SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ नैमित्तिकेनोक्तं ‘राजन् ! भवत एका भगिनी आसीत् या भूमिगोचरेण शूरनरेन्द्रेण परिणायिता तस्य चाऽत्यन्तं वल्लभाऽऽसीत् । अथाऽन्यदाऽन्यस्यां राजपुत्र्यामासक्तः स राजा तस्या विरक्तो जातस्तन्नामाऽपि श्रोतुं नोत्सहते स्म । एतेन साऽपि तव भगिनी तस्यां स्वसपत्न्यां विद्विष्टा बालतपः कृत्वा मृत्वा च सुप्रचण्डव्यन्तरदेवीतया समुत्पन्ना । साऽपि च तत्सपत्नी दानादिपुण्यं कृत्वा मृत्वा च दत्तश्रेष्ठिनो दुहितृत्वेनोत्पन्ना । अस्या व्यन्तरदेव्यास्तस्या उपरि अनन्यसमो द्वेषो विद्यतेऽतः सा " यः कोऽपि नरोऽस्याः प्राहरिकत्वेनाऽपि शयेत तमपि यमालयं प्रेषयिष्येऽहम्” इति विचिन्त्य प्रतिरात्रमेकैकं जनं कोपवशेन निहन्त्यद्ययावत् । अथ च तस्या व्यन्तरदेव्याः पार्श्वेऽस्या भावी भर्ता आयास्यति एते च भवत्कन्ये परिणेष्यति तथा तत्पूर्वमेव देव्याः सकाशात् पुरुषविनाशं रक्षित्वा तां दत्तश्रेष्ठिदुहितरमपि परिणेष्यति; नाऽत्र सन्देहः ।' एतन्निशम्य स मम पूर्वभवीयो भ्राता विद्याधरनृपः स्वीये द्वे अपि कन्ये मत्सकाशे आनीय स्वयं च किञ्चित् तपः कृत्वा कालगतः सन् व्यन्तराणामिन्द्रः सञ्जातः । तस्य च मयि महान् स्नेहो वर्ततेऽतस्तेनैषोऽश्वरूपधरो यक्षो मे किङ्करत्वेन दत्तस्तथा सर्वकामितदः पल्यङ्क ओषधिवलयद्विकमपि मे दत्तमस्ति । तदेतत् सर्वमपि कन्याद्विकेन सह तेऽद्य तुष्टाऽहं ददामि, स्वीकुरु सर्वमप्येतत् कुमार ! ।' तदा वत्सराजोऽपि हर्षनिर्भरो भूत्वा तत् सर्वं स्वीकृतवान् कन्ये च ते परिणीतवान् । ततः स तत्रैवोषित्वा शुभरसानुगतं सुखमनुभवन् कालं गमयति स्म । अथाऽन्यदा कदाचिद्रात्रौ सुप्तविबुद्धोऽसौ चिन्तयति स्म, 'अहो ! तादृशीं प्रतिज्ञां गृहीत्वाऽपि विषयमूढमना अहमत्र कालं व्ययीकरोमि ! कीदृशो मूढोऽहमस्मि ! नूनं मया सा प्रतिज्ञा पूरणीया ।' अतस्तेन स्वीये दयिते उक्ते- 'प्रिये ! मयेदृशी प्रतिज्ञा गृहीताऽस्ति, एतावता च कालेन पूरणीयाऽतोऽम्बां विज्ञप्य दिव्यं वस्त्रमेकं गमनाज्ञां च गृह्णीतं, येन वयं शीघ्रं गन्तुं शक्नुमः ।' ताभ्यामपि देवी विज्ञप्ता ‘अम्ब! कृपयाऽस्मद्भर्त्रे दिव्यं वस्त्रमेकं दत्त्वा गन्तुमनुमन्यतां येन स स्वीयगुरुप्रतिज्ञार्णवं तरीतुं शक्नुयात् । तदा सा सर्वामपि सामग्री सम्मेल्य ताभ्यां सह कुमारं शोकपूर्णहृदयेन विसृजति स्म । कुमारोऽपि तस्याः पादयोः पतित्वा स्वीयापराधं Jain Education International ६९ For Private & Personal Use Only ܕܐܪܐ ܐܪܐܠ ܬܐ ܐܐ ܡܐ ܐܪܕܐ ܕܠ ܡܐ ܕܕܐܠ ܪܐ ܪܐ ܕܕ ܕܐ ܕܐ ܡܐ ܐܪܕ ܕܐ ܕܐ ܕ ܐ ܕܐ ܕܐ ܕܐ ܕܐ ܕܐ ܕܐ ܕܡܐ ܕ ܪ ܕܕܐ ܕ ܕܕ ܕ ܐ ܐ ܝ ܕܕ ܕܕ ܕ www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy