SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ बल परस्परमेवं जल्पन्ति 'हले हले ! प्रेक्षस्वाऽत्र सुरूपयौवनमण्डितः प्रत्यक्षं कामदेव इव कोऽपि मनुष्ययुवा कुतोऽपि समागतोऽस्ति । पूर्वं तु कोऽपि मनुष्य इह नैवाऽऽगतः ।' तावता कुमारेणाऽपि तासामेका पृष्टा 'भद्रे ! कैषा वरनगरी ? को वाऽत्र नृपतिरस्ति ?' तयोक्तं 'भो ! नैवाऽस्त्यत्र कश्चिन्नराधिपः । एषा नगरी तु व्यन्तरजातिभिर्देवताभिः क्रीडा) विनिर्मिताऽस्ति । इह ताः स्वेच्छया रमन्ते विविधाभिः क्रीडाभिः ।' 'यद्येवं, तर्हि किमित्येतावान् जलपूर उह्यते ?' कुमारः पृच्छति स्म । तयोत्तरितं 'महाभाग ! अस्माकं किल या स्वामिनी वर्तते सा क्रीडा) क्वचिद् गता सती केनचिद् र भुजे प्रहृताऽस्ति । तेन च तस्या दारुणा पीडा वर्तते । अतस्तच्छमनार्थमेष जलसेकः * क्रियमाणोऽस्ति । किन्तु कथमपि सा वेदना नोपशाम्यति ।' 'ननु देव्यपि सा निजपीडो-* में पशमनायाऽशक्ता वा ?' कुमारेण पृष्टम् । तयोक्तं 'प्रहारकर्तृ रक्षकदेवताया प्रतीकारं 74 कर्तुमसमर्था नः स्वामिनी, अतस्तस्या वेदना नोपशाम्यति । किञ्च, स्वामिन्याः करे * महाप्रभावकमोषधिवलयद्विकमासीद्, यच्च तुष्टेन व्यन्तरेन्द्रेण तस्यै दत्तमासीत्, ययोश्चैकं 35 धूमेन परं मोहयति द्वितीयं च महाप्रहारेऽपि वेदनामुपशमयति, तदपि तत्रैव पतितमस्ति । अतोऽपि सा निजवेदनामुपशमयितुमसमर्था ।' वत्सराजेनोक्तं 'भद्रे ! अहं मानुषो वैद्योऽस्मि । यदि कथमपि तस्या वेदनामपनयेयं तदा सा मे किं दास्यति ?' तयोदितं - 'यदिच्छेत् तन्निःशङ्कं लप्स्यते भवान् ।' 'यद्येवं, * तर्हि चलतु पश्यामि तावत्' इति कुमारेण भणितम् । साऽकथयत् - 'वैद्यवर्य ! स्वामिनी * पृष्ट्वाऽऽगताऽहमेषा । प्रतीक्षतां तावत् ।' तेन गदितम् – 'अस्त्वेवमपि, यदि भवतीच्छति । ) 55 किन्त्वहं बहु विलम्बं न सहिष्ये ।' . साऽपि तत्स्वामिनीपार्श्व गत्वा विज्ञपयति स्म 'देवि ! अस्त्येका विज्ञप्तियद - ** ॐ मानुषो वैद्यः कश्चिन्नगरीद्वारे तिष्ठति कथयति च यदहं सर्वामपि वेदनामपनेतुं शक्तोऽस्मि। - तत् किं तमानयेयमत्र ?' 'शीघ्रमानय' इति च स्वामिन्योक्ते साऽपि पुनः कुमारान्तिकमागत्य तमुक्तवती 'भोः ! शीघ्रमागच्छतु, मा विलम्बताम् ।' तदा सोऽपि नगरी प्रलोकयन् तया 4 सह प्रस्थितः । तदा तयोक्तं - 'भद्र ! यदि नः स्वामिनी कथमपि तुष्येत् तदा तत्सकाशाद्र र भवान् उपरिस्थितं कन्यायुगलं सर्वकामदं पल्यत यक्षं चाऽश्वरूपधरं मार्गयताम् । एतेन भवतः सर्वाण्यपि कार्याणि सेत्स्यन्ति ।' 'अस्तु' इति प्रतिपद्य सोऽपि तया सह प्रासादं ६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy