________________
अल्पश्रुतं श्रुतवतां परिहासधाम,
मां देव ! देहि परमां वचनस्य शक्तिम् । * एतादृशीं तव पवित्रगुणव्रजानां, सम्यक् स्तुतौ सबलतां समुपैमि येन ॥६॥
सम्मोहमद्य मदमुद्रितचेतनानामुद्योतकं दलितपापतमोवितानम् । त्वत्स्तोत्रगानमिह सूर्यसमप्रतापं,
चित्रं झरत्यमृतचारुरसप्रवाहम् ॥७॥ यत्पोच्छलत्प्रबलभक्तिभरप्रवाहादुद्भुतबुद्धिपटुभिः सुरलोकनाथैः । - दिव्यर्द्धिशक्तिसहितैरपि मानवैस्त्वं, * संस्तूयसे परमचित्रमहो न तत् किम् ? ॥८॥
मूर्खाऽप्यबोध्यममरैर्जिन ! ते चरित्रं, स्तोतुं समुद्यतमतिविंगतत्रपोऽहम् । तत्पङ्गुलेन सदृशोऽस्म्यतिसाहसी य
आरोढुमिच्छति समुन्नतमेरुशैलम् ॥९॥ देवाऽनवद्यगुणलेशमपि प्रवक्तुं, कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या । किन्तु त्वदीयकणालहरीप्रभावादज्ञोऽप्यहो तव गुणस्तवनां करोमि ॥१०॥
लोकोत्तरं गुणरसं तव यन्निपीय, कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । व्यक्तीकरोति विजयारसपानकेन, वाचालतां भुवि यथाऽपठितोऽपि लोकः॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org