SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ विरुद्धमाचरति स मनसिकृत्य राजरोग(T.B.)-मधुप्रमेह-अर्बुदरोगइत्यादीननेकान् रोगानामन्त्रयति, इति ज्ञेयम् । __भोः ! त्वं प्रकृत्या सह यथा व्यवहरसि तथैव साऽपि त्वया सार्धं (A व्यवहरति । त्वया वृक्ष-वन-गिरि-इत्यादिकं सर्वं नाशितम् । नदी-निर्झरजलाशय-कूपश्चेत्यादयः सर्वे शोषितास्त्वया । इदानीं प्रकृतेरेकमप्यङ्गमेतादृशं नाऽवशिष्टं यस्य नाशो न कृतस्त्वया । किन्त्वेतद् ज्ञेयं यत्, प्रकृत्या यस्य कस्याऽप्यङ्गस्य नाशस्तवैव विनाशस्य कारणं भवति । पश्य, अद्य मुहुर्मुहुर्भूकम्पअतिवृष्टि-अवृष्टि-झञ्झावात-त्सुनामी-इत्यादिका नरसंहारिका घटना जायन्ते । । "प्रकृतिविनाश" एवैतादृश्या दुर्घटनायाः कारणमस्ति । अतो यावत् त्वं प्रकृति विनाशयिष्यसि तावदस्यां भुवि न कदाऽपि शान्तिर्भविष्यति । आगामिकाल स्त्वतीव भीतिकरोऽस्ति, इति निश्चितम् ।। गिरिः सत्यम्, नितरां सत्यम् । उपभोगार्थं कृतस्य कर्मणः फलं त्वयैवाऽवश्यं भोक्तव्यम्। अन्यच्च निराश्रितानां वन्य-जलीय-ग्राम्यप्राणिनां निःश्वासेनाऽपि त्वं शप्तो भवसि । एवं वयं तु दुःखिनो भविष्याम एव, किन्तु तवाऽपि बन्धुजना अधिकं दुःखिनो । भविष्यन्ति । वृक्षः - भो ! अद्यपर्यन्तं न केऽपि जना अन्यान् पीडयित्वा हत्वा च सुखिनो भूताः । ॐ कदाचिद् बाह्यदृष्ट्या सुखिनो दृश्येरन्, किन्त्वाभ्यन्तरदृष्ट्या तु ते दुःखिन एव विद्यन्ते । त्वमपि..... मनुष्यः (निरुध्य) मैवं वादीः, क्षन्तव्यो मेऽपराधः, क्ष...न्त... (रोदिति) वृक्षः शोकं मा कुरु । अद्य त्वं मनसा निश्चिनु- "इतः परं न कदाऽपि स्वार्थायाऽन्येषामहितं करिष्यामि, नाऽन्येभ्यो दुःखं दास्यामि, नाऽन्यान् हनिष्यामि," इति । शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखीभवन्तु लोकाः ।। Jain Education International ९२ For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy