________________
vaidim
a
nshi
भक्तामरसमस्यास्तवः
मुनिधुरन्धरविजयः
. भक्तामरप्रणतमौलिमणिप्रभाणामाभा विकीर्णबहुवर्णसुमावलीव । यस्मिन् रराज जिनपादयुगं प्रणम्य, सौभाग्यभाग्यकमलानिलयं मुदा तत् ॥१॥
यः संस्तुतः सकलवाङ्मयतत्त्वबोधाद्, ध्येयोऽयमेव जगतीति विनिश्चिताथैः । देवेश्वरैरसुरकिन्नरयोगिमुख्यै
स्तं नाभिराजतनयं सनयं स्तविष्ये ॥२॥ बुद्ध्या विनाऽपि विबुधार्चितपादपीठ !,
दीनस्तवोरुकरुणामृतबिन्दुकानी । 3 रागप्रचण्डफणिनागविषप्रशान्त्यै, * स्तोतुं भवन्तमथ नाथ ! तनोमि यलम् ॥३॥
वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्, शक्नोति कस्तव जगत्त्रयगौरवान् ि । किं सर्वदेवदनुजातुलरूपाशि
स्ते रूपलेशतुलनामपि कर्तुमीशः ? ॥४॥ सोऽहं तथाऽपि तव भक्ति वशान्मुनीश
वृन्दान्निषेव्य समवाप्य कवित्वलेशम् । त किञ्चित्करोमि तव संस्तवने प्रयास, * बालो यथा चलति मातूरं गृहीत्वा ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org