________________
गुरुदेवेनाऽऽर्यसंस्कृतिरक्षणार्थमेव स्वकीयं समस्तमपि जीवनं समर्पितमस्ति । अतो धनचिन्तां विहाय यत् करणीयं तद् वदतु ।
आंग्लचिकित्सक उवाच - लघुर्हृदयाघातोऽस्ति । अत इदानीमेव शस्त्रचिकित्सा करणीया । एतदाकर्ण्य सर्वेऽपि शिष्या भक्तजनाश्च दीनमनस्का भवन्ति । तथाऽपि ' भवतु ' इत्युक्त्वैको भक्तजन: स्वकीयं वातानुकूलितं (A.C.) कारयानमानीयाऽऽगच्छति । शीघ्रमेव रुग्णालये गुरुदेवं नीतवान् । तदा "लक्षद्वयरूप्यकप्रमाणं धनमावश्यकमस्ति" इत्युक्तवानांग्लचिकित्सकः ।
I
क्षणमात्रेण श्रेष्ठिनाऽऽवश्यकं धनं दत्तम् । यद्यधिकं धनमावश्यकं तर्हि कथनीयम्, किन्तु धनस्य चिन्ता न करणीया, इत्याह श्रेष्ठी ।
आंग्लचिकित्सको वदति नैवं नैवं, एतत्तु पर्याप्तमस्ति । पश्चाद् गुरुदेवं शस्त्रक्रियाखण्डे नयति । आवश्यकं कर्म समाप्यैकस्मिन् पल्यङ्के स्वापयति । निद्रायाः सूच्यौषधं दत्त्वा वायुप्रकोपशान्त्यर्थं च गुलिकाद्वयमपि ददाति । तथा त्वचः किञ्चिद् विदारणं कृत्वा तस्मिन्नैव क्षणे तत्रैव पुनः सीवनं कृतम् । इतः स आंग्लचिकित्सकोऽपि सेवकाय सूचनं दत्त्वा स्वखण्डे शान्त्या स्वपिति । सूचनानुगुणं घण्टाद्वयस्य पश्चात् सेवको बहिर्गत्वोपस्थितेभ्यः शिष्यवृन्देभ्यो भक्तजनेभ्यश्च 'शस्त्रकर्म सफलं गतम्' इत्युक्त्वाऽन्तर्गतवान् । बहिः स्थिताः सर्वेऽपि साधवो जनाश्चाऽतीवऽऽनन्दमनुभवन्ति ।
-
इतश्चेतत् सर्वं विलोकयन् प्रथममागतः स वैद्यराजश्चिन्तयति- "एतत् सर्वं महत्ताया अतिप्रसिद्धेर्जनप्रियतायाश्च दुःखमस्ति । अस्मिन् युगे यावती महती जनप्रियता यावाँश्च भक्तवर्गो विशालोऽस्ति तावदधिकं दुःखमस्ति अधिका च पीडाऽस्ति । अतोऽद्य निश्चिनोमि - प्रियजना विना कारणं मां मारयेयुः, तावान् महान्न भविष्यामीति ।
Jain Education International
स्थाणुर्वा पुरुषो वाऽयं दृष्ट्वति तर्कयन्ति यम् । स मानी दूरतस्त्याज्यो नम्रादिगुणवर्जनात् ।।
(हिङ्गुलप्रकरणे)
५९
For Private & Personal Use Only
www.jainelibrary.org