SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सफाकथात्रयम आ. विजयशीलचन्द्रसूरिः 3X2/0/0/800/8/9/2/2/0/0/0/8/8/8/8/8/0/01018/0/8/8/0/0/0/EX साधकाय केनचिद् उक्तम्तात ! लोका भवतः कथनस्य विविधमर्थं घटयन्ति, चिन्ताप्रेरकमेतद् ननु ! साधकेन सस्मितं प्रत्युक्तम्-नन्वेतदेव मदीयवचनस्य सार्थक्यम् । यदि भवत्पार्श्वे स्थाली आगता, तदा तस्या उपयोगं यथेच्छं जलपानाय वा दुग्धपानाय वा खाद्यान्नभक्षणाय वा कर्तुं नाऽर्हन्ति भवन्तः ? किमत्र चिन्तायाः कारणम् ? (२) प्रभुपरायणं साधुमेकं दृष्ट्वा केनाऽपि पृष्टम् भवान् उदरनिर्वाहार्थमपि कथं याचनां न करोति ? यदि याचना क्रियेत तदा किञ्चित् तु लभ्येत एव । मन्दं हसित्वा निगदितं साधुना यद्यहं याचेय, न च कोऽपि किञ्चिदपि दद्यान्मे, तदा तस्याऽदातुर्मन्निमित्तं हानिः स्यादिति सम्भावनयाऽहं न याचे । यतो मया श्रुतमेवं - "महम्मदमहोदयेन कथितमस्ति यद् यस्य जनस्य वस्तुतः काचिदावश्यकता वर्तते, तत्पूर्त्यर्थं सोऽन्यं जनं याचते, तदनन्तरं यदि स जनस्तस्मै किमपि न ददाति, तदा तस्य-अदातुर्हठाद् हानिः प्रजायते ।" XOXGXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXOXE| ध्याननिमग्नं साधकं निश्चलीभूय स्थितमवलोक्य पश्चात् केनाऽपि जिज्ञासुना पृष्टः सः भवतैतावती निश्चलता कुतः शिक्षिता ? 'मारितः खलु' - साधकेन सपदि गदितम्; ‘स मूषकं प्रतीक्षमाणः प्रेक्षमाणश्चेदृशो ध्याननिश्चल आसीत्, यत् तं दृष्ट्वा मया मदीया ध्यानमग्नता निःसाराऽनुभूता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy