SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 'सोनेकी छडी, रूपेकी मशाल जरियाँका जामा मोतनकी माल आजु बाजुसे निगाह रखो महेरबान जीवदयाप्रतिपालक श्रीआदिनाथ भगवान को घणी खम्मा घणी खम्मा ।' तस्य स्तुतिस्वराणि दीर्घकालं दूरसुदूरं गुञ्जन्ति स्म । जनेषु तस्य ख्यातिर्जाता । ततो नित्यं सायंकाले बहुसङ्ख्यलोकस्तत्राऽऽगच्छति स्म । एकस्मिन् दिने नगरस्य मानसिंहठाकुरस्तत्राऽऽगतः । करसनोऽतीवोत्साहेन स्तुतिमकरोत् । स्तुतिं श्रुत्वाऽतीव प्रसन्नो भूत्वा ठाकुरस्तस्मै आत्मनः पादामैरं दातुलङ्काच्छत् । स उक्तवान् - रे करसन, हस्तं प्रसारय, अहं तुभ्यं सुवर्णालङ्कारं ददामि ।' करसनो हर्षेण वामहस्तं प्रासारयत् । ठाकुरोऽवदत्- 'दक्षिणेन हस्तेन स्वीकार्यमिदमाभूषणम् । तदेवोचितम् ।' करसनोऽवदत् 'महाराज मम दक्षिणकरस्तु देवाधिदेव श्री आदिनाथाय समर्पितः । तस्मात् तं भवत्समीपे प्रसारयितुम् न शक्नोमि । क्षमां प्रार्थये ।' एवं करसनो बहुमूल्यं सुवर्णालङ्कारं राजकृपामपि चाऽवगणय्य केवलं देवाधिदेवं बह्वमन्यत । (३) एकदा नृपतिर्मानसिंहठाकुरो नगर्यां शोभायात्रायै प्रस्थितः । गजारूढः स नृपो मित्रैरावृत्तं करसनं दृष्टवान् । स तस्य ख्यातिमस्मरत् । तस्य च मुखेन स्वस्तुतिं श्रोतुमैच्छत् । करसनमुद्दिश्य स उक्तवान्- 'रे करसन, यादृशीं भगवतः स्तुतिं त्वं करोषि तादृशी ममाऽपि स्तुतिं कुरुष्व । अहं तुभ्यं घेटीग्रामं पारितोषिकरूपेण दास्यामि' इति । जनसमूहमध्ये स्थितः करसन उवाच - 'मां क्षमताम् । मया केवलं देवाधिदेव आदीश्वरः एव स्तूयते, नाऽन्य: । ' धन्या तस्य निःस्पृहता । Jain Education International * ८४ For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy