________________
निर्लालसेन मनसा हि गुरुं प्रपन्नो धत्ते गुरौ सुबहुमानमसौ निसर्गात् । गुर्वी मता मुनिजनैः प्रतिपत्तिरेषा कर्मक्षयोपशमजा किल भावसारा ॥३०॥
अत्राऽऽहितोऽस्ति भगवद्बहुमानभावो 'मां मन्यते स गुरु'मित्यभवद् यदाज्ञा । एतां विना सकलमाचणं तु मिथ्या ।
स्यात्पुंश्चलीजनसुसेवितसत्क्रियावत् ॥३१॥ तद् गर्हितं हि नितरां परमार्थविद्धिर्यस्मादभीष्टफलतोऽन्यफलं फलं न । तृप्तिर्विषान्नजनिता विदुषामनिष्टा तद्वत् प्रपत्तिरहिता सकला क्रियाऽपि ॥३२॥
एतद्विषं गुरुषु योऽबहुमानभावो धर्मं निहन्ति सकलं तु विराधनैषा । आवर्त एव खलु तत्फलमत्र बोध्यं
पापानुबन्धि विदुषां नितरामनिष्टम् ॥३३॥ मोक्षो ह्ययं गुरुषु यो बहुमानभावो मुक्तेरवन्ध्यमयमस्ति यतो निमित्तम् । अस्मात् परेण गुरुणा परमात्मना वै योगो भवेत्तदनु सिद्धिरसंशयं यत् ॥३४॥ A . उच्चैः शुभोदयमयः प्रवरानुबन्धी
संसाररोगशमनो बहुमान एषः ।
3. नाऽस्त्येव सुन्दरतरं किमपीह तरमाR AN नैवोपमा जगति काऽपि किलाऽस्य दृष्टा ॥३५॥
"
Jain Education International
३२ For Private & Personal Use Only
www.jainelibrary.org