________________
द्वितीयदिने केनाऽपि सज्जनेन तत्रस्थितवृक्षस्य लताया उपरि लिखितमेकं पत्रं (card) स्थापितम् । तत्र लिखितम् - "चेरीवृक्षाणां रक्षक ! श्रीमन् काझुमामहोदय ! भवान् पुष्पाणि प्रति दयालुरस्ति । अतः पञ्चदिनपर्यन्तमेतान वृक्षान् कृपया मा उच्छेत्सीः । यतोऽस्मिन् वसन्तौ तानि पुष्पाणि पुनर्विशेषतो विकसेयु"रिति ।
सर्वैः तत् पत्रं पठितम् । सर्वत्र वार्ता प्रसृता । द्वितीयदिने एव तल्लताया उपरि स्थापितं नूतनमेकं पत्रं सर्वैर्दृष्टम् । तत्र- "पुष्पाणां रक्षणार्थं यद् हृदयं व्यथितं भवति तदेव मम 'जापान'देशस्य वास्तविकमौदार्यभृतं चैतन्यमयं च हृदयं तथा गौरवमस्ति । ईदृशी मृदुभावना सर्वत्र प्रसरतु" ।
- - 'चेरीवृक्षाणां रक्षकः काझुमा' इति । 'काझुमा' महोदयस्यैतादृशं निर्णयं निरीक्ष्य कृतज्ञतामापनै गरजनैर्बहुभिः काव्यैः ता वृक्षलता भृताः । अन्ते सत्ताधिकारिभिः स्वायोजनं परावर्त्य तद्वक्षाणां रक्षणं कृतम् । रे ! किं ज्ञातं कथाया हार्दम् ? प्रकृति प्रति जनानां हृदयं कीदृशं
स्यादित्यनेन ज्ञायते । अतो वाक्प्रपञ्चं विहाय सत्यमार्गमनुसर । मनुष्यः - (अधोदृष्टिं विधाय तूष्णीं स्थितवान् ।) वृक्षः भोः ! कथं न वदसि ? मनुष्यः शोकं मा स्म करोः । पुनः तत्र विविधवृक्षाणामारोपणं करिष्यामि । वृक्षः रे निर्लज्ज ! कथमेवं वदसि ? वृक्षाणामारोपणमाश्वासनमात्रमेवाऽस्ति । विद्यमानानां
बन्धुजनानां विनाशः को नाम स्वीकुर्यात् ? किमस्मान् मूर्खान् मन्यसे ? भो ! नाऽहं मूर्खः किन्तु त्वमेव मूर्योऽसि । तव मूर्खत्वं कथंरीत्या वर्णयामि, तदेव न जानामि । त्वमेकतः प्रकृतिं विनाशयसि, अपरतः 'प्रकृतिं रक्षन्तु, प्रकृति रक्षन्तु' इत्युच्चैराराटिं कृत्वा प्रकृतिसंमेलनमायोजयसि । एवं देहानुकूल्यार्थं सर्वत्र 'नैसर्गिकोपचारकेन्द्र स्थापयसि । पञ्चदशदिनपर्यन्तं गृह-स्वजनापणादिकं विहाय तत्रैव वृक्षस्याऽधो निवससि, पश्चात् प्रकृतिमाहात्म्यं वर्णयसि । अन्यच्च प्रासादस्य परितो हरिताङ्गणं विरचयसि । तत्र प्रातर्धावसि (Morning Walk)। अहो ! किमेतद् मूर्खत्वमुत चातुर्यम् ?
८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org