________________
-
-
-
॥१॥
રો
રો
॥४॥
बन्धस्य हेतुर्ननु रागभावः संसारभावेष्वतिपेशलोऽपि । तं नाशयिष्ये तव भक्ति रागान्मृदोः पयोजात् दृढचित्तहेतोः संसारचारादतिघोरदुःखात् सत्त्वेषु मुक्तिं कुरुषे त्वमाशु । मुक्ति प्रदातः ! करुणां कुरुष्व ह्युपेक्षसे मां, तव नोचितं तद् रागाद्यमाद्यन्मदमोहमारि-वैरिव्रजाणां मथिताऽसि नाथ ! । रेष्यतो नो तव साम्यमस्ति स्वयं निमग्ना भवसागरे ये कदाऽपि विद्धः खलवाग्विलासै-र्दग्धोऽन्यदोषाज्यविवृद्धरोषात् । कदापि नष्टो निजदुर्विलासै-विडम्बितो नाथ ! मया ममाऽऽत्मा इत्थं विभो ! वीर ! सदा विशुद्ध-संसिद्धसंदर्शन ! शुद्धबोध ! । विबोधितेन्द्रादिमभूतिदात-र्दोषैर्विनष्टं मम रक्ष बोधम् दुर्बोधकाठिन्यवती मतिमें पदे पदे पङ्गुरिव स्खलन्ती । स्वामिन्नसत्त्वस्तव तत्त्वबोधे मामीदृशं बोधय बोधितत्त्वम् त्वां जात्यजाम्बूनददीप्तिगौरं देहप्रभारञ्जितदिग्विभागम् । सुवर्णपद्मोपरि राजमानं ध्यात्वेति मां नाथ ! कृतार्थयिष्ये पद्मासनस्थं स्थिरचित्त-कायं तवाऽऽस्यपकनिमग्ननेत्रम् । आप्यायतु त्वत्करुणासुधा मां नित्यं नितान्तं घनकर्मतप्तम्
કો
॥६॥
॥७॥
l૮
-
0
१३ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org