________________
जनभाषात्वमाधातुं योग्या संस्कृतभारती । तेनाऽखण्डं भारतं नो विश्वञ्चाऽखण्डतामियात् ॥११॥ विजयशीलशशिसूरीन् श्रीलान्कुरुष्वभिवादयते पथिकः । नन्दनवनकल्पतरोश्छाया सरससाद्धरताद्विपथः
सबहुमानविनयं भावत्कः
(सुरेन्द्रमोहनमिश्रः)
जगन्नाथ-पाठकः
३/१४, एम. आई. जी., आवास विकास कॉलोनी, योजना-३, 9
झूसी, इलाहाबाद-२११०१९ (उत्तर प्रदेश) "नन्दनवनकल्पतरुः" इत्याख्यायाः पत्रिकायाः ‘पञ्चदशीशाखा' समधिगता । पत्रिकेयमाध्यात्मिकस्य जगत उपकारेण सममेव प्रवर्तमानाधुनिक-संस्कृत-साहित्यक्षेत्रमपि भृशमुपकुर्वाणेव परिलक्ष्यते । अस्याः सङ्कलनकर्वी 'कीर्तित्रयी' सर्वथा समेषामस्मादृशां 20 संस्कृतविद्याव्यसनिनामभिनन्दनास्पदम् । यद्यप्यत्र सङ्कलिता सामग्री बाहुल्येन जैनधर्म-16 शास्त्रविषया प्रतिभाति तथाऽपि ‘सङ्कलनकर्त्याः' सर्वधर्मसमभावोऽपि प्रायः परिलक्ष्यत ।
एव । वस्तुतः, इयमेव भारतीया संस्कृतिः, परम्परा च । यथा चोक्तं भक्तप्रवरेण पुष्पदन्तेन, 2 'रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां, नृणामेको गम्यस्त्वमसि पयसामर्णव इव' इति । 2
पत्रिकायामस्यां काव्यविद्या-वैविध्यमपि सुतरां मनस आकर्षणायाऽलमित्यनुभवामः । अस्यां 16 प्रकाशिता लेखा अपि सामान्येनाऽपि संस्कृतज्ञेन अवगन्तुं शक्याः प्रतीयन्ते । दिनेष्वेषु संस्कृतज्ञेष्वपि प्रायो व्याकरणच्युतिरभिलक्ष्यते, किन्तु पत्रिकायामस्यां शुद्धतया शोभनतया ) च प्रस्तूयमानं संस्कृतमिति प्रमोदावहम् ।
यथाक्रमं प्रकाश्यमानया पत्रिकयाऽनया सदैव संस्कृतसेवापरायणाः प्रमोदन्तामिति 61
कामयमानः
पाठकोपाह्वो जगन्नाथः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org