________________
नष्टो न मानो न च वामकामो बोधावरोधौ न च राग-रोषौ ।। तथापि चेतः ! किमु माद्यसि त्वं विधेहि वीरे वरभक्तियोगम् ॥१॥ किं जालकल्पे खलवाविकल्पे त्वं खेलसीत्थं किमु खिद्यसीत्थम् । विमुह्य रागात् कृतकात् तु चित्त ! काके न केकाऽमृतपानतोऽपि ॥२॥ यदग्रमुग्रं सततं नु तृष्णायनं तु लोभाधमदम्भगर्भम् । मनोऽवधानं कुरु मा भ्रम त्वं विनाऽवधानं सुखमाप्यते नो શરૂ निस्सारवाक्कैतववैभवां तां जनस्य नाशे प्रतिबद्धकक्षाम् । मत्वेति मायां, समये तु साचे रमस्व चेतो ! भव निर्भयं त्वम् मुधैव किं धावसि चित्तबाल ! तं विश्वपालं प्रविहाय कुत्र ? । येनोद्धृतं विश्वमनेकदुःखान्मोहान्महामायिकजालतवात्
॥५॥ सेहो न युक्तः स्वजनीभवत्सु स्वार्थे विलीने रिपवन्ति ये तु । भ्रातः शृणु स्वान्त ! हितं मयोक्तं, भजस्व वीरं नितरां परार्थम् દો मुहूर्तमानं भव चित्त ! मित्रं शान्तं तु खिन्नं बहुशोऽन्यभावे । जानाति देवः परिदेवनां ते, चिन्ता किमु ज्ञातरि भावमीशे हेतिर्न, हेतुर्न हि तस्य कृत्यं, रतिर्न खेदः खलु पुद्गलेषु । वीरोक्तिसत्साम्यसुधानिमग्नं भवेऽपि चित्तं भवतालु योगात्
દ્રો
॥७॥
Jain Education International
२१ For Private & Personal Use Only
www.jainelibrary.org