SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आस्वाद ॥ मृत्युः ॥ नन्दपुरम् यो जायते तस्य मृत्युरवश्यं भवत्येव, नास्ति तत्र संदेहलेशः । प्रक्रियैषाऽ प्रचलति । यथोक्तं गीतायामपि डॉ. महेश्वरः रमानाथ: द्विवेदी ३६११३० Jain Education International " जातस्य हि ध्रुवो मृत्युः " अयं हि नियमः प्रकृतेः । जन्मनो बहुकालपूर्वमपि वयं नाऽऽसम् मृत्योः पश्चाद् बहुकालपर्यन्तमपि वयं न भविष्यामः, मध्ये यद् जीवितं वर्तते, तत्रैवाऽस्माकं स्थितिः । एषा स्थितिस्तु महाकालपरिमाणसापेक्षं सूक्ष्मकालिक्येव । महाकालस्यैकदेशो जीवनकाल:, यदि जीवनकालसापेक्षं चिन्तयामस्तर्हि जीवनेऽवस्थाद्वयं भवति । आतुरावस्था, अनातुरावस्था च । तत्र आतुरावस्था समग्रजीवने न भवति, क्वचिदेवाऽऽतुरावस्थाऽऽयाति, जीवनस्य दीर्घकालस्त्वनातुरत्वेनैव यापितो भवति । तत्राऽऽतुरावस्था या सूक्ष्मकालिकी, सा विकृति: ( abnormal), यथा महाकालसापेक्षं जीवनम् । अनातुरावस्था प्रकृति: ( normal), यथा महाकालसापेक्षं जीवनं विहायाऽन्यः कालः । विकृति:-आतुरावस्था सदैव दुःखप्रदा भवति । प्रकृतिस्तु शान्तिप्रदैव । विकृतितः प्रकृति प्रति गमनं सदैव सौख्यप्रदम् । यदा यदा मनुष्य आतुरत्वादनातुरत्वं - स्वास्थ्यं प्राप्नोति तदा तदा कीदृश आनन्दो भवति ! मृत्युः सा एव घटना, तत्राऽपि विकृतितः - जीवनतः प्रकृति प्रति लयं प्रति गमनम् । तत् कथं कष्टप्रदं भवितुमर्हति ? नैव, सौख्यप्रदमेव भवतीत्यनुमीयते । -- मृत्योर्भयाद् मोचयति तदेव ज्ञानम् । यथोक्तं कालिदासेनाऽपि - "मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः " केनाऽपि हिन्दीकविनाऽप्युक्तम् - [ऽनन्तकालात् ४५ For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy