________________
दुःषमकालेऽस्मिन् भरते किल, न हि मुक्तेः संहननं रे; चमकोपल इव लोहं भक्तिः , कुरुते मुक्त्यानयनं रे..... ॥३॥
शुद्धसुवासनचूर्णं दत्तं, मिथ्यापविहननं रे;
आनन्दमयभजनं तव सृजते, मानसमलापनयनं रे..... ॥४॥ प्राप्तेऽक्षयनिधिसम्यक्त्वे तव, देहे चलधनभरणं रे; शान्तसुधारसझरणैर्नयनैः, सिञ्चय सेवककरणं रे..... ॥५॥
बाह्याभ्यन्तरशत्रूणां किल, नाथ ! नाऽथ भयभवनं रे;
दासः सुखितो यशोविलासी, तत्तव महिमोल्लसनं रे..... ॥६॥ नाममत्रमिव साधितमिह तव, सम्मोहयते भुवनं रे; तव मुखमुद्रां दृष्ट्वा प्रमुदे, चातक इव नवसुघनं रे..... ॥७॥
आदृत्याऽपरदेवं स्वामिन् !, नेहेऽथो भवभ्रमणं रे; ज्ञानविमल ! तारय भवजलधिं, कृत्वा मम करग्रहणं रे..... ॥८॥
___ (३)
स्तुति
विमलाचलमंडन, ऋषभजिणंद दयाळ, मरुदेवानंदन, वंदन करुं त्रण काळ; ए तीरथ जाणी, पूर्व नब्वाणु वार; आदीश्वर आव्या, जाणी लाभ अपार ॥१॥
स्तुतिः विमलाचलमण्डन ! ऋषभजिनेन्द्र ! दयालं, मरुदेवानन्दन !, वन्दे त्वां त्रयकालम्; इह तीर्थ पूर्वस्यैकोनशतवारं, आगतवानृषभो, ज्ञात्वा लाभमपारम् ॥१॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org