SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ - - अव्याकुलो भवति च स्वसमीहिताप्तेः पीडाव्यथाविरहितोऽवहितः क्रियायाम् । लेश्या शुभा प्रतिदिनं किल वर्धतेऽस्य वैद्य तथा हृदयतो बहुमानभावः ॥२४॥ रोगोपचारविषये सहजः क्रमोऽयं मोक्षार्थिसाधुविषयेऽप्ययमेवमेव ।। कर्माणि रुग् जनिजरामरणादि पीडा, वैद्यस्तु सद्गुरुरिति प्रकृतेऽवसेयम् ॥२५॥ विज्ञाय दुःखमयमत्र भवस्वरूप निर्विण्णभावमधिगम्य ततश्च बाढम् । संप्राप्य धर्ममथ सद्गुरुसंगयोगाच्चारित्रमुक्त विधिना प्रतिपद्यतेऽसौ ॥२६॥ स्वेच्छाप्रमादविहितं सकलं रुणद्धि गृह्णाति शुद्धमशनं विरसं च तुच्छम् । मुक्तिं क्रमादयमुपैति हि कर्मरोगात् पीडाऽपि चाऽस्य विनिवर्तत आर्तिरूपा ॥२७॥ नीरोगतां चरणशोधनजां च लब्ध्वा संवर्धमानशुभभावतया विशेषात् । तल्लाभनिर्वृतिबलादधिकानुरक्तो धैर्यं जहाति नहि कष्टपरीषहेषु ॥२८॥ * किन्त्येषु चैव कुशलाशयवृद्धिमेष - तत्त्वानुशीलनबलेन लभेत बाढम् । AA 3 शान्तस्य कार्यकुशलस्य ततोऽस्य तेजो CR लेश्या स्थिराशयवतः परिवर्धते च ॥२९॥ ALEX ३१ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy