________________
त्वदर्शनं भुवनमोहनमाप्य दिव्यं,
मुग्धाप्सरोरचितगीतकलस्वनाग्रे । * यत्कोकिलः किल मधौ मधुरं विरौति, तत्काकरावमिव नीरसतां दधाति ॥१८॥
नो चर्चितौ सुरभिचन्दनलेपनेन, सम्पूजितौ सुमनसां प्ररेण वा न । किन्तु त्वदीयचरणौ हृदि धारितावे
वाऽऽलम्बनं भवजले पततां जनानाम् ॥१९॥ यस्तोषितः प्रणतिनाऽपि विमुग्धलोकं, स्वर्गापवर्गसुषमा क्षणतः प्रदत्ते । तं तोषयामि चरणाम्बुजलीनचित्तस्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२०॥
मूर्खः स एव भगवन् ! तव पादपद्मसेवां विधूय भवभोगसुखं स्पृहेद् यः । मवं विनैव फणिनागशिरःस्थरत
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥२१॥ स्वामिन् ! विनैव तव दिव्यकूपालवेन, नाऽऽप्नोति वळ्यपि समीहितकार्यसिद्धिम् । यद्वा विनैव जलतारिणिमूलिकायाः, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥२२॥
कारुण्यपूर्ण ! भगवन् ! तव बालकोऽहं, त्रायस्व मामघसमूहनिहन्यमानम् । श्रुत्वाऽऽर्तनादमिह सत्वरमेव माता, नाऽभ्येति किं निजशिशोः परिपालनार्थम् ॥२३॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org