SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ बल प्रतिष्ठितनगरात् सकल: पौरजनः साष्टाङ्गं प्रणम्य सविनयं विज्ञपयति, यथा - सङ्घातेनेवर धान्यनिचयो, धूमकेतुसमुद्गमेनेव जननिवहो, व्याधदर्शननेव मृगसमुदयो, जलदागमेनेव वा राजहंसगणो देव ! देवराजेन समस्तोऽप्यत्युद्वेजितो जनः, स च देवपादाननुस्मरतीति मत्वा ॐ यथाऽन्यराज्येषु न गच्छति तथाऽऽदेश्यमिति ।" एतदाकर्ण्य भृकुटिभङ्गभीषणवदनो राजा प्रतीहारं तत्क्षणमादिष्टवान् ‘भोः ! शीघ्रतरं प्रस्थानभेरी ताडय ।' सोऽपि 'आदेश' इत्युक्त्वोच्चैस्तां ताडितवान् । तस्या गभीरशब्देन * * सर्वाऽपि पुरी प्रक्षुब्धेव । अपि च - कश्चिद्रथं, कश्चित्तु गजं, कश्चिदश्वं कश्चिच्च वृषभं र 5 प्रगुणीकरोति स्म । सर्वैरपि भटैः सुभटैः सैनिकैः सेनानीभिश्च सर्वमपि शस्त्रास्त्रादिकं में प्रगुणीकृतम् । एवं सर्वमपि सन्नह्य राजोत्तमे लग्ने प्रस्थानमङ्गलं कृत्वाऽनवरतप्रयाणैः क्षितिप्रतिष्ठितनगरोपान्तं प्राप। देवराजोऽपि चैतज्ज्ञात्वा यावत्तत्सम्मुखं गन्तुमुद्यतस्तावत् सर्वेऽपि सामन्तादयः पौरजनाश्च विरक्तत्वान्न तेन समं निर्गच्छन्ति स्म । एतद् दृष्ट्वा विषण्णः स चिन्तितवान् * 'हन्त ! सर्वा अपि प्रजा मत्तो विरक्तीभूताः सन्ति । अतो मे वनवास एव श्रेयः ।' ततः * स निभृतमेव वनं गतवान् । जना अपि वत्सराजमागतं ज्ञात्वा महता विच्छर्दैन तं नगरमध्ये प्रवेशितवन्तो राज्ये चाऽभिषिक्तवन्तः । एवं राज्यद्वयस्य स्वामीभूय स सनयं सप्रणयं च सर्वा अपि प्रजाः * पालयति स्म त्रिवर्गमपि साधयति स्म ।। अथोत्तरे वयसि स्वपदे स्वपुत्रं संस्थाप्य वैराग्यवासितो वत्सराजः सूरिसमीपे प्रव्रज्यां गृहीत्वा सुरलोकं प्राप्तः, क्रमशश्चाऽपवर्गं प्राप्स्यति ।। [सम्पूर्णा] (श्रीदेवचन्द्रसूरिविरचितात् प्राकृतभाषामय सिरिसंतिनाहचरियं' - ग्रन्थात् सङ्कलितैषा कथा II) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy