SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 5 'नन्वनेन तु सिंहोऽपि हतः । ततो बली तु नाऽन्यः कोऽपि विद्यतेऽत्र । अतोऽन्यमेव कञ्चिदुपायं गवेषयामो येन नृपकार्य सिध्येत् ।' एतावताऽन्यो मन्त्री कथितवान् ‘भोः ! तं व्याघ्रीदुग्धानयनार्थं प्रेषयामो, येन व्याघ्रयैव तां हन्यात् ।' एतच्छ्रुत्वा सर्वैः ‘साधूपायोऽन्विष्टो भवता' इति स प्रशंसितः । ततश्च द्वितीयदिने राजाऽऽस्थानमध्ये उद्घोषितवान् 'अस्माकं व्याघ्रीदुग्धेन प्रयोजनमस्ति, अतो वनं गत्वा कस्तदानेष्यति ?' एतच्छ्रुत्वा सर्वेऽपि सुभटा मरणहै भीरुतयाऽधोमुखाः संस्थिताः । तदैकेन मन्त्रिणा 'प्रभो ! एतत्कार्यस्य सामर्थ्य वत्सराजाद र म ऋते नाऽस्त्यन्यस्य कस्यचिद्' इति कथिते राज्ञा यावत् कुमारमुखं विलोकितं तावत् 2 * कुमारोऽपि समुत्थाय 'आदेशः' इति भणित्वा राजभवनान्निर्गतः ।। 4 विमनाः स यावन्निजगृहं प्राप्तस्तावत्तस्य प्रियाभिरागत्योक्तं "किं नाथ ! अद्याऽतीव * व्याकुलो दृश्यते ? किं जातम् ?' अनेनोक्तं 'न किञ्चिदपि ।' तदा ताभिरुक्तं 'किमद्याऽपि ? सह राजादेशपालनं न विहितम् ?' अयमुक्तवान् ‘प्रिये ! केनेदमभिहितं शीघ्रमेव युष्माकम् ?' * ताभिरुक्तं - 'स्वामिन् ! अस्माभिरेव श्रुतमेतत् । यतो भोजनदिनादारभ्य भवद्रक्षार्थं वयमदृश्यतया नित्यं भवत्सन्निहिता एव भवामः । तथा स दुष्टः सिंहराजोऽप्यस्माभिरेव हत TA आसीत् । अनेनैव कारणेनेदमस्माभिमा॑तम् ।' अथ यदि राज्ञा भवान् व्याघ्रीदुग्धायाऽऽदिष्टस्तहि । शीघ्रमेव दिव्याश्वमारुह्य भीमाटवीं गच्छतु । तत्क्षेत्रदेवी हि नो जननीदेव्याः सखीभूता तत्रैव 5 * व्याघ्रीरूपेण वसति । सैनमश्वमुपलक्षयिष्यति । तामेव कर्णेन धृत्वाऽत्राऽऽनीय राज्ञे समर्पयतु ।' एवं भणितो वत्सराजः सत्वरमेवाऽश्वरूपधरं यक्षमारुह्य क्षणार्धेनैवाऽटवीं प्राप्तो अ दृष्टश्च व्याघ्रीरूपया देव्या । साऽपि देवी तं दृष्ट्वा तत्पार्श्वमागता कथितवती च 'स्वागत* मिहाऽस्ति तव पुत्र !, कथय किं मेऽस्ति कार्यं तव ?' तदा कुमारेण राजाज्ञादिप्रयोजनं 56 कथितम् । तया गदितं 'नय मां तत्र येन दुष्टानां यथोचितं करिष्ये ।' - ततः कुमारोऽपि तां गृहीत्वा नगरी प्राप्तः सन् जनान् भापयति स्म । जना अपि में स तां दृष्ट्वा भीताः सर्वदिक्षु प्रणष्टाः । अयमपि च व्याघ्रीं गृहीत्वा नृपास्थानं प्राप्तो भणति स्म च 'देव ! गृह्णात्वेनां नवप्रसूतां महाव्याघ्री यथेच्छं च दुग्धं दुहन्तु ।' भणित्वा च व्याघ्रीं मुञ्चति स्म । तदा सा व्याघ्री परामर्शस्याऽस्य दायकं मन्त्रिणं गृहीत्वा हतवती । एतदृष्ट्वा A भीतेन राज्ञा कथितं 'भो ! वत्सराज ! मा कार्षीरीदृशं कर्म । कृपया गृहाणैतां व्याघ्रीं येन ** Jain Education International ७५ For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy