________________
(२) वीरो मया नाथित एव नाथो, मित्रं न मे त्वं, त्यज राग ! मेऽन्तः । यत्राऽऽदरो नैव, न तत्र सुज्ञाः, श्रुतं न तत् किं भवता कदाचित् ॥१॥ रे रोष ! रोषं वह मा मुधाऽस्मिन्, जने यतोऽहं तव जेतृसेवी । विश्वस्तमित्थं जिन ! सेवया ते, मां पाहि नित्यं परमेश्वरस्त्वम् ॥२॥ 'द्रोहेण मोहस्य विनष्टमेतत् त्रिविष्टपं' स्पष्टतया त्वयोक्तम् । श्रुतं मया मोहविनिर्जयाय श्रितोऽसि तत् त्वं जिनराजदेव ! ॥३॥ श्रुतो न दृष्टो जिन ! ते समानो मानोन्नतः केवलवर्यलक्ष्म्या । प्राप्या तु सा केवल-संयमेन त्वं संयम संयमिवर्य ! देहि લોકો लोकेश ! लोकेषु न शर्म युग्मै-वरेतरैर्दुःखसुखात्मधर्मः । तान् द्वन्द्वभावान् विजयामि यामि यदैकभावं तव भक्तिभावम् ॥५॥ तवेश ! भक्त्या भवनाशशक्त्या न शक्नुवन्तीन्द्रियवाजिनोऽमी । त्वदेक भक्तिर्भवतीन्द्रियाणां रश्मि सदोच्छचलतां गतानाम्
દો यदाऽहमासं जिन ! राग-रोष-मोहादिदोषद्विषतां नु सेवी । तदा ममान्तःकरणं तु नष्टं पापप्रसङ्गः खलु सर्वनाशी
॥७॥ हे ! साई ! सत्त्वेषु तव स्तवो हि प्रोल्लासकासी करुणाविभासी । भवान्तकारिन् ! नरकान्तकारिन् ! संसारभीतोऽहमतः स्तवीमि ॥८॥
o
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org