________________
Kaml
.
.
सत्त्वादि सर्वं मुषितं तु येषां तेषां प्रदाता वरदर्शनादेः । देवाधिदेवोऽतिसुरद्रुमस्त्वं मोहस्तु यस्मादतिनश्यतीश ! स्वामिन्निदं येन जगन्निरुद्धं कुतर्क-माया-ममतावितानैः । मिथ्यात्वमोहाध्यवसायकायै-ढिं तमो हंसि रविस्त्वमीश ! ॥२॥ समुन्नतेऽज्ञानघने प्रगाढे सत्त्वेषु तत्त्वेषु दधासि भासम् । विस्तीर्णसज्ज्ञानमणिप्रयोगात् त्वं धर्मचक्री भवसीत्थमीश ! ॥३॥ स्पृष्टं त्वयाऽर्हन् ! हृदयाम्बुजं मे सज्ज्ञानभानो ! करुणाकरेण । स्मेरं पुरा नो-हरिणाऽब्धिशेन' हरेण नो वा शशभूद्-धरेण ॥४॥ त्वत्सेहपूर्णो मम चित्तदीपः सद्याऽद्य गन्ता परिपूर्णतेजः । प्राग् ध्वान्तमग्नोऽप्रदैवतेषु स्याद्वादभानो ! त्वयि कौशिकेषु ॥५॥ अपूर्वभावस्तव देव ! सार्व ! स्तवे भवे नाऽवगतोऽस्मि पूर्वम् । जातस्ततोऽभाववतां सुखानां पराभवानां भवनं भवेषु
રીદો दोषान्धकारप्रचुरे भवेऽस्मिन् पञ्चेषुवर्षां मदनः करोति । गुणांशुभानो ! स्मरनागसिंह ! मां पाहि विश्वेऽभयदस्त्वमेव ॥७॥ हे ! नाथ ! नेक्षे भवता ममैतद् भवेषु भूरि प्रबलं सुदुःखम् । नेतर् ! न पात्रं करुणासुधायास्तवाऽथवाऽलं पुरतोऽति वाचा ॥८॥
। १. अब्धौ शेरते इति ‘अब्धि + शी + ड = अब्धिशः' इति 'क्वचित्' (५.१.१७१) सिद्धहेमव्याकरणसूत्रेण . साध्यम् - जलधिशायी हरिस्तेन इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org