SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ रूपनाराय एस, २/३३०, राज्यशिक्षा संस्थानकालोनी, एलनगञ्जः, प्रयागः, उ.प्र. २११००२ मान्याः , वाचकाठमां प्रतिभावः । सादरं प्रणामाः । 'नन्दनवनकल्पतरोः' पञ्चदशोऽङ्कोऽधिगतः । अत्र निखिला रचना रम्याः सन्ति । 'किं न | नाम ज्येष्ठत्वम्' इति रूपके युवजनानां शीलसंरक्षणाय गुरुजनानां यच्चरितं प्रस्तुतम्, तत् सर्वथा श्लाघनीयं लोककल्याणकारकं च विद्यते । स्वस्नुषाया गुणसुन्दर्याः कामपीडायाः निवारणाय श्रेष्ठिना यद् मनोवैज्ञानिकं रचनात्मकं संघटनं व्यधायि, तत् स्वस्थसमाजस्य संरचनायै नितरां युज्यते। डॉ. रामकिशोरमिश्रमहाभागस्य 'भामती' इति कथाऽपि हृदयं संस्पृशति । एकस्य सरस्वतीसमुपासकस्य कृते भामत्याः समर्पणं कस्मैचित् सत्प्रेरणां न प्रयच्छति ? तस्याः कृते वाचस्पतिमिश्रस्य कृत्यमपि तथैव मानसं प्रभावयति । किन्तु कथायामस्यां 'भामती' एको गणितग्रन्थोऽस्ति-इति यदुच्यते तत् भ्रान्तिमूलकमस्ति । 'भामती' वस्तुतः भगवत्पादशङ्कराचार्यस्य शारीरकभाष्यस्य (ब्रह्मसूत्रभाष्यस्य) विशदा गम्भीरा व्याख्याऽस्ति । 'प्रास्ताविकम्' अपि यथार्थपरकमस्ति । अस्माभिर्नीति: पाल्येत । जयतु संस्कृतम्, संस्कृतिश्च । । शास्त्री व्रजलालभाई वी. उपाध्यायः जानकी एपार्टमेन्ट, पहेले माळे, लाला मेतानी शेरी, जामनगर-३६१००१ नन्दनवनकल्पतरुवितरणदेवीसम्पदनुबन्धतुष्टिपुष्टिसम्प्रीणितविबुधवदान्या महानुभावा तत्रभवती कीर्तित्रयी, प्रणतिततयः । किं लिखामि ? मम मौनमेवशरणम् । साक्षात्कारं विना नैव स्मरणं नाऽनुमानता । आगमार्थोपदेशाश्च सर्वमेव परोक्षता || दैवीसम्पत्परस्तावद् भावस्वभावविश्वासः । साक्षात्कार इवाऽऽभाति कीर्तित्रयीसुकीर्तनम् ॥ प्रास्ताविकम् - सौहार्देन पठितम् विशिष्टवाचकानाञ्च प्रतिभावा अपि प्रतिभावैभवदर्शनदार्शनिकतां दधति । किं नाम ज्येष्ठत्वं-मनोहरा रचना । धन्यं सारस्वतं धाम, धन्य-धन्या परम्परा । वन्द्यः स्तुत्यश्च भवतां, चिद्विलासो हि साधना । __धन्या यूयं सर्वे वन्दनीयाश्च ।। 7 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy