________________
क्षणिकत्वं वाऽनुभवन्नपि यत्तत्राऽऽसक्तो भवति मनुष्यस्तदेवाऽसारत्वं नाम तत्र । आसक्तिरेव र मोहः । 'रमयन्ति मनः' इत्यनेन पदेनैतादृशीमासक्तिं सूचयति कविः, तथा तदुपायं है - विवेकदृष्टिं च सूचयति 'श्रूयते' इति पदेन । अर्थगाम्भीर्यं विद्यतेऽस्मिन् 'श्रूयते' इति पदे। ॐ श्रवणमपि कलैव । अत्र श्रवणेन शब्दग्रहणं हि केवलं न सूचितमस्ति किन्तु तत्त्वग्रहणं ॐ
सूचितमस्ति । तदेव च वास्तवं श्रवणं नाम । यस्य संवेदनं तीव्र स सर्वं सूक्ष्ममपि ग्रहीतुं 957 र शक्नोति । रुदनं न सर्वदा प्रकटमेव भवति, बहुशो हास्येऽप्यन्तर्हितं भवति । तादृशमन्तर्हितमपि का SEरुदनं यः श्रोतुं प्रभवति स एव शृणोति । तादृशो जागरूको विवेकी च जन एवर (2 मोहविडम्बनाद् मुक्तो भवति ।
शास्त्रेष्वितिहासे वा श्रूयतेऽपि यद् लघूनि (अस्मादृशां कृते लघूनि) अपि यथाA शिरसि श्वेतकुन्तलं दृष्ट्वा तं च यमदूतं मत्वा, पुष्पपत्रफलादिपल्लवितमपि वृक्षं कदाचिद कि नीरसं दृष्ट्वा, सन्ध्यासमये गगने विविधरागयुक्तं मेघाडम्बरं क्षणेनैव विलुप्तं दृष्ट्वा, TS
कस्यचिद् वार्धक्यं दृष्ट्वा वा-इत्यादिनिमित्तानि सम्प्राप्य स्वकीयानि राज्यादिसुखान्यपि तथैव क्षणविनश्वराणि गजकर्णवच्चञ्चलानि सारविहीनानि च विभाव्य नृपादिमहाजनैर्वान
प्रस्थमङ्गीकृतमासीत् । यद्यप्येतादृशानि निमित्तसहस्राणि वयं नित्यं प्राप्नुम एव किन्तु है नाऽस्त्यस्माकं तादृशी सूक्ष्मा संवेदना येनैतावन्मात्रेण वयं जागृता भवेम । किन्तु, इतोऽप्यधिकं भयावहां व्यथाजननी च स्थितिं वयमन्यत्र घटमानां शृणुमः पश्यामश्चाऽपि, नैतावदेवाऽपि तु बहुशो वयं तादृशी स्थिति सम्मुखामपि कुर्म एव येनाऽस्माकं हृदयं विवेकस्य वैराग्यस्य र
च प्रकाशेन प्रकाशितं स्यात् । विनश्यन् सन्ध्यारागोऽपि यदि वैराग्यमुत्पादयितुमलं तर्हि र भूकम्पाद्याघातेन चक्षुःपुरत एव हतप्रहतो जायमानः स्वसंसारः किं चित्तं वैराग्यप्लावितं न
कर्तुमलम् ? कस्यचिद् वृद्धत्वमपि वैराग्यमुद्बोधयति चेत् स्वजनानां समग्रपरिवारजनानां च मृतशरीराणि दृष्टिसमक्षं स्थितान्यपि किं वैराग्यमुद्बोधयितुं नाऽलम् ? अतिवृष्टि-जलप्रलयादिना निर्जनप्राया जाता ग्रामा अपि किं हृदयं प्लावयितुं न प्रभवेयुः? किमस्माकं मोहस्तादृशः प्रबलः ? किं संवेदनशून्या वयम् ? बहु विचारणीयमेतद् ! वानप्रस्थं कदाचिद् वयं न स्वीकुर्याम, नाऽस्त्यापत्तिः काऽपि तत्र । किन्तु घटितं दृष्ट्वाऽनुभूय वा वयं यद्यनासक्तियोगमपि साध्नुयाम, अन्तःसत्त्वं वा स्वकीयं प्रकटेम तदाऽपि वरमलं वा स्यात् । एवमेव च र बहवोऽप्यद्यतनाः प्रश्ना उत्तरिताः स्युः । अनासक्तिरेव संसारस्थानां प्रसन्नताबीजम् । हर तदेवाऽत्र दर्शितमपि ।
४४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org