________________
संवादः
मुनिधर्मकीर्तिविजयः
(एको जनो गच्छन्नासीत् । तेन समीपस्थः शुष्को वृक्षो दृष्टः । तदा स वृक्षं
की पृच्छति-)
। मनुष्यः भो ! भोः ! किमर्थमुदासस्त्वं दृश्यसे ?
वृक्षः हं, (किमपि न वदति ।) मनुष्यः (समीपं गत्वा) रे ! किमर्थं न वदसि ? मया कोऽपराधः कृतः ? वृक्षः (साक्रोशम्) अपसरतु, अपसरतु । 'त्वादृशस्य प्राणिनो मुखदर्शनमेव पापमस्ती'ति ।
मन्येऽहम् । । मनुष्यः क्रोधं मा कार्षीः । शान्तिमवधार्य यज्जातं तत् कथय । वृक्षः अलं शान्त्या । मूर्ख ! मां किं पृच्छसि ! गत्वा राष्ट्रियमार्गम(N.H.4)वलोकय । मनुष्यः (विहस्य) अहो ! ज्ञातं ज्ञातम्, तवैतादृशस्य महत: कोपस्य कारणं ज्ञातं खलु। वृक्षः रे धृष्ट ! दुष्टं कार्यं विधायाऽपि हससि ? किं लज्जां नाऽनुभवसि त्वम् ? । मनुष्यः सर्वे जीवा स्वसुखार्थं प्रयतन्ते, तथैवाऽत्राऽस्माभिरप्यानुकूल्यार्थं सुखार्थं चैवं
कृतम् । अतोऽत्र कथं लज्जनीयम् ! १ वृक्षः सत्यम्, तत्त्वहमपि जानाम्येव; किन्तु परजीवेभ्यो दुःखं दत्त्वा सुखं प्रापणीयमिति
तु न कुत्रचिदपि ज्ञातं दृष्टं च । 'परदुःखे सुखी' - एतादृशस्तु त्वमेक एव
'मनुष्यो' दृष्टो मया । मनुष्यः अहो ! तव विद्वत्त्वं चातुर्यं च प्रशंसनीयमस्ति । तथाऽप्येतत्तु ज्ञेयं यद्, लाभं हानि
चाऽपेक्ष्यैव सर्वमपि कार्यं क्रियते । यदि महान् लाभः स्यात्तील्पहानिरुपेक्षणीया । अत्राऽल्पहानौ सत्यामपि महतो लाभस्य कारणं दृश्यते । अत एवं करणे किमर्थं का
लज्जनीयम् ? - वृक्षः आस्तामेतेन वाग्विलासेन । एतद् वाक्चातुर्यं तव समीपे एव स्थापय । प्रथममेतं
Jain Education International
८६ For Private & Personal Use Only
www.jainelibrary.org