________________
CCC
55555 55 5 55 55 5 ༨ ༨ ༨
नामाविष्करणं भवति; अर्थात् शुद्धगुणानामाविष्करणमेव 'विकास' इत्युच्यते।
स्थूलदृष्टिवद्भिरस्माभिः केवलं बाह्यविकासे एव जीवनस्य सार्थक्यं साफल्यं चेति O) निर्णीतम् । वयं कियत्सु तुच्छवस्तुषु 'जीवनं सफलमि'ति मन्यामहे, तच्चिन्त्यमस्ति।
- यथा- "दान (Donation) रूपेण लक्षरूप्यकं धनं दत्त्वाऽपि यदि नगरस्य 16 प्रसिद्धशालायां बालकस्य प्रवेशो निश्चितः स्यात्, परीक्षायां बालकः प्रथमस्थानं प्राप्नुयात्, विविधस्पर्धासु बालकोऽग्रेसरो भवेत्, यौवने प्रतिष्ठितसंस्थायामुच्चपदे नियुक्तिः स्यात्, गुणशून्ययाऽपि रूपवत्या धनिककन्यया सह विवाहो जायेत, समाजे प्रतिष्ठा प्रशंसा प्रभावश्च प्रसरेयुः, वार्धक्ये पुत्रा आज्ञानुसारिणः स्युः, इत्येतैर्जीवनं सफलं सार्थक्यं चे''ति मन्यतेऽस्माभिः । एवं यथा यथा बाह्यविकासस्य प्रामाण्यमधिकं तथा तथा तस्य जीवनस्य साफल्यमपि सुन्दरमधिकं चेति जनप्रवादो प्रवर्तते । अतिदुःखदा घटना त्वेषाऽस्ति यत्, साफल्यस्य विकासस्य चैषैव विभावना यथा संसारिजनेषु तथैव साधुजनेष्वपि दृश्यते मन्यते च। तत एव "यदि प्रवचने सहस्राधिका जना आगच्छेयुः, पञ्चानां दशानां वा शिष्याणां गुरुपदं प्राप्नुयात्, सदुपदेशेन बहवो महोत्सवा जायेरन्, वन्दनार्थं धनिकश्रेष्ठिनो राजनेतारश्चाऽऽगच्छेयुः, भवेन्नाम स साधुरात्मिकदृष्ट्या निकृष्टः स्यात्, तच्चित्तं महत्त्वाकाङ्क्षा-अहङ्कारादिदुर्गुणोपेतं स्यात्, किन्तु लोके तु प्रशंसा स्याद् यद्, अस्य विकासोऽतीव सुन्दरोऽस्ति, एष ज्ञानी महान् व्याख्याता प्रभावकश्चेति, तदा जीवनं सफल''मिति मन्ये ।
मयैकः साधुर्दृष्टः । तच्चित्ते एकैव महेच्छाऽऽसीद् यद्, अहममुकं ग्रन्थं पठेयम्, अमुकं ग्रन्थमधीयीय, एवं नैकान् ग्रन्थान् पठेयम्, येन जनेषु 'एष ज्ञानी महाज्ञानी चेति प्रशंसा स्यात्, समाजस्थितेषु ज्ञानिसाधुषु ममाऽपि गणना स्यात्, तर्हि मे जीवनं सफलमिति । पश्य, अत्र ज्ञानोपार्जनस्येच्छा सुन्दरा, किन्तु तस्य आशयस्तु न समीचीनोऽस्ति । तदेव ज्ञानं, तदेव पठितं सफलं येन दुर्गुणानां हानिः स्यात्, अन्यथा शास्त्रमपि शस्त्रं भवेत् । अद्य पठितैविद्वज्जनैरेव शास्त्रस्य व्याजेन समाजे धर्मस्थानेषु च विवादः क्लेशश्चोत्पादितः । शास्त्रस्य व्याजेन ते स्वाभीष्टं पूरयन्ति । एतैरेवैकान्ते आसेव्यमाना पापलीला यदा यदा ज्ञायते दृश्यते च तदा मनसि प्रश्न उद्भवति यत्, किं ज्ञानस्य फलमेतदेव? किं एष एव ज्ञानविकासः ? न, न, ज्ञानविकासस्त्वेष एव येन स्वपरचित्तेषु समाधिः संजायेत । सा बाह्यविकासेन न भवति । तथाऽप्यधुना बाह्यविकास एवाऽस्माभिर्दृश्यते।
४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org