SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सुकन्या रचयिता : डॉ. आचार्यरामकिशोरमिश्रः ___२९५/१४, पट्टीरामपुरम्, खेकड़ा-२०११०१ (बागपत) उ.प्र. सुकन्या राज्ञः शर्यातेस्तनयाऽऽसीत् । सा शरीरेण सुन्दरी, मनसा मनोहारिणी, - हृदयेन हृदयप्रिया, विनीता, सुशीला चाऽऽसीत् । एकदा तस्या जनकेन राज्ञा शर्यातिनाऽऽखेटाय 8 वने सेनया सह शिविरः स्थापितः । तदा वने महर्षिभृगोः पुत्र ऋषिश्च्यवनो घोरतपस्यालीनो a बभूव । ऋषेः शरीरं मृदावृतमासीत् । शर्यातिपुत्रैर्मुदावृते च्यवनकाये लोष्ठान् प्रक्षिप्य घोरोऽनर्थः कृतः । ततः ऋषिकोपेन सेनाया मतिभ्रष्टा । सैनिकाः परस्परं युद्धमारभन्त । राज्ञा ज्ञातं यदत्र केनाऽपराद्धम् ? स कुपितमृषिमुपगम्य क्षमामयाचत । क्षतं विक्षतं मे शरीरमित्युक्त्वा : का च्यवनेन सेवायै तस्य पुत्री याचिता । शर्यातिना सर्वहिताय स्वपुत्री सुकन्या तस्मै दत्ता । 9 ततः सर्वे युद्धरताः सैनिकाः प्रकृतिस्था बभूवुः । एकदाऽश्विनीकुमारौ सुकन्यायाः सौन्दर्यमवलोक्य मोहितौ । ताभ्यां सा कथिता । यदेनं वृद्धं विहायाऽऽवयोरेकं वृणीष्व । 'सा होवाच यस्मै मां पिताऽदान्नैवाऽहं तं जीवितं । हास्यामीति । तस्या वचनेन तां पतिव्रतां विज्ञाय तावश्विनीकुमारौ प्रसन्नौ । वृद्ध स्वपतिमामलकीप्राशं खादयेर्येन तव पतिर्युवा भविष्यतीति निगद्य तामामलकीप्राशनिर्माणस्य विधिं कथयामासतुः । सा तं निर्माय स्वपतिमभक्षयत् । तेनर्षिच्यवनो नवयौवनमलभत । क ततः स युवा भूत्वा सूक्तं लिलेख, यत्र कुमार्गाल्लोकान्निवारयितुमृषिरिन्द्रं प्रार्थयति ___ पुनरैना निवर्तय पुनरेना न्या कुरु । इन्द्र एणा नियच्छत्वग्निरेना उपयजतु ।। ऋग्वेदः-१०/१९/२ आमलकीप्राशश्च्यवनप्राशनाम्ना प्रसिद्धः, किन्त्वस्य च्यवनप्राशस्य निर्मात्री सुकन्याऽऽसीत् । (१) शतपथब्रह्मणम् - ४/१/५/९ Jain Education International १२ For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy