________________
प्रारब्धधर्मचरणो नियमात्सबीजो मार्गस्थितः प्रयतते तु सदाशयेन । तस्याऽप्यपायबहुलस्य विराधनायाः स्यात्सम्भवस्तु मतिविभ्रममुख्यदोषैः ॥१२॥
सूत्रानुसारमनुतिष्ठति सोऽप्यपायमुक्ते ऽनुकूलसमये स्वहितप्रवीणः । गुप्तित्रयं समितिपञ्चकमेवमष्ट
मातृर्भजेत् प्रवचनस्य सदोद्यतः सन् ॥१३॥ त्यागो यथाऽहितकर: शिशवे जनन्या अव्यक्तभावसहितस्य मुनेस्तथैव ।। आसां परित्यजनमत्र ततो न योग्यं व्यक्तत्वमत्र बत केवलिनो हि पूर्णम् ॥१४॥
आसां च सेवनफलं किल केवलित्वं त्याज्यास्तु मातर इमाः प्रथमं कथं स्युः ? जानात्यसौ द्विविधयाऽपि परिज़यैतज्
ज्ञानक्रियोभयविधौ विशदावधानः ॥१५॥ द्वीपं महोदधिनिमज्जनभीतलोका अप्लावितं शरणदं मृगयन्ति बाढम् । दीपं च घोरगहने स्थिरसुप्रकाशमिच्छन्ति मार्गपरिशोधनसत्सहायम् ॥१६॥ A एवं क्षयोपशमजं चरितं च बोधं
प्राप्तोऽपि वेत्त्युभययोः प्लवनास्थिरत्वे । तस्मात् स सूत्रविधिना यतते क्षयोत्थचारित्रबोधसमुपार्जनदत्तचित्तः ॥१७॥
AKASH
२९ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org