________________
Tws
॥२॥
यत् तप्तकातस्वरभास्वरं ते वपुस्तथाऽधीश्वर ! गत्वरं तत् । गुणास्त्वनन्ता न विनश्वरास्तान् ध्यायामि गायामि यतोऽस्मि तेषु नित्यं गुणानां तव नाथ ! धारा धरासु मोदं प्रमदं वहन्ति । तन्मोदनुन्ना मरुतोऽनुकूला गुणिव्रजेषु त्वयि लीनवत्सु गुणांस्तवाऽर्हन् ! शमवत्सु मुख्याः पश्यन्ति नित्यं प्रतिबिम्बितांस्तान् । स्वच्छे स्थिरे शान्ततमे निजात्म-जलेऽखिलेन्दोरिव शीतभासः गङ्गाप्रपातात् प्रविमुक्त वारां-बिन्दूत्कर: प्रोत्किरतीश ! यद्वद् । गुणोऽप्यणुर्नाथ ! तवैव मन्ये सर्वत्र शाम्यादिसमानधारः कूटस्थ एको गदितः प्रसङ्ख्यैर्हे नाथ ! नो भाति मतौ ममेश ! गुणैकमेरौ गुणकूटकाये तवैव नैके सुखिनोऽतिसङ्ख्याः अभ्रायितं जन्ममरौ जिनेश ! तवाऽमुना नैकगुणामूतेन । येनेह सत्त्वेषु गुणाकुरास्तु फलन्ति मुक्तिं क्रमतोऽनुयोगम् स्पर्धा न सार्धं भवता गुणेषु, वक्तुं न शक्तो न तु तेषु भक्तः । ईहे हितान् तान् खलु सङ्ख्ययाऽथ श्रित्वा गुणाँस्ते गुणसागरेश ! गुणांस्त्वदीयान् नतवत्सलेश ! ज्ञात्वेति विज्ञप्तमिदं गुणेन्दो ! । तप्तोऽर्दितो दुःखित-खेदितोऽहं सुधां समाधि वितरेश ! चित्ते
॥६॥
॥७॥
-0
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org