________________
काव्यानुवादः
मुनिरत्नकीर्तिविजयः
अनुवाद
विपत्तौ रक्षणं कुर्यात्, प्रभो! ऽहं प्रार्थये नैवम् । परं न स्याद् भयं तत्र, प्रभो! ऽहं प्रार्थये चैवम् ॥१॥
भवेच्छान्तिर्नु दुःखाना, प्रभो! ऽहं प्रार्थये नैवम् । विसोढुं तानि शक्तः स्यां, प्रभो! ऽहं प्रार्थये चैवम् ॥२॥
सहायं कोऽपि मे कुर्यात्, प्रभो! ऽहं प्रार्थये नैवम् । न नश्येदात्मसामर्थ्य, प्रभो! ऽहं प्रार्थये चैवम् ॥३॥
छलाद् हानेश्च मामवतु, प्रभो! ऽहं प्रार्थये नैवम् । न मे श्रद्धा रखलेत् किन्तु, प्रभो! ऽहं प्रार्थये चैवम् ॥४॥
अहं नेयस्त्वया पारं, प्रभो! ऽहं प्रार्थये नैवम् । तरीतुं किन्तु शक्तः स्यां, प्रभो! ऽहं प्रार्थये चैवम् ॥५॥
मम स्वीकुरु शिरसि भारं, प्रभो! ऽहं प्रार्थये नैवम् । समर्थः स्यां तमुद्दो, प्रभो! ऽहं प्रार्थये चैवम् ॥६॥
सदा सौख्ये स्मरेयं त्वां, तथा दुःखान्धकारेऽपि । तवाऽस्तित्वे न शङ्का स्यात्, प्रभो! ऽहं प्रार्थये चैवम् ॥७॥
५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org