________________
-
किन्तु 'मयि दुर्गुणाः सन्ति' इत्यपि यदि भानं स्यात्तीप्यलम् । चित्तं तु बहुदुर्गुणभृतमस्ति। ।। केषाञ्चित् प्रशंसां श्रुत्वा स्वचित्ते ईर्ष्या जागर्ति, अन्येषामवहेलनं निन्दां च निशम्याऽऽनन्दो जायते । एवमन्येषां दुःखे एवाऽस्माभिः प्रसन्नताऽनुभूयते । स्वापराधे सत्यपि यदि कश्चित् किमपि कथयेत्तर्हि वयं तत् सोढुं न शक्नुमः, तत्क्षणमेव तस्य दुर्गुणान् दर्शयित्वा तेन सह विवादं कर्तुं सन्नद्धा भवामः । एवमनेके दुर्गुणाः सन्ति, किन्तु तान् ज्ञातुमात्मिकविकास एवाऽऽवश्यकः, न तु केवलं बाह्यविकासः । भो ! आत्मिकविकासदृष्ट्या तु वयं नितरां दरिद्राः स्मः ।
अद्य विदेशे राजकीयौद्योगिकादिषु सर्वेष्वपि क्षेत्रेषु महता वेगेन प्रतिपदं विकासो वृद्धिंगतो दृश्यते, किन्तु तत्र मानवीयानां मूल्यानां तु नितरां हासो दृश्यते । सर्वत्र विकासस्य विभावनायां व्यक्तिप्रभावो धनप्रभाव एव दृश्यते । “आर्थिकोत्पादनमद्यतनसाधनोत्पादनमेव विकास' इति भावनामुपेक्ष्य 'मानवीयानां मूल्यानां गुणानां च विकसनमिति विकास' एवमुदात्तदृष्ट्या विकासस्य विभावना चिन्तनीया । एषैव विभावनाऽऽर्यसंस्कृते रक्षणार्थं श्रेयस्कर्यस्ति।
अन्ते, त्वमपि बाह्यविकासेन सहाऽऽत्मिकगुणानां विकासं कुरु, इत्याशासे ।
6666666666666
CCCCCCCCCC
यैतूलो भवति पुरतः कथ्यमानै जनानां कामप्यन्तर्विदधति रुजं येऽप्यनु वीर्यमाणाः । तेऽभिप्रायाः किमपि हृदये कण्ठलग्नाः स्फुरन्तो यस्याऽऽख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ।।
(सुभाषितरत्नभाण्डबगारे)
૨ ૨ ૨ ૨ ૨ ૨ ૨
Jain Education International
५० For Private & Personal Use Only
www.jainelibrary.org