________________
कर
शुश्रूषुतादिगुणयुग दृढतत्त्वनिष्ठो लिप्सादिदोषरहितः प्रतिबद्धलक्ष्यः । सूत्रं ह्यसौ परममत्रमिव प्रगृह्णन्नध्येति सद्गुरुमुखात् स्वहितैकलक्षी ॥६॥
एवं ह्यसौ समधिगच्छति शास्त्रसारं सम्यङ् नियोजयति तच्च रेषु नीत्या । मुक्त्यर्थिनां मतिमतां सुमहाशयाना
मेषैव शिष्यजनशासनरीतिरिष्टा ॥७॥ यत्राविधिर्न विनियोगफलं हि तत्र मत्रो यथाऽविधिवशाद्विफलः प्रयोगे । नास्त्यत्र धर्मचरणस्य तु सूत्रपातः सर्वं ह्यधीतमपि तद्विरहे न किञ्चित् ॥८॥
यो धर्मसाधनविधावकृतप्रवेशो दुःखं हि मार्गकथने किल तस्य दृष्टम् । किं वाऽवधीरणमथ प्रतिपत्त्यभाव
एवं ह्यधीतमपि शून्यममर्मबोधात् ॥९॥ मार्गस्थितेन विहिता तु विराधना स्यादारम्भकारकतया शुभकृन्न दुष्टा । आरब्धधर्मचरणस्य सुमार्गशिक्षा
नो कष्टदाऽनभिनिवेशफला च भाव्या ॥१०॥ RANA कस्याऽपि सम्भवति तत्प्रतिपत्तिमात्र
मारम्भयोग इह कस्यचन क्रियायाः । AVOREयद्वै श्रुतं विधियुतं समधीतमेवं को
ज्ञेयं त्वधीतमिति तत्किल मर्मबोधात् ॥११॥
"
२८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org