________________
""
राष्ट्र-रक्षा
वासुदेव वि. पाठकः 'वागर्थ' ' कार्या संस्कृत-संस्कृतिरक्षा, तथैवोज्ज्वला राष्ट्र-सुरक्षा ॥ संस्कृतिरेषा संस्कृताधृता ऋषिभिर्मनीषिभिरलता; अस्यास्सर्वोत्कृष्टा कक्षा, कार्या संस्कृत.... ॥
सकले विश्वे भारतीयता उत्कर्षार्थं वराऽधिकृता; सर्वेषां कल्याणे दक्षा, कार्या संस्कृत..... ॥
भारतेऽस्ति शास्त्राणामृद्धिः, संस्काराणामतिसमृद्धिः; स्याम च सर्वहितार्थं दक्षाः, कार्या संस्कृत..... ॥
किं करिष्यति पाण्डित्यमपात्रे प्रतिपादितम् । सपिधानघटान्तःस्थः प्रदीप इव वेश्मनि ।।
(जैनपञ्चतन्त्रे)
४२
Jain Education International
For Private Personal Use Only
www.jainelibrary.org