________________
ज्ञातं मया सकलशास्त्रविलोडनेन,
त्वद्गक्तिरेव निखिलोन्नतिहेतुरेका । - यन्माधवे मधुपगुञ्जनमाम्रकुले,
तच्चारुचूतकलिकानिकरैकहेतुः ॥२४॥
भक्तामरस्तववरादिमकाव्यषट्कसम्पूर्णपादपरिपूर्तिमयस्तवेन । श्रीनाभिनामनरनाथसुतो नुतो मे, बोधिं ददातु वरबोधिधुरन्धरोऽलम् ॥२५॥
समृद्धि एपार्टमेन्ट हाइ वे - नवा डीसा
३८५५३५
लेखकेषु सूचना ॥ १. सुरुचिपूर्ण शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते प्रकाशनार्थम् । २. पत्रस्यैकस्मिन्नेव पार्वे देवनागरीलिप्यां शिरोरेखामण्डितं स्पष्टं च लिखित्वा
प्रेषणीयम् । ३. Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते ।) ४. अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् । ५. सर्वमपि साहित्यं सन्धियुतमेव प्रेषणीयं, न तु सन्धिरहितम् ।
वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे सौकर्य
स्यात्। ७. प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः प्रतिभावो
भवतु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org