________________
SOOO
कथा
आसीत् ।
-
॥ स्वकार्यं स्वयमेव कर्तव्यम् ॥
एका चटका आसीत् । तस्यास्त्रयो लघवः शिशव आसन् । तस्या नीड एककृषिभूमौ
एकदिने गोपालनामकृषीवलस्तत्क्षेत्रस्य स्वामी तस्य पुत्रेण सार्धं क्षेत्रमागच्छत् । कृषीवलः पुत्रमाह- अधुना सस्यं परिपक्कं जातम् । ततः श्व आवां प्रतिवेशिना सहाऽऽगत्य सस्यं लविष्यावः । चटकायाः शिशुभिरेषा वार्ता श्रुता ।
सन्ध्यासमये यदा चटकाऽऽहारं नीत्वा स्वस्य नीडे आगच्छत्तदा शिशुभिः प्रोक्तम् भो अम्ब ! अपरेद्युः कृषीवलस्तस्य प्रतिवेशिना सहाऽऽगमिष्यति, आगत्य च कृषिक्षेत्रं • लविष्यति । अथ वयं कुत्र गमिष्यामः ? चटका अवदत् - चिन्तां मा कुरु । श्वः कोऽपि
नाऽऽगमिष्यति ।
Jain Education International
पौरिक वी. शाहः
अन्यदिने कृषीवलस्तस्य पुत्रेण सहाऽऽगच्छत् । एत्य तौ द्वौ प्रतिवेशिनां प्रतीक्षामकुरुताम् । किन्तु कोऽपि नाऽऽगच्छत् । कृषीवलेन प्रोक्तम् प्रतिवेशिनो नायाताः । अथ वोऽहं भ्रातॄनाह्वास्यामि । ते आवां सस्यं लवितुं सहायं करिष्यन्ति ।
I
सन्ध्यासमये यदा चटकाऽऽगच्छत्तदा एकशिशुना प्रोक्तम् - भो मातः ! श्वोऽवश्यं कृषीवलो भ्रातृभिः सहाऽऽगत्य सस्यं लविष्यति । अथ किम् ? चटकयोक्तम् - चिन्तां मा कुरु । श्वः कोऽपि नाऽऽयास्यति ।
नूनमेवमेव जातम् । प्रतीक्षां कुर्वाणो गोपालकृषीवलस्तस्य पुत्रेण सह तत्रैवोपाविशत् । परन्तु कोऽपि नाऽऽगच्छत् । तदन्ते कृषीवलेन प्रोक्तम् - श्व आवां द्वौ स्वयमेवाऽऽगत्य सस्यं लविष्यावः ।
-
सन्ध्यासमये पुनः शिशुभिर्माता प्रोक्ता श्वः कृषीवलस्तस्य पुत्रेण सह स्वयमेव क्षेत्रं लविष्यति । ततो वयं किं कुर्याम ? चटका कथयति-अद्य वयमन्यस्थानं गत्वा वत्स्यामः । यतः श्वोऽवश्यं कृषीवलेन कृषिक्षेत्रं लविष्यते । चटका तस्यास्त्रिभिः शिशुभिः सह तत्स्थानं त्यक्त्वाऽन्यनिर्भयस्थानं गत्वा न्यवसत् ।
नूनं स्वस्य कार्यं स्वयमेव कर्तव्यम् ।
८५
For Private & Personal Use Only
बी-१, हृदय एपार्टमेन्ट, पालडी, अहमदाबाद-७ (गुजरात)
www.jainelibrary.org