्मेराननः सभायां प्रविशति स्म । अथाऽऽयान्तं तं सर्वेऽपि सभासदो हसन्नयनमालाभिरचितवन्तः । कुमारस्तु राजानं * सादरं सविनयं च प्रणम्य निजासने उपविष्टः । नृपस्तु तं दृष्ट्वा 'मृतोऽप्ययं कथं जीवितः ? कथं वा गतः ? कथं वाऽऽगतः ? मत्समीहितं नैव सिद्धं !, ननु कथमेतत् संभवेत् ?' इत्यादिविविधचिन्तया ग्रस्तः सन् कुमारं पृच्छति स्म - 'वत्स ! अस्ति कुशलं त्वद्देहे ?' 4 तेनोक्तं 'प्रभो ! भवत्पादप्रसादेन कुशलमेवाऽस्ति ।' 'किमस्माकं सुहृद् यमराजः सुखित + आस्ते ?' इति राज्ञा पुनः पृष्टम् । अनेनोत्तरितं 'देव ! यमस्तु नित्यमपि सुखितो वर्तते । * तथा भवदुपरिष्टादनन्यसमं स्निग्धबन्धुत्वमुद्वहति सः, कथयति स्म च "बहुकालानन्तरं अ भवता स्मृतोऽह" मिति । अथ च भवद्धृत्योऽप्यहमत्यद्भुतगौरवेण सम्भावितोऽस्मि, यतस्तेन * मे एतदाभरणादिकमपि दत्तमस्ति, पश्यत्विदम् । किञ्च भवत्प्रत्ययार्थं निजप्रतीहारोऽप्येष प्रेषितोऽस्ति' इत्युक्त्वा तेन पुरःस्थो व्यन्तरेन्द्रो दर्शितः राजाऽपि तं दृष्ट्वाऽनिमेषदृष्ट्यादिकानि च सकलान्यपि देवचिह्नानि निरीक्ष्य च तस्य देवत्वं निश्चितवान् । तावता दण्डधररूपेण व्यन्तरेन्द्रेण कथितं 'राजन् ! अस्माकं स्वामिनोक्तमप्यस्ति से यद् "एवमेव भवता स्वपुरुषा नित्यमस्मत्पावें प्रेषयितव्याः । तथा भवता सह यदि * मिलनमभविष्यत् तदा सुन्दरमभविष्यत्, किन्तु इतस्तत्राऽस्मदागमनं न सम्भवेद् यत् । - इन्द्रस्याऽऽजैव नास्ति । अतो भवतैवाऽत्राऽऽगन्तव्यम्" इति ।' एतन्निशम्य सर्वेऽपि यमालयगमनाय समुद्यता जाताः । एतद् दृष्ट्वा दण्डधरेणोक्तं * 'यदि भवतां तत्र गमनाय चित्तमस्ति तर्हि मया सहैवाऽऽगच्छन्तु ।' तदा राजादयः सर्वेऽपि * तेन सार्धं नगराद् बहिर्विरचितं यमगृहं प्राप्ताः । सर्वप्रथमं तु दण्डधर एव तं प्रविष्टस्तत्पृष्ठतश्च र चत्वारोऽपि मन्त्रिणस्तं प्रविष्टाः, क्षणार्धेनैव च भस्मपुञ्जत्वेन परावर्तिताः । अथ राजाऽपि X ७९ Page #93 -------------------------------------------------------------------------- ________________ बम तत्र झम्पां दातुं यावदुयुक्तस्तावत् कुमारेण सहसैव भुजं धृत्वा निरुद्धः कथितश्च 'देव ! 5 * मा साहसं कार्षीत्, अत्र प्रवेशेन तु निश्चप्रचं मरणं भवेत् । इयन्तं कालं यद् भवान् मया प्रतारितस्तदर्थं क्षमतां कृपया । एते मन्त्रिणस्तु मम नाशने उद्युक्ता आसन्, अत एव मया 55 तेऽग्नौ पातयित्वा विनाशिताः ।' एतच्छ्रुत्वा वैलक्ष्यमनुभवन् राजा स्वस्थानमागतश्चिन्तयति स्म च 'नूनमहो ! अस्य * चरितं तु किञ्चिदमानुषमस्ति । अतोऽस्मै मम सुरसुन्दरी नाम कन्यां दत्त्वाऽस्य राज्यस्य स्वामिनमपि करोम्येनम् । तथाऽहं तु प्रव्रज्यां गृहीत्वा स्वकार्यं साधयामि । यतस्तया - दुष्टचिन्तया मया बहु पापमुपार्जितमस्ति, स्वात्मा च लघूकृतोऽस्ति जनमध्ये ।' ततस्तेन महाविभूत्या सुरसुन्दर्या विवाहस्तेन सह विहितः सर्वमपि च महाजन ससामन्तामात्यं सप्रजाजनं चाऽऽकार्य कथितं 'शृणुत भोः सर्वे ! वत्सराजकुमारमेनमहं ममोत्तराधिकारित्वेन नियोज्य राज्येऽभिषेक्तुमिच्छामि । अद्यप्रभृत्ययमेव वो राजाऽस्ति । - अतोऽभिषेकयोग्यां सामग्री मेलयतु सत्वरम् ।' सर्वैरपि सानन्दं ससम्भ्रमं च सामग्री मेलिता। ततः प्रधाने मुहूर्ते उत्तमे च लग्ने वत्सराजं राज्येऽभिषिच्य राजा व्रतं गृहीतवांस्तापसश्च र ** सञ्जातः । वत्सराजोऽपि च राजा भूत्वा स्वपराक्रमेण बहून् देशानेकच्छवान् विधाय म महाराजत्वमनुभवति स्म । अथैकदा करधृतवरलेखो नरः कश्चिद् राजसभामागतो विज्ञपयति स्म च ‘देव ! अहं क्षितिप्रतिष्ठितनगरादागतोऽस्मि । नगरजनैरेष लेख: "देवपादेभ्यः * समर्पयत्वेत"मित्युक्त्वा प्रेषितोऽस्ति । इदानी देव एव प्रमाणम् ।' ततस्तेन स लेखो नृपपादमूले स्थापितः । ततो राजादिष्टोऽमात्यस्तमुन्मुद्र्य राज्ञा सह विमर्श कृत्वा च * * सर्वप्रत्यक्षं वाचितवान् यथा "स्वस्ति ।। भूरिसुरालयशिखराग्रविन्यस्तध्वजदण्डप्रान्तासक्तसितसिचयप्रच्छादितनभस्तलाभोगायामनवरतगीत-नृत्योत्सवमुदितसकलजनतायां निरन्तरदन्दह्यमानकालागुरु प्रभृतिप्रवरधूपधूमान्धकारजलदागमविप्रलब्धसततप्रभूतशिखण्डिनिकुरम्बरुतप्रलम्बकेकायां A ॐ श्रीमदुज्जयिन्यां महापुर्यामनवरतप्रणतमहासामन्तशिरोधत्तमहाकिरीटकोटितटघटितकरोत्कट महामाणिक्यचयचुम्बनमसृणीकृतपादपीठं महाराजेश्वरं श्रीमन्तं श्रीवत्सराजं श्रीक्षिति ८० Page #94 -------------------------------------------------------------------------- ________________ बल प्रतिष्ठितनगरात् सकल: पौरजनः साष्टाङ्गं प्रणम्य सविनयं विज्ञपयति, यथा - सङ्घातेनेवर धान्यनिचयो, धूमकेतुसमुद्गमेनेव जननिवहो, व्याधदर्शननेव मृगसमुदयो, जलदागमेनेव वा राजहंसगणो देव ! देवराजेन समस्तोऽप्यत्युद्वेजितो जनः, स च देवपादाननुस्मरतीति मत्वा ॐ यथाऽन्यराज्येषु न गच्छति तथाऽऽदेश्यमिति ।" एतदाकर्ण्य भृकुटिभङ्गभीषणवदनो राजा प्रतीहारं तत्क्षणमादिष्टवान् ‘भोः ! शीघ्रतरं प्रस्थानभेरी ताडय ।' सोऽपि 'आदेश' इत्युक्त्वोच्चैस्तां ताडितवान् । तस्या गभीरशब्देन * * सर्वाऽपि पुरी प्रक्षुब्धेव । अपि च - कश्चिद्रथं, कश्चित्तु गजं, कश्चिदश्वं कश्चिच्च वृषभं र 5 प्रगुणीकरोति स्म । सर्वैरपि भटैः सुभटैः सैनिकैः सेनानीभिश्च सर्वमपि शस्त्रास्त्रादिकं में प्रगुणीकृतम् । एवं सर्वमपि सन्नह्य राजोत्तमे लग्ने प्रस्थानमङ्गलं कृत्वाऽनवरतप्रयाणैः क्षितिप्रतिष्ठितनगरोपान्तं प्राप। देवराजोऽपि चैतज्ज्ञात्वा यावत्तत्सम्मुखं गन्तुमुद्यतस्तावत् सर्वेऽपि सामन्तादयः पौरजनाश्च विरक्तत्वान्न तेन समं निर्गच्छन्ति स्म । एतद् दृष्ट्वा विषण्णः स चिन्तितवान् * 'हन्त ! सर्वा अपि प्रजा मत्तो विरक्तीभूताः सन्ति । अतो मे वनवास एव श्रेयः ।' ततः * स निभृतमेव वनं गतवान् । जना अपि वत्सराजमागतं ज्ञात्वा महता विच्छर्दैन तं नगरमध्ये प्रवेशितवन्तो राज्ये चाऽभिषिक्तवन्तः । एवं राज्यद्वयस्य स्वामीभूय स सनयं सप्रणयं च सर्वा अपि प्रजाः * पालयति स्म त्रिवर्गमपि साधयति स्म ।। अथोत्तरे वयसि स्वपदे स्वपुत्रं संस्थाप्य वैराग्यवासितो वत्सराजः सूरिसमीपे प्रव्रज्यां गृहीत्वा सुरलोकं प्राप्तः, क्रमशश्चाऽपवर्गं प्राप्स्यति ।। [सम्पूर्णा] (श्रीदेवचन्द्रसूरिविरचितात् प्राकृतभाषामय सिरिसंतिनाहचरियं' - ग्रन्थात् सङ्कलितैषा कथा II) Page #95 -------------------------------------------------------------------------- ________________ सुकन्या रचयिता : डॉ. आचार्यरामकिशोरमिश्रः ___२९५/१४, पट्टीरामपुरम्, खेकड़ा-२०११०१ (बागपत) उ.प्र. सुकन्या राज्ञः शर्यातेस्तनयाऽऽसीत् । सा शरीरेण सुन्दरी, मनसा मनोहारिणी, - हृदयेन हृदयप्रिया, विनीता, सुशीला चाऽऽसीत् । एकदा तस्या जनकेन राज्ञा शर्यातिनाऽऽखेटाय 8 वने सेनया सह शिविरः स्थापितः । तदा वने महर्षिभृगोः पुत्र ऋषिश्च्यवनो घोरतपस्यालीनो a बभूव । ऋषेः शरीरं मृदावृतमासीत् । शर्यातिपुत्रैर्मुदावृते च्यवनकाये लोष्ठान् प्रक्षिप्य घोरोऽनर्थः कृतः । ततः ऋषिकोपेन सेनाया मतिभ्रष्टा । सैनिकाः परस्परं युद्धमारभन्त । राज्ञा ज्ञातं यदत्र केनाऽपराद्धम् ? स कुपितमृषिमुपगम्य क्षमामयाचत । क्षतं विक्षतं मे शरीरमित्युक्त्वा : का च्यवनेन सेवायै तस्य पुत्री याचिता । शर्यातिना सर्वहिताय स्वपुत्री सुकन्या तस्मै दत्ता । 9 ततः सर्वे युद्धरताः सैनिकाः प्रकृतिस्था बभूवुः । एकदाऽश्विनीकुमारौ सुकन्यायाः सौन्दर्यमवलोक्य मोहितौ । ताभ्यां सा कथिता । यदेनं वृद्धं विहायाऽऽवयोरेकं वृणीष्व । 'सा होवाच यस्मै मां पिताऽदान्नैवाऽहं तं जीवितं । हास्यामीति । तस्या वचनेन तां पतिव्रतां विज्ञाय तावश्विनीकुमारौ प्रसन्नौ । वृद्ध स्वपतिमामलकीप्राशं खादयेर्येन तव पतिर्युवा भविष्यतीति निगद्य तामामलकीप्राशनिर्माणस्य विधिं कथयामासतुः । सा तं निर्माय स्वपतिमभक्षयत् । तेनर्षिच्यवनो नवयौवनमलभत । क ततः स युवा भूत्वा सूक्तं लिलेख, यत्र कुमार्गाल्लोकान्निवारयितुमृषिरिन्द्रं प्रार्थयति ___ पुनरैना निवर्तय पुनरेना न्या कुरु । इन्द्र एणा नियच्छत्वग्निरेना उपयजतु ।। ऋग्वेदः-१०/१९/२ आमलकीप्राशश्च्यवनप्राशनाम्ना प्रसिद्धः, किन्त्वस्य च्यवनप्राशस्य निर्मात्री सुकन्याऽऽसीत् । (१) शतपथब्रह्मणम् - ४/१/५/९ १२ Page #96 -------------------------------------------------------------------------- ________________ प्रसङ्गत्रयी अरविन्दभाई कापडिया प्रायः वर्षशतात् पूर्वं सौराष्ट्रस्य कस्मिंश्चिद् ग्रामे कश्चित् करसननामा लोहकारो 88 वसति स्म । सन्तोष एव धनं,सदाचार एव तस्य वृत्तं च । बुभुक्षितायाऽन्नं, तृषिताय जलं, - श्रान्ताय विश्रामं दातुं सदैव तत्परः स जनेषु 'करसन भगत' इति नाम्ना प्रसिद्धोऽभवत् । कदाचन तस्मिन् ग्रामे 'हुताशनी'नामोत्सवः संप्राप्तः । आबालवृद्धजनाः सर्वे । - क्रीडापराः परस्परं विविधगुलालादिवर्णकान्, जलं च प्रक्षेप्तुं लग्नाः । अथ तत्रैका विचित्रा 8 प्रणालिकाऽऽसीत् यत् सर्वैः परस्परं कोऽप्यपशब्दः वक्तव्यः । उत्सवोन्मत्ता जना अत्र तत्र भ्रमन्ति स्म । तावत् करसनस्तत्र दृष्टः । सर्वे युवका 8 मिलित्वा तं मार्गे निरुध्याऽपशब्दं वदितुं प्रेरयन्ति स्म । 'भगत ! कमप्यपशब्दं वद इति' । । करसनेनोक्तं-'नैव शक्यमेतत् । अकर्तव्यम् नैव कर्तव्यमवक्तव्यं नैव वक्तव्यमिति मम 58 स्वभावः ।' यदा स एवं दृढप्रतिज्ञः स्थितस्तदा ग्राममुखी तत्राऽऽगत्य तं प्रणालिका पालनायाऽऽदिशत्, अकथयच्च-यदि त्वं प्रणालिकाभङ्गं कुर्यास्तर्हि ग्रामस्त्यक्तव्यः । करसनो ग्रामं त्यक्त्वाऽन्यत्र गतः, परं त्ववक्तव्यमपशब्दं नैवाऽवदत् । धन्यः करसनभगतः, धन्यं व 3 तस्य धैर्यम् । 69020200000९४ (२) करसनभगतः ग्रामण्य आदेशात् स्वग्रामं त्यक्त्वा पालीताणानगरसमीपे घेटीनामके B ग्रामे न्यवसत् । __ नित्यं स्वकार्याद् निवृत्य शत्रुञ्जयगिरिमारुह्य युगादिदेव-आदिनाथमन्दिरं गच्छति । ३ स्म । तत्र परमात्मनो मूर्ति दृष्ट्वा स रोमाञ्चितो भवति स्म । स प्रभुमुद्दिश्य स्तुति कर्तुमारभत ! उत्कटहर्षरोमाञ्चेन, भक्तिपूर्णहृदयेन, तारस्वरेण स्तुतिं करोति स्म । opeNG ८३ Page #97 -------------------------------------------------------------------------- ________________ 'सोनेकी छडी, रूपेकी मशाल जरियाँका जामा मोतनकी माल आजु बाजुसे निगाह रखो महेरबान जीवदयाप्रतिपालक श्रीआदिनाथ भगवान को घणी खम्मा घणी खम्मा ।' तस्य स्तुतिस्वराणि दीर्घकालं दूरसुदूरं गुञ्जन्ति स्म । जनेषु तस्य ख्यातिर्जाता । ततो नित्यं सायंकाले बहुसङ्ख्यलोकस्तत्राऽऽगच्छति स्म । एकस्मिन् दिने नगरस्य मानसिंहठाकुरस्तत्राऽऽगतः । करसनोऽतीवोत्साहेन स्तुतिमकरोत् । स्तुतिं श्रुत्वाऽतीव प्रसन्नो भूत्वा ठाकुरस्तस्मै आत्मनः पादामैरं दातुलङ्काच्छत् । स उक्तवान् - रे करसन, हस्तं प्रसारय, अहं तुभ्यं सुवर्णालङ्कारं ददामि ।' करसनो हर्षेण वामहस्तं प्रासारयत् । ठाकुरोऽवदत्- 'दक्षिणेन हस्तेन स्वीकार्यमिदमाभूषणम् । तदेवोचितम् ।' करसनोऽवदत् 'महाराज मम दक्षिणकरस्तु देवाधिदेव श्री आदिनाथाय समर्पितः । तस्मात् तं भवत्समीपे प्रसारयितुम् न शक्नोमि । क्षमां प्रार्थये ।' एवं करसनो बहुमूल्यं सुवर्णालङ्कारं राजकृपामपि चाऽवगणय्य केवलं देवाधिदेवं बह्वमन्यत । (३) एकदा नृपतिर्मानसिंहठाकुरो नगर्यां शोभायात्रायै प्रस्थितः । गजारूढः स नृपो मित्रैरावृत्तं करसनं दृष्टवान् । स तस्य ख्यातिमस्मरत् । तस्य च मुखेन स्वस्तुतिं श्रोतुमैच्छत् । करसनमुद्दिश्य स उक्तवान्- 'रे करसन, यादृशीं भगवतः स्तुतिं त्वं करोषि तादृशी ममाऽपि स्तुतिं कुरुष्व । अहं तुभ्यं घेटीग्रामं पारितोषिकरूपेण दास्यामि' इति । जनसमूहमध्ये स्थितः करसन उवाच - 'मां क्षमताम् । मया केवलं देवाधिदेव आदीश्वरः एव स्तूयते, नाऽन्य: । ' धन्या तस्य निःस्पृहता । * ८४ Page #98 -------------------------------------------------------------------------- ________________ SOOO कथा आसीत् । - ॥ स्वकार्यं स्वयमेव कर्तव्यम् ॥ एका चटका आसीत् । तस्यास्त्रयो लघवः शिशव आसन् । तस्या नीड एककृषिभूमौ एकदिने गोपालनामकृषीवलस्तत्क्षेत्रस्य स्वामी तस्य पुत्रेण सार्धं क्षेत्रमागच्छत् । कृषीवलः पुत्रमाह- अधुना सस्यं परिपक्कं जातम् । ततः श्व आवां प्रतिवेशिना सहाऽऽगत्य सस्यं लविष्यावः । चटकायाः शिशुभिरेषा वार्ता श्रुता । सन्ध्यासमये यदा चटकाऽऽहारं नीत्वा स्वस्य नीडे आगच्छत्तदा शिशुभिः प्रोक्तम् भो अम्ब ! अपरेद्युः कृषीवलस्तस्य प्रतिवेशिना सहाऽऽगमिष्यति, आगत्य च कृषिक्षेत्रं • लविष्यति । अथ वयं कुत्र गमिष्यामः ? चटका अवदत् - चिन्तां मा कुरु । श्वः कोऽपि नाऽऽगमिष्यति । पौरिक वी. शाहः अन्यदिने कृषीवलस्तस्य पुत्रेण सहाऽऽगच्छत् । एत्य तौ द्वौ प्रतिवेशिनां प्रतीक्षामकुरुताम् । किन्तु कोऽपि नाऽऽगच्छत् । कृषीवलेन प्रोक्तम् प्रतिवेशिनो नायाताः । अथ वोऽहं भ्रातॄनाह्वास्यामि । ते आवां सस्यं लवितुं सहायं करिष्यन्ति । I सन्ध्यासमये यदा चटकाऽऽगच्छत्तदा एकशिशुना प्रोक्तम् - भो मातः ! श्वोऽवश्यं कृषीवलो भ्रातृभिः सहाऽऽगत्य सस्यं लविष्यति । अथ किम् ? चटकयोक्तम् - चिन्तां मा कुरु । श्वः कोऽपि नाऽऽयास्यति । नूनमेवमेव जातम् । प्रतीक्षां कुर्वाणो गोपालकृषीवलस्तस्य पुत्रेण सह तत्रैवोपाविशत् । परन्तु कोऽपि नाऽऽगच्छत् । तदन्ते कृषीवलेन प्रोक्तम् - श्व आवां द्वौ स्वयमेवाऽऽगत्य सस्यं लविष्यावः । - सन्ध्यासमये पुनः शिशुभिर्माता प्रोक्ता श्वः कृषीवलस्तस्य पुत्रेण सह स्वयमेव क्षेत्रं लविष्यति । ततो वयं किं कुर्याम ? चटका कथयति-अद्य वयमन्यस्थानं गत्वा वत्स्यामः । यतः श्वोऽवश्यं कृषीवलेन कृषिक्षेत्रं लविष्यते । चटका तस्यास्त्रिभिः शिशुभिः सह तत्स्थानं त्यक्त्वाऽन्यनिर्भयस्थानं गत्वा न्यवसत् । नूनं स्वस्य कार्यं स्वयमेव कर्तव्यम् । ८५ बी-१, हृदय एपार्टमेन्ट, पालडी, अहमदाबाद-७ (गुजरात) Page #99 -------------------------------------------------------------------------- ________________ संवादः मुनिधर्मकीर्तिविजयः (एको जनो गच्छन्नासीत् । तेन समीपस्थः शुष्को वृक्षो दृष्टः । तदा स वृक्षं की पृच्छति-) । मनुष्यः भो ! भोः ! किमर्थमुदासस्त्वं दृश्यसे ? वृक्षः हं, (किमपि न वदति ।) मनुष्यः (समीपं गत्वा) रे ! किमर्थं न वदसि ? मया कोऽपराधः कृतः ? वृक्षः (साक्रोशम्) अपसरतु, अपसरतु । 'त्वादृशस्य प्राणिनो मुखदर्शनमेव पापमस्ती'ति । मन्येऽहम् । । मनुष्यः क्रोधं मा कार्षीः । शान्तिमवधार्य यज्जातं तत् कथय । वृक्षः अलं शान्त्या । मूर्ख ! मां किं पृच्छसि ! गत्वा राष्ट्रियमार्गम(N.H.4)वलोकय । मनुष्यः (विहस्य) अहो ! ज्ञातं ज्ञातम्, तवैतादृशस्य महत: कोपस्य कारणं ज्ञातं खलु। वृक्षः रे धृष्ट ! दुष्टं कार्यं विधायाऽपि हससि ? किं लज्जां नाऽनुभवसि त्वम् ? । मनुष्यः सर्वे जीवा स्वसुखार्थं प्रयतन्ते, तथैवाऽत्राऽस्माभिरप्यानुकूल्यार्थं सुखार्थं चैवं कृतम् । अतोऽत्र कथं लज्जनीयम् ! १ वृक्षः सत्यम्, तत्त्वहमपि जानाम्येव; किन्तु परजीवेभ्यो दुःखं दत्त्वा सुखं प्रापणीयमिति तु न कुत्रचिदपि ज्ञातं दृष्टं च । 'परदुःखे सुखी' - एतादृशस्तु त्वमेक एव 'मनुष्यो' दृष्टो मया । मनुष्यः अहो ! तव विद्वत्त्वं चातुर्यं च प्रशंसनीयमस्ति । तथाऽप्येतत्तु ज्ञेयं यद्, लाभं हानि चाऽपेक्ष्यैव सर्वमपि कार्यं क्रियते । यदि महान् लाभः स्यात्तील्पहानिरुपेक्षणीया । अत्राऽल्पहानौ सत्यामपि महतो लाभस्य कारणं दृश्यते । अत एवं करणे किमर्थं का लज्जनीयम् ? - वृक्षः आस्तामेतेन वाग्विलासेन । एतद् वाक्चातुर्यं तव समीपे एव स्थापय । प्रथममेतं ८६ Page #100 -------------------------------------------------------------------------- ________________ राष्ट्रियमार्गं नेत्रे उद्घाट्य सावधानं पश्य, पश्चात्तव वाग्वैभवं दर्शयितुमत्राऽऽगच्छ। मनुष्यः (भ्रकुटिमूर्वीकृत्य) रे ! मयैतादृशं किं दुष्टं कार्यं कृतं येन त्वं मुहुर्मुहुः क्रुध्यसि, बी मिथ्याप्रलापं च करोषि । वृक्षः (साक्रोशं) किमस्मान् मूर्खान् मूढाँश्च मन्यसे त्वम् ? येन लज्जनीयं कार्यं । विधायाऽपि तं निह्नोतुं प्रयतसे ? शृणु, पापिनस्तव पापलीला- त्वयैतस्मिन् मार्गे । स्थिता रमणीया मनोहारिणोऽनेके वृक्षा उच्छेदिताः । नन्दनवनानीव दृश्यमानानि से नैकानि मनोहरवर्णगन्धमिश्रितविविधफलयुतानि वृक्षकदम्बकान्यद्य भुवि पतितानि सन्ति । पुरा दक्षिणतो वामतश्च रमणीयवृक्षराजिदृश्यमानाऽऽसीत् । सर्वे वृक्षा अन्योन्यं मुखं पश्यन्त इव स्थिताः सन्ति । ततो दूरतः सा वृक्षराजिः स्तम्भारोपणमिवाऽन्वभूयत । तदुपरि नेत्रानन्दकारिभिर्हरितपत्रवृन्दै रचिताच्छदिविद्यते स्म । ततश्चाऽहो ! एतद् दृश्यं रमणीयो वृक्षमण्डप इव प्रत्यभात् । कुत्रचित्त्वागच्छतां पथिकानां स्वागतार्थं रचितानि तोरणानीव केचिद् वृक्षा दृश्यन्ते स्म । एवमतीवर रमणीयं यत्सौन्दर्यमासीत्, तत्सर्वमेव त्वया नाशितम् । अद्य तु स समस्तोऽपि मार्गः शोभारहितो दृश्यते । तथा वृक्षनाशादनेके पशु-पक्षिणोऽपि मृताः, केचित्तु निराश्रिता इव ते इतस्ततो गत्वाऽऽक्रन्दन्ति, पथिकाः साधुजनाश्चाऽपि पीडिता भवन्ति, चीत्कारं च कुर्वन्ति । वद, किमेषाऽल्पहानिः कथ्यते ? मनुष्यः किं करोमि ? कोऽप्यन्य उपायो नाऽऽसीत् । अतः.... (मध्ये एव) असत्यम् । यद्यन्य उपायो नाऽऽसीत्तर्हि एतेन नूतनराष्ट्रियमार्गनिर्माणेनाऽलम् ! अद्यावधि सर्वैरपि पुरातनैव राष्ट्रियमार्गद्वारेण यातायात क्रियमाणमासीत्, न तु गगने उड्डीय गच्छति स्म कोऽपि । अतोऽलं व्याजेन । NA शृणु, परदेशे घटितामेकां सत्यां घटनां श्रावयामि ___ 'फफुओका'नाम 'जापान'देशस्य महानगरमस्ति । तत्र कस्यचिज्जलाशयस्य समीपे राष्ट्रियमार्ग आसीत् । स मार्गो विशाल आसीत्, किन्तु । जनानां यातायाते काचिद् बाधाऽऽपतिता । अतः स मार्गो विस्तारणीय इति निर्णीतवन्तः तत्रत्या जनाः । अतो जलाशयस्य निकटस्थितेभ्यः चेरीवृक्षेभ्य एको वृक्ष उच्छिन्नः कर्मकरैः । ८७ Page #101 -------------------------------------------------------------------------- ________________ द्वितीयदिने केनाऽपि सज्जनेन तत्रस्थितवृक्षस्य लताया उपरि लिखितमेकं पत्रं (card) स्थापितम् । तत्र लिखितम् - "चेरीवृक्षाणां रक्षक ! श्रीमन् काझुमामहोदय ! भवान् पुष्पाणि प्रति दयालुरस्ति । अतः पञ्चदिनपर्यन्तमेतान वृक्षान् कृपया मा उच्छेत्सीः । यतोऽस्मिन् वसन्तौ तानि पुष्पाणि पुनर्विशेषतो विकसेयु"रिति । सर्वैः तत् पत्रं पठितम् । सर्वत्र वार्ता प्रसृता । द्वितीयदिने एव तल्लताया उपरि स्थापितं नूतनमेकं पत्रं सर्वैर्दृष्टम् । तत्र- "पुष्पाणां रक्षणार्थं यद् हृदयं व्यथितं भवति तदेव मम 'जापान'देशस्य वास्तविकमौदार्यभृतं चैतन्यमयं च हृदयं तथा गौरवमस्ति । ईदृशी मृदुभावना सर्वत्र प्रसरतु" । - - 'चेरीवृक्षाणां रक्षकः काझुमा' इति । 'काझुमा' महोदयस्यैतादृशं निर्णयं निरीक्ष्य कृतज्ञतामापनै गरजनैर्बहुभिः काव्यैः ता वृक्षलता भृताः । अन्ते सत्ताधिकारिभिः स्वायोजनं परावर्त्य तद्वक्षाणां रक्षणं कृतम् । रे ! किं ज्ञातं कथाया हार्दम् ? प्रकृति प्रति जनानां हृदयं कीदृशं स्यादित्यनेन ज्ञायते । अतो वाक्प्रपञ्चं विहाय सत्यमार्गमनुसर । मनुष्यः - (अधोदृष्टिं विधाय तूष्णीं स्थितवान् ।) वृक्षः भोः ! कथं न वदसि ? मनुष्यः शोकं मा स्म करोः । पुनः तत्र विविधवृक्षाणामारोपणं करिष्यामि । वृक्षः रे निर्लज्ज ! कथमेवं वदसि ? वृक्षाणामारोपणमाश्वासनमात्रमेवाऽस्ति । विद्यमानानां बन्धुजनानां विनाशः को नाम स्वीकुर्यात् ? किमस्मान् मूर्खान् मन्यसे ? भो ! नाऽहं मूर्खः किन्तु त्वमेव मूर्योऽसि । तव मूर्खत्वं कथंरीत्या वर्णयामि, तदेव न जानामि । त्वमेकतः प्रकृतिं विनाशयसि, अपरतः 'प्रकृतिं रक्षन्तु, प्रकृति रक्षन्तु' इत्युच्चैराराटिं कृत्वा प्रकृतिसंमेलनमायोजयसि । एवं देहानुकूल्यार्थं सर्वत्र 'नैसर्गिकोपचारकेन्द्र स्थापयसि । पञ्चदशदिनपर्यन्तं गृह-स्वजनापणादिकं विहाय तत्रैव वृक्षस्याऽधो निवससि, पश्चात् प्रकृतिमाहात्म्यं वर्णयसि । अन्यच्च प्रासादस्य परितो हरिताङ्गणं विरचयसि । तत्र प्रातर्धावसि (Morning Walk)। अहो ! किमेतद् मूर्खत्वमुत चातुर्यम् ? ८८ Page #102 -------------------------------------------------------------------------- ________________ वदानी AR SA PA मनुष्यः भोः ।... वृक्षः (निरुध्य) अहो ! तव धाष्र्यमपि वर्णनातीतमस्ति । अद्यावधि मार्गे गृहे चल पाञ्चालिकारूपेण शोभायाः साधनरूपेण चाऽस्माकमुपयोगः कृतः । किन्त्विदानी तु विविधवर्णयुतान् नैकान् चित्रपतङ्गान् हत्वा तेषां स्थालिकां कृत्वा तत्र सानन्दं । भक्षयसि त्वम् । हन्त ! अभिरुच्यर्थं प्राणिनां विघातः करोषि । एवमद्यपर्यन्तस्माकं । बहुश उपयोगः कृतः त्वया, तथाऽपि न कदाऽपि प्रतीकारः कृतोऽस्माभिः, किन्त्वितः परं तव दुष्कृत्यान् सोढुं क्षणमपि न शक्ता वयम् । मनुष्यः (उच्चैर्हसित्वा, सोपहासं) किं त्वमेवाऽस्माकं जीवनाधारो रक्षकश्चाऽसि ? यदेवं मन्यसे ? आम, आम् । वयं (प्रकृतयः) एव ते जीवनाधारा रक्षकाश्च स्मः, इति निश्चितं ज्ञेयम् । अन्नं काष्ठं वस्त्रमौषधमित्यादीनि तव जीवनोपयोगीनि सर्ववस्तून्यस्माभिरेव तुभ्यं दीयन्ते । शरीरपोषणरूपं भोजनं कर्तुं, शीत-ग्रीष्म-वर्षाया रक्षणार्थं वस्त्र परिधातुं तथा देहस्य प्रातिकूल्ये सति भेषजं गृहीत्वा जीवितुं चाऽस्मत्प्रभावेनैव समर्थोऽसि त्वम् । काष्ठादग्नि वायुं चोत्पाद्याऽस्मत्प्रभावेनैवाऽनुक्रमेणाऽन्नं पाचयितुं प्रासादादिकं च विरचय्य तत्र वसितुमर्हो भवसि त्वम् । एकं मराठीकाव्यं स्मर्यते । तस्य मर्मैतदस्ति यद् "निखिला प्रकृतिः स्तनाकाराऽस्ति । मानवस्तु भूमिपुत्रोऽस्ति । अतो यथा जननी स्तनपानद्वारेण बालकं पोषयति तथैव भूमिरपि मानवरूपपुत्रं पालयती"ति । अतो मां विना तवाऽस्तित्वस्य कल्पनैवाऽशक्या, इति न खलु कदाऽपि विस्मर्तव्यम् । मनुष्यः अहो ! त्वमेतावदभिमानेन वर्तसे खलु ! किन्त्वेतत् सर्वं मिथ्याऽस्ति । भो ! यदि तव पोषणं न क्रियते मया तर्हि ते का गतिः स्यात् ? इति त्वयाऽपि न विस्मर्तव्यम् । (सोपहासं) सत्यं सत्यम् । किं गिरौ वने गुहायां च तव जनक एव मद्बान्धवानां रक्षणं करोति खलु ! त्वं भवेर्न वा, मेऽस्तित्वं तु सर्वदा सर्वत्र प्रवर्तामहे प्रावर्तामहि प्रवामहि च । त्वां विना वयं जीवितुं समर्थाः, न तु नो विहाय क्षणमपि त्वं जीवितुं शक्तोऽसि । ८९ Page #103 -------------------------------------------------------------------------- ________________ मनुष्यः किं मे..... (तदैव गगनभेदी ध्वनिः श्रूयते ।) मनुष्यः (सभयं) किमेतत् ? वृक्षः तव पापम् । मनुष्यः हन्त ! कथं सर्वत्र ममैव दोषो दृश्यते त्वया ? किं जगत्यहमेक एवाऽपराध्यस्मि ? वृक्षः आम्, आम् । अस्मिन् जगति त्वादृशो न कोऽपि कृतघ्नोऽस्ति । त्वया (A यावन्तोऽपराधाः कृता न तावन्तः केनाऽपि कृताः । (तदैव गिरिरुच्चैराक्रन्दते रोदिति च ।) मनुष्य: भोः ! किमभूत्... गिरिः रे दुष्ट ! तव हृदये एतादृशी दुर्बुद्धिः कथं सञ्जाता ? किं ते हृदि दयाया अंशोऽपि न विद्यते ? त्वया तु मे सर्वस्वमपि नाशितम् । कुत्राऽहं गच्छेयम्, वसेयम्, कस्मै च कथयेयम् ? म...म.... (रोदिति ।) (सान्त्वयित्वा) बन्धो ! शोकं मा कुरु । एतेन पापिना ममाऽप्येषैव स्थितिः । कृता। गिरिः (सक्रोध) रे ! त्वयैव समस्तपृथिव्या विनाशः कृतोऽस्ति । तवोपर्यद्यपर्यन्तं । यैर्यैरुपकारः कृतः तान् सर्वानपि विनाशयसि त्वम् । (तावदेव पशु-पक्षि-प्राणिन आक्रन्दमानाः तत्राऽऽयान्ति । मनुष्यं वीक्ष्य "म्रियतां न म्रियता''मिति चीत्कारं कुर्वन्ति ।) सिंहः एतेनैव निखिलजगतो नाशः कृतः । एतं विना सर्वेऽपि पशु-पक्षिणो भिन्न-भिन्न रीत्योपयोगिनः सन्ति । अत एष एव भाररूपोऽस्ति, तथाऽपि पशुपक्षिणो भाररूपा निरर्थकाश्च सन्तीति वदन्तं तमेवाऽस्याः पृथिव्या निष्कासयतु । । गिरिः सत्यं सत्यम्, एतमेव निष्कासयतु । मया तवोपरि कः क उपकारः क्रियते, इति । किं जानासि खलु ? शृणु-यत्र यत्राऽहं वसामि, तत्र तत्र वृष्टिर्भवति, यतोऽहमन्यत्र गमनशीलान् मेघवृन्दान् निरोधयामि । मां त्रोटयित्वा पाषाणचूर्णं पाषाणखण्डांश्चाऽवाप्य त्वमद्यतनगृहादिकं कारयसि । सर्वानपि धातून विशिष्टौषधि चाऽहमेव ददामि । युद्धकालेऽहमेव युष्मान् सर्वान् नगरादिकं च रक्षामि । Page #104 -------------------------------------------------------------------------- ________________ वृक्षः पूर्वकाले ऋषयो मुनिवराश्च मदुहायां स्थित्वैव साधनां कृत्वा मोक्षगतिमापन्नाः । भोः ! सूक्ष्मजन्तवोऽपि ते जीवनेऽतीवोपयुक्ता दृश्यन्ते । निशम्यतां - शाहमृगप्राणिभ्यः 'दक्षिण आफ्रिका 'देशीया जनाः कोमलचर्माण्यवाप्नुवन्ति । 'चीन' देशे जनाः 'स्विफ्ट' पक्षिणां निष्ठीवनात् स्वादु व्यञ्जनं कुर्वन्ति । 'दक्षिण अमेरिका' देशे स्थिता आदिवासिनः 'ओईलबर्ड' पक्षिणां देहात्तैलं निष्कासयन्ति । 'चिलोत्रा' पक्षिणां चञ्चविशालः स्थूलश्चाऽस्ति । तस्य पदार्थो हस्तिदन्तनिभोऽस्ति । तत: 'सुमात्राबोर्निआ' - देशीया जनाः तच्चश्रुं कलाकृत्यर्थमुपयुञ्जन्ति । कादम्बानां पिच्छानि कार्पाससदृशानि सुकोमलानि भवन्ति । तानि कौशेयतोऽप्यधिकानि मृदूनि वर्तन्ते । तेन विविधवस्तूनि निर्माप्य 'आईसलेन्ड् 'देशीयजना बहु धनमुत्पादयन्ति । 'दक्षिणअमेरिकायाः 'पेरुदेशे' 'काजिया' नामपक्षिणो जायन्ते । तत्पक्षिणां विष्ठायाः प्रतिवर्षं 'पेरु 'सर्वकारः 'कोटिडोलर' मानं धनराशि लभते । एवमेते पक्षिणोऽपि तत्तद्देशस्य सर्वकारस्य कृते महतो धनोत्पादनस्य प्रमुखं साधनमस्ति । मृगद्वारेण कस्तूरिका प्राप्यते त्वया । विविधपुष्पाणामर्काद् विशिष्टाः सुगन्धिपदार्थाः (Perfume ) संजायन्ते । सर्वमपि शृङ्गारसाधनादिकं (Cosmetics) पशुपक्षिद्वारेणैव त्वया प्राप्यते । गावो दुग्धादिकं तु ददत्येव, किन्तु तासां मूत्रगोमयादिकमप्यौषधादिरूपेणोपयुज्यते । कियत् कथयानि ? भो ! अन्येषां तु मूत्रमप्युपयोगी, किन्तु तव तु देहावयवः कोऽप्युपयोगी नाऽस्ति । तथाऽप्यद्य त्वमस्मानेव हन्तुमुद्युक्तोऽसि । अद्य प्रतिनगरं प्रतिदिनं त्वयाऽऽहारार्थं कियन्तः कुक्कुटा मीना गावोऽजाश्च मार्यन्ते । अधुना त्वेका रीतिः प्रवर्तमाना दृश्यते यत्, परदेशे 'पीझा' क्रियते । भिन्न-भिन्नवर्णवतः कीटकान् हत्वाऽभिरुच्यर्थं पीझोपरि स्थाप्यते, पश्चात् सानन्दं सा पीझा युष्मद्भिर्भुज्यते । अहो ! तव तु कृतघ्नता धृष्टता चाऽपि वर्णनातीताऽस्ति । गिरि: (वृक्षमुद्दिश्य) अलमेतादृशेन कृतघ्नेन सह वार्तया । वृक्षः आम्, आम् । रे ! द्वौ कर्णौ उद्घाट्य सावधानं शृणु - प्रकृतिर्जगन्माताऽस्ति । वस्तुतो मातृत्वस्य विस्तारो मातुश्चाऽपरं नाम चैव प्रकृतिः । मातृवत् प्रकृतेरस्तित्वं सांनिध्यं चैव प्राणिसृष्टेः कृते शान्तिरूपमानन्दरूपं च भवति । यः प्रकृत्या ९१ Page #105 -------------------------------------------------------------------------- ________________ विरुद्धमाचरति स मनसिकृत्य राजरोग(T.B.)-मधुप्रमेह-अर्बुदरोगइत्यादीननेकान् रोगानामन्त्रयति, इति ज्ञेयम् । __भोः ! त्वं प्रकृत्या सह यथा व्यवहरसि तथैव साऽपि त्वया सार्धं (A व्यवहरति । त्वया वृक्ष-वन-गिरि-इत्यादिकं सर्वं नाशितम् । नदी-निर्झरजलाशय-कूपश्चेत्यादयः सर्वे शोषितास्त्वया । इदानीं प्रकृतेरेकमप्यङ्गमेतादृशं नाऽवशिष्टं यस्य नाशो न कृतस्त्वया । किन्त्वेतद् ज्ञेयं यत्, प्रकृत्या यस्य कस्याऽप्यङ्गस्य नाशस्तवैव विनाशस्य कारणं भवति । पश्य, अद्य मुहुर्मुहुर्भूकम्पअतिवृष्टि-अवृष्टि-झञ्झावात-त्सुनामी-इत्यादिका नरसंहारिका घटना जायन्ते । । "प्रकृतिविनाश" एवैतादृश्या दुर्घटनायाः कारणमस्ति । अतो यावत् त्वं प्रकृति विनाशयिष्यसि तावदस्यां भुवि न कदाऽपि शान्तिर्भविष्यति । आगामिकाल स्त्वतीव भीतिकरोऽस्ति, इति निश्चितम् ।। गिरिः सत्यम्, नितरां सत्यम् । उपभोगार्थं कृतस्य कर्मणः फलं त्वयैवाऽवश्यं भोक्तव्यम्। अन्यच्च निराश्रितानां वन्य-जलीय-ग्राम्यप्राणिनां निःश्वासेनाऽपि त्वं शप्तो भवसि । एवं वयं तु दुःखिनो भविष्याम एव, किन्तु तवाऽपि बन्धुजना अधिकं दुःखिनो । भविष्यन्ति । वृक्षः - भो ! अद्यपर्यन्तं न केऽपि जना अन्यान् पीडयित्वा हत्वा च सुखिनो भूताः । ॐ कदाचिद् बाह्यदृष्ट्या सुखिनो दृश्येरन्, किन्त्वाभ्यन्तरदृष्ट्या तु ते दुःखिन एव विद्यन्ते । त्वमपि..... मनुष्यः (निरुध्य) मैवं वादीः, क्षन्तव्यो मेऽपराधः, क्ष...न्त... (रोदिति) वृक्षः शोकं मा कुरु । अद्य त्वं मनसा निश्चिनु- "इतः परं न कदाऽपि स्वार्थायाऽन्येषामहितं करिष्यामि, नाऽन्येभ्यो दुःखं दास्यामि, नाऽन्यान् हनिष्यामि," इति । शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखीभवन्तु लोकाः ।। ९२ Page #106 -------------------------------------------------------------------------- ________________ धर्म-धर्म की सरसः भवान् कियतः कालादत्र कार्यं करोति ननु ? अलसः यावतः प्रभुणा पदभ्रंशस्य घोषणा कृताऽस्ति !! PADARADARADARASADADARASADARADABADASARAPARANA லலல BADADADADADADADADADADADADADADADADADADADADADA व्यग्रः समयः को जातः ? समग्रः चतुर्वादनं भोः । व्यग्रः आश्चर्यकरं नन्विदम् ! नाऽवबुध्येऽहं यत् प्रातःकालादेव किमिति सर्वेऽपि मेऽन्यान्यं समयं प्रदर्शयन्ति ? । ९३ Page #107 -------------------------------------------------------------------------- ________________ म कर्मकरी श्वस्तोऽहं भवत्या गृहे कार्यार्थं नैवाऽऽगन्ता ! गृहिणी किमर्थं भोः ? कर्मकरी भवती मयि न विश्वसिति खलु ! गृहिणी अयि ! गृहस्य सर्वा अपि कुञ्चिकास्तु अत्रैव वर्तन्ते ननु ! कर्मकरी किन्तु ताभ्य एकाऽपि कमपि तालकमुद्घाटयितुं न समर्था !! ८ विषण्णः ननु भवती मया दृष्टचरा कुत्रचित् ! प्रसन्ना सत्यम् । पूर्वमहं मानस चिकित्सालये परिचारिकाऽऽसम् !! ९४ Page #108 -------------------------------------------------------------------------- ________________ . . 5010 ODGE DOUSE प्रापितः किं भवता कदाऽपि गर्दभस्य केशाः कर्तिता वा ? नापितः नैव भोः ! अद्यैवैदम्प्राथम्येन कर्तयन्नस्मि !! PARADADADADAPADARADABADADARADABADADARADABAD RADABARADARASARAMYADABADADAPADAARADARASADANA ग्राहकः अहमे कां द्विचक्रिकां क्रेतुमिच्छामि, किन्त्वंशांशतः (By instalment)। आपणिकः एवं वा ? तर्हि प्रथमं दण्डं (Handle) वा दद्यां प्रेरणी (Paddle) a1 ? Page #109 -------------------------------------------------------------------------- ________________ DIDIDIDHDADADADADADADHDNDNDIDIDNDIDNDNDIDNDK DADADADIDNDIDIDIDNDIDIDNDIDADADADIDADADADIDA अपूर्व: अद्वितीयः पञ्चवर्षीयो भोः ! एष भवतः पुत्रः किंवया: जात: ? अपूर्व: तर्ह्ययं शालां तु गच्छन्नेव स्यात् ? अद्वितीयः नैव भो ! अद्याऽप्ययं पठितुं लिखितुं वा न जानाति । अतः शालां गत्वा किं वा कुर्यात् ? 防防份 महिला मध्येमार्गं स्थित्वा भिक्षां याचमानो न लज्जसे त्वम् ? भिक्षुकः तर्हि किं वाऽहं कुर्याम् ? महिला एकं कार्यालयमुद्घाटय !! 弟弟弟 CACC ९६ DNDADADADADHDNDIDIDNDNADHDDDDDDDDDDDNDANDADIDA DADIDIDIDIDIDIDNDIDIDNDNDIDNDIDADADADADADID Page #110 -------------------------------------------------------------------------- ________________ - प्राकृतविभाग: हाडहलाचारिता कथा सङ्कलयिता : डो. आचार्यरामकिशोरमिश्रः 88 २९५/१४, पट्टीरामपुरम्, लाल खेकड़ा-२०११०१ (बागपत) उ.प्र. SSSURUSSER SERIERRORTERSBURSERTERS (१) सउन्दला इदो इदो सहीओ ! अणसूआ सउन्दले ! तुवत्तो वि तादकस्सवस्स अस्समरुक्खआ पिअदरेत्ति तक्केमि । जेण णोमालिआकुसुमपेलवा वि तुमं एदाणं आलवालपूरणे णिउत्ता ।। सउन्दला ण केवलं तादणिओओ एव्व । अत्थि मे सोदरसिणोहो वि एदेसु । 28 अणसूआ अच्छ सउन्दले ! 1 सउन्दला सहि अणसूए ! अदिपिणद्धेण वक्कलेण पिअंवदए णिअन्तिद सि । सिढिलेहि दाव णं । पिअंवदा एत्थ पओहरवित्थारइत्तअं अत्तणो जोव्वणं उवालह । मं किं उवालहसि ? 89 - सउन्दला एसो वादेरिदपल्लवङ्गलीहिं तुवरेदि विअ मं केसररुक्खओ। जाव णं संभावेमि। 2-3 23 पिअंवदा सउन्दले ! एत्थ एव्व दाव मुहुत्तअं चिट्ठ ! ON सउन्दला कि णिमित्तं ? पिअंवदा जाव तुए उवगदाए लदासणाहो विअ अअं केसररुक्खओ पडिभादि । - सउन्दला अदो क्खु पिअंवदा सि तुमं । अणसूआ सउन्दले ! इअं सवरवहू सहआरस्स तुए किदणामहेआ वणजोसिणित्ति ___णोमालिआ । णं विसुमरिदा सि ? 88 सउन्दला तदा उत्ताणं वि विसुमरिस्सं । हला रमणीये क्खु काले इमस्स लदापाअव-88 मिहुणस्स वइअरो संवुत्तो । णवकुसुमजोव्वणा वणजोसिणी वद्धपल्लवदाए 328 ९७ For Private Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ सउन्दला उवभोअक्खमो सहआरो । P3 पिअंवदा अणसूए ! जाणासि किं सउन्दला वणजोसिणिं अदिमेत्तं पेक्खदि त्ति ? 8-8 88 अणसूआ ण क्खु विभावेमि । कहेहि । पिअंवदा जह वणजोसिणी अणुरूवेण पादवेण संगदा, अवि णाम एव्वं अहं विअत्तणो अणुरूवं वरं लहेअं त्ति । सउन्दला एसो णूणं तुह अत्तगदो मणोरहो । 8. पिवदा अच्छ सउन्दले ! अम्मो ! सलिलसेअसंभमुग्गदो णोमालिअं उज्झिअ वअणं मे महुअरो २-8 अहिवट्टइ। ण एसो धिट्ठो विरमदि । अण्णदो गमिस्सं । कहं इदो वि आगच्छदि । हला, परित्ताअहं मं इमिणा दुव्विणीदेण महुअरेण अहिहूअमाणं । 88 उभे (अणसूआ, पिअंवदा) का वअं परित्तातुं ? दुस्सन्दं अक्कन्द । राअरक्खिदव्वाइंट तवोवणाई णाम । 2- सउन्दला कहं इदो वि मं अणुसरदि ? 2 राजा दुष्यन्तः (सत्वरमुपगत्य) कः पौरवे वसुमती शासति शासितरि दुर्विनीतानाम् ? अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥ __ (ताः सर्वा राजानं दृष्ट्वा किञ्चिदिव संभ्रान्ताः ।) * अणसूआ अज्ज ! ण क्खु किं वि अच्चाहिदं । इयं णो पिअसही महुअरेण अहिहअमाणा कादरीभूदा । सउन्दले ! गच्छ उडअं फलमिस्सं अग्धं उवहर । इदं पादोदकं * भविस्सदि। पिअंवदा तेण हि इमस्सि पच्छाअसीअलाए सत्तवण्णवेदिआए मुहुत्तअं उवविसिअ परिस्समविणोदं करेदु अज्जो । अणसूआ सउन्दले ! उइदं णो पज्जुवासणं अदिहीणं । एत्थ उपविसह्म । (राजानं प्रति) 5 ९८ Page #112 -------------------------------------------------------------------------- ________________ భోజబ్ పేజీ పది పది పబ్ టెట్ టెట్ "పది పది పది పబ్ డబ్ ఓ బీదబీ पिअंवदा सउन्दला सहीओ अज्ज ! तुह महुरालावजणिदो वीसम्भो मं मन्तावेदि - कदमो अज्जेण राएसिवंसो अलंकरीअदि । कदमो वा विरहपज्जुस्सुअजणो किदो देसो । किं णिमित्तं वा सुउमारदरो वि तवोवणगमणपरिस्समस्स अत्ता पदं उवणीदो । राजा दुष्यन्तः भवति ! यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः, सोऽहमविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः । हला सउन्दले ! जइ एत्थ अज्ज तादो संणिहिदो भवे । तदो किं भवे ? इमं जीविदसव्वस्सेण वि अदिहिविसेसं किदत्थं करिस्सदि । सउन्दला तुम्हे अवेध । किं विहिअए करिअ मन्तेध ? ण वो वअणं सुणिस्सं । राजा दुष्यन्तः वयमपि भवत्योः सखीगतं किमपि पृच्छामः । सहीओ अज्ज ! अणुग्गहो विअ इअं अब्भत्थणा । सुणादु अज्जो । अत्थि कोवि कोसिओ त्ति गोत्तणामहेओ महाप्पहाओ राएसी । तं णो पिअसहीए पहवं अवगच्छ । उज्झिआए सरीरसंवड्डणादिहिं तादकस्सवो से पिदा । राजा दुष्यन्तः उज्झितशब्देन जनितं मे कुतूहलम् । आमूलाच्छ्रोतुमिच्छामि । अणसूआ सुणादु अज्जो । गोदमीतीरे पुरा किल तस्स राएसिणो उग्गे तवसि वट्टमाणस्स किं वि जादशंकेहिं मेणआ णाम अच्छरा पेसिदा णिअमविग्घकारिणी । तदो वसन्तोदारसमए से उम्मादइत्तअं रूवं पेक्खिअ... (लज्जए विरमदि) । राजा दुष्यन्तः सर्वथाऽप्सरः सम्भवैषा । (आत्मगतम्) न दुरवापेयम् । पिअंवदा अज्ज ! धम्मचरणे वि परवसो अयं जणो । गुरूणो उण से अणुरूववरप्पदाणे संप्पो । सउन्दला अणसूआ किं णिमित्तं ? सउन्दला अणसूए ! गमिस्सं अहं । इमं असंबद्धप्पलाविणि पिअंवदं अज्जाए गोदमीए णिवेदइस्सं । ९९ ४४४४ "ఓ పది పది పద పద పద పద పద పద పద పద పద పద పద పద పది పది దెబ్ ద బీ జబ్ పేజీ పద పద పద పద టిబి పేజీ Page #113 -------------------------------------------------------------------------- ________________ - V अणसूआ सहि ! ण जुत्तं अकिदसक्कारं अदिहिविसेसं विसज्जिअ गमणं । (नेपथ्ये) 88 भो भोस्तपस्विनः । सन्निहितास्तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नो मृगयाविहारी 3 दुष्यन्तः । 8 सहीओ अज्ज ! इमिणा आरण्णअवुत्तन्तेण पज्जाउल म्ह । अणुजाणीहि णो उडअ-22 गमणस्स । राजा दुष्यन्तः गच्छन्तु भवत्यः । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि । 8 सउन्दला अणसूए ! अहिणअकुससूईए परिक्खदं मे चरणं कुरवअसाहापरिलग्गं अ88 वक्कलं । दाव परिपालेध मं जाव णं मोआवेमि । (शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता तपोवनात् ।) (क्रमशः तिमिर हरा जइ दिट्ठी, जणास दीवेण पत्थि काढव्वं । तध सोरखं सयमादा, विसया किं तत्थ कुवंति ? ।। प्रवचनसारे-६७ POST १०० Page #114 -------------------------------------------------------------------------- ________________ भारतीय संस्कृतिः संस्कृतभाषायाः प्रतानवितानैयूँताऽस्ति / तद्भाषायाः परिवर्तनेन विकसिता पालि-प्राकूता-पभ्रंशादिभाषास्तथा वर्तमानकालीना भाषा अपि संस्कृतेः प्रवाहं वहन्त्यः सन्ति / एतासां सर्वासामपि भिन्नभिन्नभाषाणां मणिमालायां सूत्ररूपेण संस्कृतभाषा विद्यते / भारतवर्षस्याऽऽत्मभूता संस्कृतिर्यादृशी सर्वतोभद्ररूपेण संस्कृतभाषायामभिव्यक्ता जाताऽस्ति, न तादृश्येतासु लौकिकभाषासु जाता / तासु लौकिकभाषासु तु संस्कृतेरमुकान्यङ्गान्येव विकसितानि जातानीव भासन्ते / सर्वेषामप्यङ्गानां समन्वयः शुद्धीकरणं वा मूलस्रोतसः सहायेनैव करणीयम् / अतश्च संस्कृतभाषाया आराधनं विहाय नाऽन्यः कोऽपि मार्गो भारतदेशस्य। प्रजानां विशालो वर्गस्तु यद्यपि लौकिकभाषाभ्य एव संस्काररसं प्राप्स्यति किन्तु समग्रस्याऽपि देशस्य संस्कृतेर्धारण-पोषण-संशोधनार्थं च केनचिद् वर्गेण मूलस्रोतसा सह सम्पर्कः सततं प्रवर्तनीय एवेत्यावश्यकम् / तदर्थं च भारतीयविद्यालयेषु संस्कृतभाषाया अध्ययनार्थं योग्या सामग्री सम्पादनीयाऽपि। गोपालदास जी. पटेल: (संस्कृत-गुजराती विनीतकोश-पुस्तकम्) பாடு போன வினவின் antibrary.org